२५७

अग्निरुवाच
सीग्नो विवादे क्षेत्रस्य सामन्ताः स्थविरा गणाः
गोपाः सीमाकृषाणा ये सर्वे च वनगोचराः ॥ २५७.१ ॥

नयेयुरेते सीमानं स्थलाङ्गारतुषद्रुमैः ।
सेतुवल्मीकनिम्नास्थिचैत्याद्यैरुपलक्षिताम् ॥ २५७.२ ॥

सामान्ता वा समं ग्रामाश्चत्वारोऽष्टौ दशापि वा१ ।
रक्तस्रग्वसनाः सीमान्नयेयुः क्षितिधारिणः ॥ २५८.३ ॥

अनृते तु पृथग्दण्ड्या राज्ञा मध्यमसाहसम् ।
अभावे ज्ञातृचिह्नानां राजा सीम्नः प्रवर्त्तकः ॥ २५८.४ ॥

आरामायतनग्रामनिपानोद्यानवेश्मसु ।
एष एव विधिर्ज्ञेयो वर्षाग्वुप्रवहेषु च ॥ २५८.५ ॥

मर्य्यादायाः प्रभेदेषु क्षेत्रस्य हरणे तथा ।
मर्य्यादायाश्च दण्ड्याः स्युरधमोत्तममध्यमाः ॥ २५८.६ ॥

न निषेध्योऽल्पबाधस्तु सेतुः कल्याणकारकः ।
परभूमिं हरन् कूपः स्वल्पक्षेत्रो बहूदकः ॥ २५८.७ ॥

स्वामिने योऽनिवेद्यैव क्षेत्रे सेतुं प्रकल्पयेत् ।
उत्पन्ने स्वामिनो भोगस्तदभावे महीपतेः ॥ २५८.८ ॥

फालाहतमपि क्षेत्रं यो न कुर्यान्न कारयेत् ।
स प्रदाप्योऽकृष्टफलं क्षेत्रमन्येन कारयेत् ॥ २५८.९ ॥

मासानष्टौ तु महिषो सस्यघातन्थ कारिणी ।
दण्डनाया तदर्द्धन्तु गौस्तदर्द्धनजाविकं ॥ २५८.१० ॥

भक्षयित्वोपविष्टानां यथोक्ताद् द्विगुणो दमः ।
सममेषां विवितेपि खरेष्ट्रं महिषीसमम् ॥ २५८.११ ॥

यावत् सस्यं विनष्टन्तु तावत् क्षेत्री फलं लभेत् ।
पालस्ताड्योऽथ गोस्वामी पूर्वोक्तं दण्डमर्हति ॥ २५८.१२ ॥

पथि ग्रामविवीतन्ते क्षेत्रे दोषो न विद्यते ।
अकामतः कामचारे चौरवद्दण्डमर्हति ॥ २५८.१३ ॥

महोक्षोत्सृष्टपशवः सूतिकागन्तुका च गौः ।
पालो येषान्तु ते मोच्या दैवराजपरिप्लुताः ॥ २५८.१४ ॥

यथार्पितान् पशून् गोपः सायं प्रत्यर्पयेत्तथा ।
प्रमादमृतनष्टांश्च प्रदाप्यः कृतवेतनः ॥ २५८.१५ ॥

पालदोषविनाशे तु पाले दण्डो विधीयते ।
अर्द्धत्रयोदशपणः स्वामिनो द्रव्यमेव च ॥ २५८.१६ ॥

ग्रामेच्छया गोप्रचारो भूमिराजवशेन वा ।
द्विजस्तृणैधः पुष्पाणि सर्वतः स्ववदाहरेत् ॥ २५८.१७ ॥

धनुःशतं परीणाहो ग्रामक्षेत्रान्तरं भवेत् ।
द्वे शने खर्वटस्य स्यान्नगरस्य चतुःशतम् ॥ २५८.१८ ॥

स्वं लभेतान्यविक्रीतं क्रेतुर्द्दोषोऽप्रकाशिते ।
हीनाद्रहो हीनमूल्ये वेलाहीने च तस्करः ॥ २५८.१९ ॥

नष्टा पहृतमासाद्य हर्त्तारं ग्राहयेन्नरम् ।
देशकालातिपत्तौ वा गृहीत्वा स्वयमर्पयेत् ॥ २५८.२० ॥

विक्रेतुर्द्दर्शनाच्छुद्धिः स्वामी द्रव्यं नृपो दमम् ।
क्रेता मूल्यं समाप्नोति तस्माद्यस्तव विक्रयी ॥ २५८.२१ ॥

आगमेनोपभोगेन नष्टं भाव्यमतोऽन्यथा ।
पञ्चबन्धो दमस्तस्य राज्ञे तेनाप्यभाविते ॥ २५८.२२ ॥

हृतं प्रनष्टं यो द्रव्यं परहस्तदवाप्नुयात् ।
अनिवेद्य नृपे दण्ड्यः स तु षण्णवतिं पणान् ॥ २५८.२३ ॥

शौलिककैः स्थानपालैर्वा नष्टापहृतमाहृतं ।
अर्व्वाक् संवत्सरात् स्वामी लभते परतो नृपः ॥ २५८.२४ ॥

पणानेकशफे दद्याच्चतुरः पञ्च मानुषे ।
महिषोष्ट्रगवां द्वौ द्वौ पादं पादमजाविके ॥ २५८.२५ ॥

स्वकुटुम्‌बाविरोधेन देयं दारसुतादृते ।
नान्वये सति सर्वस्वं देयं यच्चान्यसंश्रुतम् ॥ २५८.२६ ॥

प्रतिग्रहः प्रकाशः स्यात् स्थावरस्य विशेषतः ।
देयं प्रतिश्रुतञ्चैव दत्वा नापहरेत् पुनः ॥ २५८.२७ ॥

दशैकपञ्चसप्ताहमासत्र्यहार्द्धमासिकं ।
वीजायोवाह्यरत्नस्त्रीदोह्यपुंसां प्रतीक्षणम् ॥ २५८.२८ ॥

अग्नौ सुवर्णमक्षीणं द्विपलं रजते शते ।
अष्टौ त्रपुणि सीसे च ताम्रे पञ्चदशायसि ॥ २५८.२९ ॥

शते दशपलावृद्धिरौर्णे कार्पासिके तथा ।
मध्ये पञ्चपला ज्ञेया सूक्ष्मे तु त्रिपला मता ॥ २५८.३० ॥

कार्म्मिके रोमबद्धे च त्रिंशद्भागः क्षयो मतः ।
न क्षयो न च वृद्धिस्तु कौशेये वल्कलेषु च ॥ २५८.३१ ॥

देशं कालञ्च भोगञ्च ज्ञात्वा नष्टे बलाबलम् ।
द्रव्याणआं कुशला ब्रुयुर्यद्दाप्यमसंशयम् ॥ २५८.३२ ॥

बलाद्दासीकृतश्चौरैर्विक्रीतश्चापि मुच्यते ।
स्वामिप्राणपदो भक्तत्यागात्तन्निष्क्रयादपि ॥ २५८.३३ ।

प्रव्रज्यावसितो राज्ञा दास आमरणान्तिकः ।
वर्णानामानुलोभ्यन्न दास्यं न प्रतिलोमतः ॥ २५८.३४ ॥

कृतशिल्पोपि निवसेत् कृतकालं गुरोर्गृहे ।
अन्तेवासी गुरुप्राप्तभोजनस्तत्‌फलप्रदः ॥ २५८.३५ ॥

राजा कृत्वा पुरे स्थानं ब्राह्मणन्न्यस्य तत्र तु ।
त्रैविद्यं वृत्तिमद्‌ब्रूयात् स्वधर्म्मः पाल्यतामिति ॥ २५८.३६ ॥

निजधर्म्माविरोधेन यस्तु सामयिको भवेत् ।
सोपि यत्नेन संरक्ष्यो धर्मो राजकृतश्च यः ॥ २५८.३७ ॥

गणद्रव्यं हरेद्यस्तु संविदं लङ्घयेच्च यः ।
सर्वस्वहरणं कृत्वा तं राष्ट्रद्विप्रवासयेत् ॥ २५८.३८ ॥

कर्त्तव्यं वचनं सर्वैः समूहहितवादिभिः ।
यस्तत्र विपरीतः स्यात्स दाप्यः प्रथमं दम्म ॥ २५८.३९ ॥

समूहकार्य्यप्रहितो यल्लभेत्तत्तदर्पयेत् ।
एकादशगुणं दाप्यो यद्यसौ नार्पयेत् स्वयम् ॥ २५८.४० ॥

वेदज्ञाः शुचयोऽलुब्धा भवेयुः कार्यचिन्तकाः ।
कर्त्तव्यं वचनं तेषा समूहहितवादिनां ॥ २५८.४१ ॥

श्रेणिनैगमपाखण्डिगणानामप्ययं विधिः ।
भेदञ्चैषां नृपो रक्षएत् पूर्ववृत्तिञ्च पालयेत् ॥ २५८.४२ ॥

गृहीतवेतनः कर्म्म त्यजन् द्विगुणमावहेत् ।
अगृहीते समं दाप्यो भृत्यै रक्ष्य उपस्करः ॥ २५८.४३ ॥

दाप्यस्तु दशमं भागं बाणिज्यपशुसस्यतः ।
अनिश्चित्य भृतिं यस्तु कारयेत्स महीक्षइता ॥ २५८.४४ ॥

देशं कालञ्च योऽतीयात् कर्म्म कुर्य्याच्च योऽन्यथा ।
तत्र तु स्वामिनश्छन्दोऽधिकं देयं कृतेऽधिके ॥ २५८.४५ ॥

यो यावत् कुरुते कर्म्म तावत्तस्य तु वेतनम् ।
उभयोरप्यसाध्यञ्चेत् साध्ये कुर्य्याद्यथाश्रुतम् ॥ २५८.४६ ॥

अराजदैविकन्नष्टं भाण्डं दाप्यस्तु वाहकः ।
प्रस्थानविघ्नकृच्चैव चप्रदाप्यो द्विगुणां भृतिम् ॥ २५८.४७ ॥

प्रकान्ते सप्तमं भागं चतुर्थं पथि सन्त्यजन् ।
भृतिमर्द्धपथे सर्व्वां प्रदाप्यस्त्याजकोपि च ॥ २५८.४८ ॥

ग्लहे शतिकवृद्धेस्तु सभिकः पञ्चकं शतं ।
गृह्णीयाद्‌धूर्त्तकितवादितराद्दशकं शतं ॥ २५८.४९ ॥

स सम्यक्‌पालितो दद्याद्रज्ञे भागं यथाकृतं ।
जितमुद्‌ग्राहयेज्जेत्रे दद्यात्सत्यं वचः क्षमी ॥ २५८.५० ॥

प्रप्ते नृपतिना भागो प्रसिद्धे धूर्त्तमण्डले ।
जितं सशभिके स्थाने दापयेदन्यथा न तु ॥ २५८.५१ ॥

द्रष्टारो व्यवहाराणां साक्षिणश्च त एव हि ।
राज्ञा सचिह्ना निर्वास्याः कूटाक्षोपधिदेविनः ॥ २५८.५२ ॥

द्यूतमेकमुखं कार्य्यं तस्करज्ञानकारणात् ।
एष एव विधिर्ज्ञेयः प्राणिद्यूते समाह्वये ॥ २५८.५३ ॥

इत्यादिमहापुराणे आग्नेये सीमाविवादादिनिर्णयो नाम सप्तपञ्चाशदधिकद्विशततमोऽध्यायः ॥