पुष्कर उवाच
त्रिपुरञ्जघ्नुषः पूर्वं ब्रह्मणा विष्णुपञ्जरं ।
शङ्करस्य द्विजश्रेष्ठ रक्षणाय निरूपितं ॥ २७०.१ ॥
वागीशेन च शक्रस्य बलं हन्तुं प्रयास्यतः ।
तस्य स्वरूपं वक्ष्यामि तत्त्वं श्रृणु जयादिमत् ॥ २७०.२ ॥
विष्णुऋ प्राच्यां स्थितश्चक्री हरिर्दक्षिणतो गदी ।
प्रतीच्यां शार्ङ्गधृग्विष्णुर्जिष्णुः खड्गी ममोत्तरे ॥ २७०.३ ॥
हृषीकेशो विकीर्णेषु तच्छिद्रेषु जनार्दनः ।
क्रोडरूपी हरिर्भूमौ नरसिंहोऽम्बरे मम ॥ २७०.४ ॥
क्षुरान्तममलञ्चक्रं भ्रमत्येतत् सुदर्शनं ।
अस्याशुमाला दुष्प्रेक्ष्या हन्तुं प्रेतनिशाचरान् ॥ २७०.५ ॥
गदा चेयं सहस्रार्च्चिः प्रदीप्तपावकोज्जवला ।
रक्षोभूतपिशाचानां डाकिनीनाञअच नाशनी ॥ २७०.६ ॥
शार्ङ्गविस्फूर्ज्जिञ्चैव वासुदेवस्य मद्रिपून् ।
तिर्य्यङ्मनुष्यकुष्माण्डप्रेतादीन् हन्त्वशेषतः ॥ २७०.७ ॥
खड्गधारोज्ज्वलज्योऽत्स्नानिर्द्धूता ये समाहिताः ।
ते यान्तु शाम्यतां सद्यो गरुडेनेव चपन्नगः ॥ २७०.८ ॥
ये कुष्णाण्डास्तथा यक्षा ये दैत्या ये निशाचराः ।
प्रेता विनायकाः क्रूरा मनुष्या जम्भगाः खगाः ॥ २७०.९ ॥
सिंहादयश्च पशवो दन्दसूकाश्च पन्नागाः ।
सर्व्वे भवन्तु ते सौम्याः कृष्णशङ्खरवाहताः ॥ २७०.१० ॥
चित्तवृत्तिहरा ये मे ये जनाः स्मृतिहारकाः ।
बलौजसाञ्च हर्त्तारश्छायाविभ्रंशकाश्च ये ॥ २७०.११ ॥
ये चोपभोगहर्त्तारो ये च लक्षणनाशकाः ।
कुष्माण्डास्ते प्रणश्यन्तु विष्णुचक्ररवाहताः ॥ २७०.१२ ॥
बुद्धिस्वास्थ्यं मनःस्वास्थ्यं स्वास्थ्यमैन्द्रियकं तथा ।
ममास्तु देवदेवस्य वासुदेवस्य कीर्त्तनात् ॥ २७०.१३ ॥
पृष्ठे पुरस्तान्मम दक्षिणोत्तरे विकोणतश्चास्तु जनार्दनो हरिः ।
तमीड्यमीशानमनन्तमच्युतं जनार्दनं प्रणिपतितो न सीदति ॥ २७०.१४ ॥
यथा परं ब्रह्म हरिस्तथा परः जगत्स्वरूपश्च स एव केशवः ।
सत्येन तेनाच्युतनामकीर्त्तनात् प्रणाशयेत्तु त्रिविधं ममाशुभं ॥ २७०.१५ ॥
इत्यादिमहापुराणे आग्नेये विष्णुपञ्जरं नाम सप्तत्यधिकद्विशततमोऽध्यायः ॥