पुष्कर उवाच
अजस्रं कर्म वक्ष्यामि दिनं प्रति यदाचरेत् ।
द्विमुहूर्त्तावशेषायां रात्रौ निद्रान्त्यजेन्नृपः ॥ २३५.१ ॥
वाद्यवन्दिस्वनैर्गीतैः पश्येद् गूढास्ततो नरान् ।
विज्ञायते न ये लोकास्तदीया इति केनचित् ॥ २३५.२ ॥
आयव्ययस्य श्रवणं ततः कार्य्यं यथाविधि ।
वेगोत्सर्गं ततः कृत्वा राजा स्नानगृहं व्रजेत् ॥ २३५.३ ॥
स्नानं कुर्य्यान्नृपः श्चाद्दन्तधावनपूर्वकं ।
कृत्वा सन्ध्यान्ततो जप्यं वासुदेवं प्रपूजयेत् ॥ २३५.४ ॥
वह्नौ पवित्रान् जुहुयात् तर्पयेदु दकैः पितृन् ।
दद्यात्सकाञ्चनीं धेनुं द्विजाशीर्वादसंयुतः ॥ २३५.५ ॥
अनुलिप्तोऽलङ्कृतश्च मुखं पश्येच्च दर्पणे ।
ससुवर्णे धृते राजा श्रृणुयाद्दिवसादिकं ॥ २३५.६ ॥
औषधं भिषजोक्तं च मङ्गलालम्भनञ्चरेत् ।
पश्येद् गुरुं तेन दत्ताशीर्वादोऽथ व्रजेत्सभां ॥ २३६.७ ॥
तत्रस्थो ब्राह्मणान् पश्येदमात्यान्मन्त्रिणस्तथा ।
प्रकृतीश्च महाभाग प्रतीहारनिवेदिताः ॥ २३५.८ ॥
श्रुत्वेतिहासं कार्य्याणि कार्याणां कार्य्यनिर्णयम् ।
व्यवहारन्ततः पश्येन्मन्त्रं कुर्य्यात्तु मन्त्रिभिः ॥ २३५.९ ॥
नैकेन सहितः कुर्य्यान्न कुर्य्याद्बहुभिः सह ।
न च मूर्खैर्न्न चानाप्तैर्गुप्तन्न प्रकटं चरेत्१ ॥ २३५.१० ॥
मन्त्रं स्वधिष्ठितं कुर्य्याद्येन राष्ट्रं न बाधते ।
आकारग्रहणे राज्ञो मन्त्ररक्षा परा मता२ ॥ २३५.११ ॥
आकारैरिङ्गितैः प्राज्ञा मन्त्रं गृह्णन्ति पण्डिताः ।
सांवत्सराणां वैद्यानां मन्त्रिणां वचनेरतः ॥ २३५.१२ ॥
राजा विभूतिमाप्नोति३ धारयन्ति नृपं हि ते ।
मन्त्रं कृत्वाथ व्यायामञ्चक्रे याने च शस्त्रके ॥ २३५.१३ ॥
निःसत्त्वादौ नृपः स्नातः पश्येद्विष्णुं सुपूजितम् ।
हुतञ्च पावकं पश्येद्विप्रान् पश्येत्सुपूजितान् ॥ २३५.१४ ॥
भूषितो भोजनङ्कुर्य्याद् दानाद्यैः सुपरीक्षितं ।
भुक्त्वा गृहीतताम्बूलो वामपार्श्वेन संस्थितः४ ॥ २३५.१५ ॥
शास्त्राणि चिन्तयेद् दृष्ट्वा योधान् कोष्ठायुधं गृहं ।
अन्वास्य पश्चिमां सन्ध्यां कार्य्याणि च विचिन्त्य तु ॥ २३५.१६ ॥
चरान् सम्प्रेष्य भुक्तान्नमन्तःपुरचरो भवेत् ।
वाद्यगीतैरक्षितोऽन्यैरेवन्नित्यञ्चरेन्नृपः ॥ २३५.१७ ॥
इत्यादिमहापुराणे आग्नेये आजस्रिकं नाम पञ्चत्रिंशदधिकद्विशततमोऽध्यायः ।