ईश्वर उवाच
वक्ष्ये संस्कारदीक्षाया विधानं शृणु षण्मुक।
आवाहयेन्महेशस्य वह्निस्थस्य शिरो हृदि ॥ १ ॥
संश्लिष्टौ तौ समभ्यर्च्य सन्तर्प्प हृदयान्मना।
ततोः सन्निधये दद्यात्तेनैवाहुतिपञ्चकं ॥ २ ॥
कुसुमेनास्त्रलिप्तेन ताडयेत्तं हृदा शिशुं।
प्रस्फुरत्तारकाकारं चैतन्यं तत्र बावयेत् ॥ ३ ॥
प्रविश्य तत्र हुङ्कारमुक्तं रेचकयोगतः।
संहारिण्या तदाकृष्य पूरकेण हृदि न्यसेत् ॥ ४ ॥
ततो वागीश्वरीयौनौ मुद्रयोद्भवसञ्ज्ञया।
हृत्सम्पुटितमन्त्रेण रेचकेन विनिक्षिपेत् ॥ ५ ॥
ओं हां हां हां आत्मने नमः ।
जाज्वल्यमाने निर्द्धूमे जुहुयादिष्टसिद्धये।
अप्रवृद्धे सधूमे तु होमो वह्नौ न सिध्यति ॥ ६ ॥
स्निग्धः प्रदक्षिणावर्त्तः सुगन्धिः शस्यतेऽनलः।
विपरीतस्फुलिङ्गी च भूमिस्पर्शः प्रशस्यते ॥ ७ ॥
इत्येवमादिभिश्चिह्नैर्हुत्वा शिष्यष्य कल्मषं।
पापभक्षणहोमेन दहेद्वा तं भवात्मना ॥ ८ ॥
द्विजत्वापादनार्थाय तथा रुद्रांशभावने।
आहारवीज संशुद्धौ गर्भाधानाय संस्थितो ॥ ९ ॥
सीमन्ते जन्मतो नामकरणाच च होमयेत्।
शतानि पञ्च मूलेन वौषडादिदशांशतः ॥ १० ॥
शिथिलीभूतबन्धस्य शक्तावुत्कर्षणं च यत्।
आत्मनो रुद्रपुत्रत्वे गर्भाधानं तदुच्यते ॥ ११ ॥
स्वान्तत्र्यात्मगुणव्यक्तिरिह पुंसवनं मतं।
मायात्मनोविवेकेन ज्ञानं सीमन्तवर्द्धनं ॥ १२ ॥
शिवादितत्त्वश्रुद्धेस्तु स्वीकारोजननं मतं।
बोधनं यच्छिवत्वेन शिवत्वार्हस्य नो मतं ॥ १३ ॥
संहारमुद्रयात्मानं स्फुरद्वह्निकणोपमं।
विदधीत समादाय निजे हृदयपङ्कजे ॥ १४ ॥
ततः कुम्भकयोगेन मूलमन्त्रमुदीरयेत्।
कुर्य्यात् समवशीभावं तदा च शिवयोर्हृदि ॥ १५ ॥
ब्रह्मादिकारणात्यागक्रमाद्रेचकयोगतः।
नीत्वा शिवान्तमात्मानमादायोद्भवमुद्रया ॥ १६ ॥
हृत्सम्पुटितमन्त्रेण रेचकेन विधानवित्।
शिष्यस्य हृदयाम्भोजकर्णिकायां विनिक्षिपेत् ॥ १७ ॥
पूजां शिवस्य वह्नेश्च गुरुः कुर्य्यात्तदोचितां।
प्रणतिञ्चात्मने शिषयं समयान् श्रावयेत्तथा ॥ १८ ॥
देवं न निन्देच्छास्त्राणि निर्म्माल्यादिन लङ्घयेत्।
शिवाग्निगुरुपूजा च कर्त्तव्या जीवतावधि ॥ १९ ॥
बालबालिशवृद्धस्त्रीभोगभुग्व्याधितात्मनां।
यथाशक्ति ददीतार्थं समर्थस्य समग्रकान् ॥ २० ॥
भूताङ्गानि जटाभस्मदण्डकौपीनसंयमान्।
ईशानाद्यैर्हृदाद्यैर्वा परिजप्य यथाक्रमात् ॥ २१ ॥
स्वाहान्तसंहितामन्त्रैः प्रात्रेष्वारोप्य पूर्ववत्।
सम्पादितद्रुतं हुत्वा स्थण्डिलेशाय दर्शयेत् ॥ २२ ॥
रक्षणाय घटाधस्तादारोप्य क्षणमात्रकं।
शिवादाज्ञां समादाय ददीत व्रतिने गुरुः ॥ २३ ॥
एवं समयदीक्षायां विशिष्टायां विशेषतः।
वह्निहोमागमज्ञानयोग्यः सञ्जायते शिशुः ॥ २४ ॥
इत्यादिमहापुराणे आग्नेये समयदीक्षाकथनं नाम द्व्यशीतितमोऽध्यायः।