अग्निरुवाच
उद्यतश्चेद्गयां यातुं(१) श्राद्धं कृत्वा विधानतः ।११५.००१
विधाय कार्पटीवेशं ग्रामस्यापि प्रदक्षिणं ॥११५.००१
कृत्वा प्रतिदिनङ्गच्छेत्संयतश्चाप्रतिग्रही ।११५.००२
गृहाच्चलितमात्रस्य गयया गमनं प्रति ॥११५.००२
स्वर्गारोहणसोपानं पितॄणान्तु पदे पदे ।११५.००३
ब्रह्मज्ञानेन किं कार्यं गोगृहे मरणेन किं ॥११५.००३
किं कुरुक्षेत्रवासेन यदा(२) पुत्रो गयां व्रजेत् ।११५.००४
गयाप्राप्तं सुतं दृष्ट्वा पितॄणामुत्सवो भवेत् ॥११५.००४
पद्भ्यामपि जलं स्पृष्ट्वा अस्मभ्यं किन्न दास्यति ।११५.००५
ब्रह्मज्ञानं गयाश्राद्धं गोगृहे मरणं तथा ॥११५.००५
वासः पुंसां कुरुक्षेत्रे मुक्तिरेषा चतुर्विधा ।११५.००६
काङ्क्षन्ति पितरः पुत्रं नरकाद्भयभीरवः ॥११५.००६
गयां यास्यति यः पुत्रः स नस्त्राता भविष्यति ।११५.००७
मुण्डनञ्चोपवासश्च सर्वतीर्थेष्वयं विधिः ॥११५.००७
न कालादिर्गयातीर्थे दद्यात्पिण्डांश्च नित्यशः ।११५.००८
पक्षत्रयनिवासी च पुनात्यासप्ततमं कुलं ॥११५.००८