२४०

राम उवाच
मण्डलं चिन्तयेत्मुख्यं राजा द्वादशराजकं ।२४०.००१
अरिर्मित्रमरेर्मित्रं मित्रमित्रमतः परं ॥२४०.००१
तथारिमित्रमित्रञ्च विजिगीषोः पुरः स्मृताः(१) ।२४०.००२
पार्ष्णिग्राहः स्मृतः पश्चादाक्रन्दस्तदनन्तरं ॥२४०.००२
आसारावनयोश्चैवं विजगीषाश्च मण्डलं ।२४०.००३
अरेश्च विजिगीषोश्च मध्यमो भूम्यनन्तरः ॥२४०.००३
अनुग्रहे संहतयोर्निग्रहे व्यस्तयोः प्रभुः ।२४०.००४
मण्डलाद्वहिरेतेषामुदासीनो बलाधिकः ॥२४०.००४
अनुग्रहे संहतानां व्यस्तानां च बुधे प्रभुः ।२४०.००५
सन्धिञ्च विग्रहं यानमासानदि वदामि ते ॥२४०.००५
बलवद्विग्रहीतेन सन्धिं कुर्याच्छिवाय च ।२४०.००६
कपाल उपहारश्च सन्तानः सङ्गतस्तथा ॥२४०.००६
उपन्यासः प्रतीकारः संयोगः पुरुषान्तरः ।२४०.००७
अदृष्टनर आदिष्ट आत्मापि स उपग्रहः ॥२४०.००७
परिक्रमस्तथा छिन्नस्तथा च परदूषणं ।२४०.००८
स्कन्धोपयेयः सन्धिश्च सन्धयः षोडशेरिताः ॥२४०.००८
परस्परोपकारश्च मैत्रः सम्बन्धकस्तथा(२) ।२४०.००९
उपहाराश्च चत्वारस्तेषु मुख्याश्च सन्धयः ॥२४०.००९
बालो वृद्धो दीर्घरोगस्तथा बन्धुवहिष्कृतः ।२४०.०१०
मौरुको भीरुकजनो लुब्धो लुब्धजनस्तथा ॥२४०.०१०
विरक्तप्रकृतिश्चैव विषयेष्वतिशक्तिमान् ।२४०.०११
अनेकचित्तमन्त्रश्च देवब्राह्मणनिन्दकः ॥२४०.०११
दैवोपहतकश्चैव दैवनिन्दक एव च ।२४०.०१२
दुर्भिक्षव्यसनोपेतो बलव्यसनसङ्कुलः ॥२४०.०१२
विस्तीर्यताम्
टिप्पणी