०८०

ईश्वर उवाच
वक्ष्ये दमनकारोहविधिं पूर्ववदाचरेत्।
हरकोपात् पुरा जातो भैरवो दमिताः सुराः ॥ १॥

तेनाथ शप्तो विटपो भवेति त्रिपुरारिणा।
प्रसन्नेनेरितं चेदं पूजयिष्यन्त्रि ये नराः ॥ २ ॥

परिपूर्णफलं तेषां नान्यथा ते भविष्यति।
सप्तम्यां वा त्रयो दश्यां दमनं संहितात्मभिः ॥ ३ ॥

सम्पूज्य बोधयेद्‌ वृक्षं भववाक्येन मन्त्रवित्।
हरप्रसादसम्भूत त्वमत्र सन्निधीभव ॥ ४ ॥

शिवकार्यं समुद्दिश्य नेतव्योऽसि शिवाज्ञया।
गृहेऽप्यामन्त्रणं कुर्य्यात् सायाह्ने चाधिवासनं ॥ ५ ॥

यथाविधि समभ्यर्च्य सूर्य्यशङ्करपावकान्।
देवस्य पश्चिमे मूलं दद्यात्तस्य मृदा युतं ॥ ६ ॥

वामेन शिरसा वाऽथ नालं धात्रीं तथोत्तरे।
दक्षिणे भग्नपत्रञ्च प्राच्यां पुष्पञ्च धारणं ॥ ७ ॥

पुटिकास्थं फलं मूलमथैशान्यां यजेच्छिवं।
पञ्चाङ्गमञ्जलौ कृत्वा आमन्त्र्य शिरसि न्यसेत् ॥ ८ ॥

आमन्त्रितोऽकसि देवेश प्रातः काले मथा प्रभो।
कर्त्तव्यस्तपसो लाभः पूर्ण सर्वं तवाज्ञया ॥ ९ ॥

मूलेन शेषं पात्रस्थं पिधायाथ पवित्रकं।
प्रातः स्नात्वा जगन्नाथं गन्धपुष्पादिभिर्यजेत् ॥१० ॥

नित्यं नैमित्तिकं कृत्वा दमनैः पूजयेत्ततः।
शेषमञ्जलिमादाय आत्मविद्याशिवात्मभिः ॥ ११ ॥

मूलाद्यैरीश्वरान्तैश्च चतुर्थाञ्जलिना ततः।
ओं हौं मखेश्वराय मखं पूरय पूरय शूलपाणये नमः ॥

शिवं वह्निं च सम्पूज्य गुरुं प्रार्च्याथ बोधयेत् ॥ १२ ॥
भगवन्नतिरिक्तं वा हीनं वा यन्मया कृतं।

सर्व तदस्तु सम्पूर्णं यच्च दामनकं मम ॥
सकलं चैत्रमासोत्थं फलं प्राप्य दिवं व्रजेत् ॥ १३ ॥

इत्यादिमहापुराणे आग्नेये दमनकारोहणविधिर्नाम अशीतितमोऽध्यायः॥