ईश्वर उवाच
वक्ष्याम्यृक्षात्मकं पिण्डं शुभाशुभविबुद्धये ।
यस्मिन्नृक्षे भवेत्सूर्यस्तदादौ त्रीणि मूर्धनि(१) ॥०१
एकम्मुखे द्वयन्नेत्रे हस्तपादे चतुष्टयं ।
हृदि पञ्च सुते जानौ आयुर्बुद्धिं विचिन्तयेत् ॥०२
शिरस्थे तु भवेद्राज्यं पिण्डतो वक्त्रयोगतः ।
नेत्रयोः कान्तसौभाग्यं हृदये द्रव्यसङ्ग्रहः ॥०३
हस्ते धृतं तस्करत्वङ्गतासुरध्वगः(२) पदे ।
कुम्भाष्तके भानि लिख्य(३) सूर्यकुम्भस्तु रिक्तकः ॥०४
अशुभः सूर्यकुम्भः स्याच्छुभः पूर्वादिसंस्थितः ।
फणिराहुं(४) प्रवक्ष्यामि जयाजयविवेकदं ॥०५
अष्टाविंशांल्लिखेद्विन्दून् पुनर्भाज्यस्त्रिभ्स्त्रिभिः ।
अथ ऋक्षाणि चत्वारि रेखास्तत्रैव दापयेत् ॥०६
यस्मिन्नृक्षे स्थितो राहुस्तदृक्षं फणिमूर्धनि(५) ।
तदादि विन्यसेद्भानि सप्तविंशक्रमेण तु ॥०७
वक्त्रे सप्तगते ऋक्षे म्रियते सर्व आहवे ।
विस्तीर्यताम्
टिप्पणी