पुष्कर उवाच
कर्म्म सांवत्सरं राज्ञां जन्मर्क्षे पूजयेच्च तं ।
मासि मासि च सङ्क्रान्तौ सूर्य्यसोमादिदेवताः ॥ २६८.१ ॥
अगस्त्यस्योदयेऽगस्त्यञ्चातुर्म्मास्यं हरिं यजेत् ।
शयनोत्थापने पञ्चदिनं कुर्य्यात्समुत्सवम् ॥ २६८.२ ॥
प्रोष्ठपादे सिते पक्षे प्रतिपत्प्रभृतिक्रमात् ।
शिबिरात् पूर्वदिग्भागे शक्रार्थं भवनञ्चरेत् ॥ २६८.३ ॥
तत्र शक्रध्वजं स्थाप्य शचीं शक्रञ्च पूजयेत् ।
अष्टम्यां वाद्यघोषेण तान्तु यष्टिं प्रवेशयेत् ॥ २६८.४ ॥
एकादश्यां सोपवासो द्वादश्यां केतुमुत्थितम् ।
यजेद्वस्त्रादिसंवीतं घटस्थं सुरपं शचीं ॥ २६८.५ ॥
वर्द्धस्वेन्द्र जितामित्र वृत्रहन् पाकशासन ।
देव देव महाभाग त्वं हि भूमिष्ठतां गतः ॥ २६८.६ ॥
त्वं प्रभुः शाश्वतश्चैव सर्व्वभूतहिते रतः ।
अनन्ततेजा वै राजो यशोजयविवर्द्धनः ॥ २६८.७ ॥
तेजस्ते वर्द्धयन्त्वेते देवाः शक्रः सुवृष्टिकृत् ।
ब्रह्मविष्णुमहेशाश्च कार्त्तिकेयो विनायकः ॥ २६८.८ ॥
आदित्या वसवो रुद्राः साध्याश्च भृगवो दिशः ।
मरुद्गणा लोकपाला ग्रहा यक्षादिनिम्नगाः ॥ २६८.९ ॥
समुद्रा श्रीर्मही गौरी चण्डिका च सरस्वती ।
प्रवर्त्तयन्तु ते तेजो जय शक्र शचीपते ॥ २६८.१० ॥
तव चापि जयान्नित्यं मम सम्पद्यतां शुभं ।
प्रसीद राज्ञां विप्राणां प्रजानामपि सर्वशः ॥ २६८.११ ॥
भवत्प्रसादात् पृथिवी नित्यं शस्यवती भवेत् ।
शिवं भवतु निर्व्विघ्नं शाम्यन्तामीतयो भृशं ॥ २६८.१२ ॥
मन्त्रेणेन्द्रं समभ्यर्च्च्य जितभूः स्वर्गमाप्नुयात् ।
भद्रकालीं पटे लिख्य पूजयेदाश्विने जये ॥ २६८.१३ ॥
शुक्लपक्षे तथाष्टम्यामायुधं कार्म्मुकं ध्वजम् ।
छत्रञ्च राजलिङ्गानि शस्त्राद्यं कुसुमादिभिः ॥ २६८.१४ ॥
जाग्रन्निशि बलिन्दद्याद् द्वितीयेऽह्नि पुनर्यजेत् ।
भद्रकालि महाकालि दुर्गे दुर्गार्त्तिहारिणि ॥ २६८.१५ ॥
त्रैलोक्यविजये चण्डि मम शान्तौ जये भव ।
नीराजनविधिं वक्ष्ये ऐशान्याम्मन्दिरं चरेत् ॥ २६८.१६ ॥
तोरणत्रितयं तत्र गृहे देवान् यजेत् सदा ।
चित्रान्त्यक्त्वा यदा स्वातिं सविता प्रतिपद्यते ॥ २६८.१७ ॥
ततः प्रभृति कर्त्तव्यं यावत् स्वातौ रविः स्थितः ।
ब्रह्मा विष्णुश्च शम्भुश्च शक्रश्चैवानलानिलौ ॥ २६८.१८ ॥
विनायकः कुमारश्च वरुणो धनदो यमः ।
विश्वे देवा वैश्रवसो गजाश्चाष्टौ च तान् यजेत् ॥ २६८.१९ ॥
कुमुदैरावणौ पद्मः पुष्पदन्तश्च वामनः ।
सुप्रतीकोऽञ्चनो नीलः पूजा कार्य्या गृहादिके ॥ २६८.२० ॥
पुरोधा जुहुयादाज्यं समित्सिद्धार्थकं तिलाः ।
कुम्बा अष्टौ पूजिताश्च तैः स्नाप्याश्वगजोत्तमाः ॥ २६८.२१ ॥
अश्वाः स्नाप्या ददेत् पिण्डान् ततो हि प्रथमं गजान् ।
निष्क्रामयेत्तोरणैस्तु गोपुरादि न लङ्घयेत् ॥ २६८.२२ ॥
विक्रमेयुस्ततः सर्वे राजलिङ्गं गृहे यजेत् ।
वारुणे वरुणं प्रार्च्य रात्रौ भूतबलिं ददेत् ॥ २६८.२३ ॥
विशाखायां गते सूर्य्ये आश्रमे निवसेन्नृपः ।
अलङ्कुर्य्याद्दिने नस्मिन् वाहनन्तु विशेषतः ॥ २६८.२४ ॥
पूजिता राजलिङ्गाश्च कर्त्तव्या नरहस्तगाः ।
हस्तिनन्तुरगं छत्रं खड्गं चापञ्च दुन्दुभिम् ॥ २६८.२५ ॥
ध्वजं पताकां धर्म्मज्ञ कालज्ञस्त्वभिभन्त्रयेत् ।
अमिमन्त्रय ततः सर्व्वन् कुर्य्यात् कुञ्जरघूर्गतान् ॥ २६८.२६ ॥
कुञ्जरोपरिगौ स्यातां सांवत्सरपुरोहितौ ।
मन्त्रितांश्च समारुह्य तोरणेन विनिर्गमेत् ॥ २६८.२७ ॥
निष्क्रम्य नागमारुह्य तोरणेनाथ निर्गमेत् ।
बलिं विभज्य विधिवद्राजा कुञ्जरधूर्गतः ॥ २६८.२८ ॥
उन्मूकानान्तु निचयमादीपितदिगन्तरं ।
राजा प्रदक्षइणं कुय्यात्त्रीन् वारान् सुसमाहितः ॥ २६८.२९ ॥
चतुरङ्गबलोपेतः सर्वसैन्येन नादयन् ।
एवं कृत्वा गृहं गच्छेद्विसर्जितजलाञ्जलिः ॥ २६८.३० ॥
शान्तिर्न्नीराजनाख्येयं वृद्धये रिपुमर्द्दनी ।
इत्यादिमहापुराणे आग्नेये नीराजनाविधिर्नामाष्टषष्ट्यधिकद्विशततमोऽध्यायः ॥