०९३

ईश्वर उवाच
ततः प्रासादमासूत्र्य वर्त्तयेकद्वास्तुमण्डपं।
कुर्य्यात् कोष्ठचतुः षष्टि वेदास्रके समे ॥ १ ॥

कोणेषु विन्यसेद् वंशौ रज्जवोऽष्टौ विकोणगाः।
द्विपदाः षट्पदास्तास्तु वास्तुन्तत्रार्च्चयेद् यथा ॥ २ ॥

आकुञ्चितकचं वास्तुमुत्तानमसुराकृति ।
स्मरेत् पूजासु कुड्यादिनिवेशे उत्तराननं ॥ ३ ॥

जानुनी कूर्परौ शक्‌थि दिशि वातहुताशयोः।
पैत्र्यां पादपुटे रौद्र्यां शिरोऽस्य हृदयेऽञ्जलिः ॥ ४ ॥

अस्य देहे समारूढा देवताः पूजिताः शुभाः।
अष्ठौ कोणाधिपास्तत्र कोणार्द्धेष्वष्टसु स्थिताः ॥ ५ ॥

षट्‌पदास्तु मरीच्याद्या दिक्षु पूर्वादिषु क्रमात्।
मध्ये चतुष्पदो ब्रह्मा शेषास्तु पदिकाः स्मुताः ॥ ६ ॥

समस्तनाडीसंयोगे महामर्म्मानुजं फलं।
त्रिशूलं स्वस्तिकं वज्रं महास्वस्तिकसम्पुटौ ॥ ७ ॥

त्रिकटुं मणिबन्धं च सुविशुद्धं पदं तता।
इति द्वादश मर्म्माणि वास्तोर्भित्त्यादिषु त्यजेत् ॥ ८ ॥

साज्यमक्षतमीशाय पर्जन्यायाम्बुजोदकं।
ददीताथ कजयन्ताय पताकां कुङ्रकुमोज्जवलां ॥ ९ ॥

रत्नवारि महेन्द्राय रवौ धूम्रं वितानकं।
सत्याय घृतगोधूममाज्यभक्तं भृशाय च ॥ १० ॥

विमांसमन्तरीक्षाय शक्तुन्तेभ्यस्तु पूर्वतः।
मधुक्षीराकज्यसम्बूर्णां प्रदद्याद्वह्नये श्रुचं ॥ ११ ॥

लाजान् पूर्ण सुवर्णाम्बु वितथाय निवेदयेत्।
दद्याद् गृहक्षते क्षौद्रं यमराजे पलौदनं ॥ १२ ॥

गन्धं गन्धर्वनाथाय जिह्वां भृह्गाय पक्षिणः।
मृगाय पद्मपर्णानि याम्यामित्यष्टदेवता ॥ १३ ॥

पित्रे तिलोदकं क्षीरं वृक्षजं दन्तधावनं।
दौवारिकाय देवाय प्रदद्याद् धेनुमुद्रया ॥ १४ ॥

सुग्रीवाय दिशेत् पूपान् पुष्पदन्ताय दर्ब्भकं।
रक्तं प्रचेतसे पद्ममसुराय सुरासवं ॥ १५ ॥

घृतं गुडौदनं शेषे रोगाय घृतमण्डकान्।
लाजान् वा पश्चिमाशायां देवाष्टकमितीरितं ॥ १६ ॥

मारुताय ध्वजं पीतं नागाय नागकेशरं।
मुख्ये भक्ष्याणि भल्लाटे मुद्‌गसूपं सुसंस्कृतं ॥ १७ ॥

सोमाय पायसं साज्यं शालूकमूषये दिशेत्।
लोपीमदितये दित्यै पुरीमित्युत्तराष्टकं ॥ १८ ॥

मोदकान् ब्रह्मणः प्राच्यां षट्‌पदाय मरीचये।
सवित्रे रक्तपुष्पाणि वह्न्यधः कोणकोष्ठके ॥ १९ ॥

तदधः कोष्ठके दद्यात् सावित्र्यै च कुशोदकं ।
दक्षिणे चन्दनं रक्तं षट्पदायविवस्वते ॥ २० ॥

हरिद्रौनमिन्द्राय रक्षोधः कोणकोष्ठके।
इन्द्रजयाय मिश्रान्नमिन्द्राधस्तान्निवेदयेत् ॥ २१ ॥

वारुण्यां षट्‌पदासीने मित्रे सगुडमोदनं।
रुद्राय घृतसिद्धान्नं वायुकोणाधरे पदे ॥ २२ ॥

तदधो रुद्रदासाय मासं मार्गमथोत्तरे।
ददीत माषनैवेद्यं षट्‌पदस्थे धराधरे ॥ २३ ॥

आपाय शिवकोणाधः तद्वत्साय च तत्‌स्थले ।
क्रमाद्दद्याद्दधिक्षार पूजयित्वा विधानतः ॥ २४ ॥

चतुष्पदे निविष्टाय ब्रह्मणे मध्यदेशतः।
पञ्चगव्याक्षतोपेतञ्चरुं साज्यं निवेदयेत् ॥ २५ ॥

ईशादिवायुपर्य्यन्तकोणेष्वथ यथाक्रमं।
वास्तुवाह्ये चरक्याद्याश्चतस्रः पूजयेद् यथा ॥ २६ ॥

चरक्यै सघृतं मांसं विदार्य्यै दधिपङ्कजे।
पूतनायै पलं पित्तं रुधिरं च निवेदयेत् ॥ २७ ॥

अस्थीनि पापराक्षस्यै रक्तपित्तपलानि च।
ततोमाषौदनं प्राच्यां स्कन्दाय विनिवेदयेत् ॥ २८ ॥

अर्य्यम्णे दक्षिणाशायां पूपान् कृसरया युतान्।
जम्भकाय च वारुण्यामामिपं रुधिरान्वितं ॥ २९ ॥

उदीच्यां पिलिपिञ्जाय रक्तान्नं कुसुमानि च।
यजेद्वा सकलं वास्तुं कुशदध्यक्षतैर्जलैः ॥ ३० ॥

गृहे च नगरादौ च एकाशीतिपदैर्यजेत्।
त्रिपदा रज्जवः कार्य्याः षट्‌पदाश्च विकोणके ॥ ३१ ॥

ईशाद्याः पादिकस्तस्मिन्नागाद्याश्च द्विकोष्ठगाः।
षट्‌पदस्था मरीच्याद्या ब्रह्मा नवपदः स्मृतः ॥ ३२ ॥

नगरग्रामखेटादौ वास्तुः शतपदोऽपि वा।
वंशद्वयं कोणगतं दुर्जरयं दुर्द्धरं सदा ॥ ३३ ॥

यथा देवालये न्यासस्तथा शतपदे हितः।
ग्रहाः स्कन्दादयस्तत्र विज्ञेयाश्चैव षट्‌पदाः ॥ ३४ ॥
चरक्याद्या भूतपदा रज्जुवंशादि पूर्ववत्।
देशसंस्थापने वास्तु चतुस्त्रिशच्छतं भवेत् ॥ ३५ ॥

चतुः षष्टिपदो ब्रह्मा मरीच्याद्याश्च देवताः।
चतुः पञ्चाशत्पदिका आपाद्यष्टौ रसाग्निभिः ॥ ३६ ॥

ईशानाद्या नवपदाः स्कन्दाद्याः शक्तिकाः स्मृताः।
चरक्याद्यास्तद्वदेव रज्जुवंशादिपूर्ववत् ॥ ३७ ॥

ज्ञेयो वंळशसहस्रैस्तु वास्तुमण्डलगः पदैः
न्यासो नवगुणस्तत्र कर्त्तव्यो देशवास्तुवत् ॥ ३८ ॥

पञ्चविंशत्‌पदो वास्तुर्वैतालाख्यश्चितौ स्मृतः।
अन्यो नवपदो वास्तुः षोडशाङ्‌घ्निस्तथापरः ॥ ३९ ॥

षडस्रत्र्यस्रवृत्तादेर्म्मध्ये स्याच्चतुरस्रकं।
खाते वास्तोः समं पृष्ठे न्यासे ब्रह्मशिलात्मके ॥ ४० ॥

शावाकस्य निवेशे च मूर्त्तिसंस्थापने तथा।
पायसेन तुं नैवेद्यं सर्वेषां वा प्रदापयेत् ॥ ४१ ॥

उत्तानुक्ते तु वै वास्तुः पञ्चहस्तप्रमाणतः ।
गृहप्रासादमानेन वास्तुः श्रेष्ठस्तु सर्वदा ॥ ४२ ॥

इत्यादिमहापुराणे आग्नेये वास्तुपूजाकथनं नाम त्रिनवतितमोऽध्यायः।