ईश्वर उवाच
शिवमभ्यर्च्याभिषेकं कुर्य्याच्छिष्यादिके क्षिये।
सुम्भानीशादिकाष्ठासु क्रमशो नव विन्यसेत् ॥ १ ॥
तेषु क्षारोदं क्षीरीदं दध्युदं घृतसागरं।
इक्षुकादम्बरीस्वादुमस्तूदानष्टसागरान् ॥ २ ॥
निवेशयेद् यथासङ्ख्यमष्टौ विद्येश्वरानथ।
एकं शिखण्डिनं रुद्रं श्रीकण्ठन्तु द्वितीयकं ॥ 3 ॥
त्रिमूर्त्तमेकरुद्राक्षमेकनेत्रं शिवोत्तमं।
सप्तमं सूक्ष्मनामानमनन्तं रुद्रमष्टमं ॥ ४ ॥
मध्ये शिवं समुद्रञ्च शिंवमन्त्रं च विन्यसेत्।
यागालयान् दिगीशस्य रचिते स्नानमण्डपे ॥ ५ ॥
कुर्य्यात् करद्वयायामां वेदीमष्टाङ्गुलोच्छ्रितां।
श्रीपर्णाद्यासने तत्र विन्यस्यानन्तमानसं ॥ ६ ॥
शिष्यं निवेश्य पूर्वास्यं सकलीकृत्य पूजयेत्।
काञ्चिकौदनमृद्भस्मदूर्वागोमयगोलकैः ॥ ७ ॥
सिद्धार्थदधितोयैश्च कुर्य्यान्निर्म्मञ्छनं ततः।
क्षारोदानुक्रमेणाथ हृदा विद्येशशम्बरै ॥ ८ ॥
कलसैः स्नापयेच्छिष्यं स्वधाधारणयान्वितं।
परिधाप्य सिने वस्त्रे निवेश्य शिवदक्षिणे ॥ ९ ॥
पूर्व्वोदितासने शिष्यं पुनः पूर्ववदर्च्चयेत्।
उष्णीषं योगपट्टञ्च मुकुटं कर्त्तरीं घटीं ॥ १० ॥
अक्षमालां पुस्तकादि शिविकाद्यधिकारकं।
दीक्षाव्याख्याप्रतिष्ठाद्यं ज्ञात्वाऽद्यप्रभृति त्वया ॥ ११ ॥
सुपरीक्ष्य विधातव्यमाज्ञां संश्रावयेदिति।
अभिवाद्य ततः शिष्यं प्रणिपत्य महेश्वरं ॥ १२ ॥
विघ्नज्वालापनोदार्थं कुर्य्याद्विज्ञापनां यथा।
अभिषेकार्थमादिष्टस्त्वयाऽहं गुरुमुर्त्तिना ॥ १3 ॥
संहितापारगः सोऽयमभिषिक्तो मया शिव।
तृप्तये मन्त्रचक्रस्य पञ्चपञ्चाहुतीर्यजेत् ॥ १४ ॥
दद्यात् पूर्णां ततः शिष्यं स्थापयेन्निजदक्षिणे।
शिष्यदक्षिणपाणिस्था अह्गुलष्ठाद्यङ्गुलीः क्रमात् ॥ १५ ॥
लात्र्छयेदुपबद्धाय दग्धदर्भाग्रशम्बरैः।
कुसुमानि करे दत्वा प्रणामं कारयेदमुं ॥ १६ ॥
कुम्भेऽनले शिवे स्वस्मिंस्ततस्तत्कृत्यमाविशेत्।
अनुग्राह्यास्त्वया शिष्याः शास्त्रेण सुपरीक्षिताः ॥ १७ ॥
भूपबन्मानवादीनामभिषेकादबीप्सितं।
आं श्रां श्रौं पशुं हूं फडिति अस्त्रराजाभिषेकतः ॥ १८ ॥
इत्यादिम्हापुराणे आग्नेये अभिषेकादिकथनं नाम नवतितमोऽध्यायः ।