२२९

पुष्कर उवाच
स्वप्नं शुभाशुभं वक्ष्ये दुःस्वप्नहरणन्तथा ।
नाभिं विनान्यत्र गात्रे तृणवृक्षसमुद्भवः ॥ २२९.१ ॥

चूर्णनं मूद्‌र्ध्नि कांस्यानां मुण्डनं नग्नता तथा ।
मलिनाम्बरधारित्वमभ्यङ्गः पङ्कदिग्धता ॥ २२९.२ ॥

उच्चात् प्रपतनञ्चैव विवाहो गीतमेव च ।
तन्त्रीवाद्यविनोदश्च दालारोहणमेव च ॥ २२९.३ ॥

अर्जनं पद्मलोहानां सर्पाणामथ मारणं ।
रक्तपुष्पद्रुमाणाञ्च चण्डालस्य तथैव च ॥ २२९.४ ॥

वराहश्वखरोष्ट्राणां तथा चारोहणक्रिया ।
भक्षणं पक्षिमांसानां तैलस्य कृशरस्य च१ ॥ २२९.५ ॥

मातुः प्रवेशो जठरे चितारोहणमेव च ।
शक्रध्वजाभिपतनं पतनं शशिसूर्य्ययोः ॥ २२९.६ ॥

दिव्यान्तरीक्षभौमानामुत्पातानाञ्च दर्शनं ।
देवद्विजातिभूपानां गुरूणाङ्कोप एव च ॥ २२९.७ ॥

नर्त्तनं हसनञ्चैव विवाहो गीतमेव च२ ।
तन्त्रीवाद्यविहीनानां वाद्यानामपि वादनं ॥ २२९.८ ॥

स्त्रोतोवहाधोगमनं स्नानं गोमयवारिणा ।
पङ्कोदकेन च तथा मशीतोयेन वाप्यथ ॥ २२९.९ ॥

आलिड्गनं कुमारीणां पुरुषाणाञ्च मैथुनं३ ।
हानिश्चैव स्वगात्राणां विरेको वमनक्रिया ॥ २२९.१० ॥

दक्षिणाशाप्रगमनं व्याधिनाभिभवस्तथा ।
फलानामुपहानिश्च धातूनां भेदनं तथा ॥ २२९.११ ॥

गृहाणाञ्चैव पतनं गृहसम्मार्जनन्तथा ।
क्रोडा पिशाचक्रव्यादवानरान्त्यनरैरपि ॥ २२९.१२ ॥

परादभिभवश्चैव तस्माच्च व्यसनोद्भवः ।
काषायवस्त्रधारित्वं तद्वस्त्रै क्रीडनं तथा४ ॥ २२९.१३ ॥

स्रेहपानावगाहौ च रक्तमाल्यानुलेपनं ।
इत्यधन्यानि स्वप्नानि तेषामकथनं शुभं ॥ २२९.१४ ॥

भूयश्च स्वपनं तद्वत् कार्य्यं स्नानं द्विजार्च्चनं ।
तिलैर्होमो हरिब्रह्मशिवार्कगणपूजनं ॥ २२९.१५ ॥

तथा स्तुतिप्रपठनं पुंसूक्तादिजपस्तथा ।
स्वप्नास्तु प्रथमे यामे५ संवत्सरविपाकिनः ॥ २२९.१६ ॥

षड्‌भिर्मासैर्द्वितीये तु त्रिभिर्मासैस्त्रियामिकाः ।
चतुर्थे त्वर्द्धमासेन दशाहादरुणोदये ॥ २२९.१७ ॥

एकस्यामथ चेद्रात्रौ शुभं वा यदि वाऽशुभं ।
पश्चाद् दृष्टस्तु यस्तत्र तस्य पाकं विनिर्दिशेत् ॥ २२९.१८ ॥

तस्मात्तु शोभने स्वप्ने पश्चात्स्वापो न शस्यते ।
शैलप्रासादनागाश्ववृषभारोहणं हितं ॥ २२९.१९ ॥

द्रुमाणां स्वेतपुष्पाणां गगने च तथा द्विज ।
द्रुमतृणोद्भवो नाभौ तथा च बहुबाहुता ॥ २२९.२० ॥

तथा च बहुशीर्षत्वं पलितोद्बव एव च ।
सुशुक्लमाल्यधारित्वं सुशुक्लाम्बरधारिता ॥ २२९.२१ ॥

चन्द्रार्कताराग्रहणं परिमार्जनमेव च ।
शक्रध्वजालिङ्गनञ्च ध्वजोच्छ्रायक्रिया तथा ॥ २२९.२२ ॥

भूम्यम्बुधाराग्रहणं६ शत्रूणाञ्चैव विक्रिया ।
जयो विवादे द्युते च सङ्‌ग्रामे च तथा द्विज ॥ २२९.२३ ॥

भक्षणञ्चार्ट्रमांसानाम्पायसस्य च भक्षणं ।
दर्शनं रुधिरस्यापि स्नानं वा रुधिरेण च ॥ २२९.२४ ॥

सुगरुधिरमद्यानां पानं क्षीरस्य वाप्यथ ।
अस्त्रैर्विचेष्टनं भूमौ निर्मलं गगनं तथा ॥ २२९.२५ ॥

मुखेन दोहनं शस्तं महिषीणां तथा गवां ।
सिंहीनां हस्तिनीनाञ्च बडवानां तथैव च ॥ २२९.२६ ॥

प्रसादो देवविप्रेभ्यो गुरुभ्यश्च तथा द्विज ।
अम्भसा चाभिषेखस्तु गवां श्रृङ्गच्युतेन च ॥ २२९.२७ ॥

चन्द्राद् भ्रष्टेन वा राम ज्ञेयं राकज्यप्रदं हि तत् ।
राज्याभिषेकश्च तथा छेदनं शिरसोऽप्यथ ॥ २२९.२८ ॥

मरणं वह्निलाभश्च वह्निदाहो गृहादिषु ।
लब्धिश्च राकजलिङ्गानां तन्त्रीवाद्याभिवादनं ॥ २२९.२९ ॥

यस्तु पश्यति स्वप्नान्ते राजानं कुञ्जरं हयं ।
हिरण्यं वृषभङ्गाञ्च कुटुम्बस्तस्य वर्द्धते ॥ २२९.३० ॥

वृषेभगृहशैलाग्रवृक्षारोहणरोदनं ।
घृतविष्ठानुलेपो वा अगम्यागमनं तथा ॥ २२९.३१ ॥

सितवस्त्रं प्रसन्नाम्भः फली वृक्षो नभोऽमलं।

इत्यादिमहापुराणे आग्नेये स्वप्नाध्यायो नाम एकोनत्रिंशत्यधिकद्विशततमोऽध्यायः ।