०७८

ईश्वर उवाच
पवित्रारोहणं वक्ष्ये क्रियार्च्चादिषु पूरणं।
नित्यं तन्नित्यमुद्दिष्टं नैमित्तिकमथापरं ॥ १ ॥

आषाढादि चतुर्द्दश्यामथ श्रावणबाद्रयोः।
सितासितासु कर्त्तव्यं चतुर्द्दश्यष्टमीषु तत् ॥ २ ॥

कुर्य्याद्वा कार्तिकीं यावत्तिथौ प्रतिपदादिके।
वह्निब्रह्माम्बिकेभास्यनागस्कन्दार्क्कशूलिनाम् ॥ ३ ॥

दुर्गायमेन्द्रगोविन्दस्मरशम्भुसुधाभुजाम् ।
सौवर्णं राजतं ताम्रं कृतादिषु यथाक्रमम् ॥ ४ ॥

कलौ कार्प्पासजं वापि पट्टपद्मादिसूत्रकम्।
प्रणवश्चन्द्रमा वह्निर्ब्रह्मा नागो गुहो हरिः ॥ ५ ॥

सर्वेशः सर्वदेवाः स्युः क्रमेण नवतन्तुषु।
अष्टोत्तरशतान्यर्द्धं तदर्धं चोत्तमादिकम् ॥ ६ ॥

एकाशीत्याऽथवा सूत्रैस्त्रिंशताऽप्यऽप्यष्टयुक्तया।
पञ्चाशता वा कर्त्तव्यं तुल्यग्रन्थ्यन्तरालकम् ॥ ७ ॥

द्वादशाङ्गुलमानानि व्यासादष्टाङ्गुलानि च।
लिङ्गविस्तारमानानि चतुरङ्गुलकानि वा ॥ ८ ॥

तथैव पिण्डिकास्पर्शं चतुर्थं सर्वदैवतम्।
गङ्गावतारकं कार्य्यं सुजातेन सुधौतकम् ॥ ९ ॥

ग्रन्थिं कुर्य्याच्च वामेन अघोरेणाथ शोधयेत्।
रञ्जयेत् पुरुषेणैव रक्तचन्दनकुङ्कुमैः ॥ १० ॥

कस्तूरीरोचनाचन्द्रैर्हरिद्रागैरिकादिभिः।
ग्रन्थयो दश कर्त्तव्या अथवा तन्तुसङ्ख्यया ॥ ११ ॥

अन्तरं वा यथाशोभमेकद्विचतुरङ्गुलम्।
प्रकृतिः पौरुषी वीरा चतुर्थी त्वपराजिता ॥ १२ ॥

जयाऽन्या विजया षष्ठी अजिता च सदाशिवा।
मनोन्मनी सर्वमुखी ग्रन्थयोऽभ्यधिकाः शुभाः ॥ १३ ॥

कार्य्या वा चन्द्रवह्न्यर्कपवित्रं शिववद्धदि।
एकैकं निजमूर्त्तौ वा पुप्तके गुरुके गणे ॥ १४ ॥

स्यादेकैकं तथा द्वारदिक्पालकलशादिषु।
हस्तादिनवहस्तान्तं लिङ्गानां स्यात्पवित्रकम्॥ १५ ॥

अष्टाविंशतितो वृद्धं दशभिर्द्दशभिः क्रमात्।
द्व्यङ्गुलाभ्यन्तरास्तत्र क्रमादेकाङ्गुलान्तराः ॥ १६ ॥

ग्रन्थयो मानमप्येषां लिङ्गविस्तारसस्मितम्।
सप्तम्यां वा त्रयोदश्यां कृतनित्यक्रियः शुचिः ॥ १७ ॥

भूषयेत् पुष्पवस्त्रद्यैः सायाह्ने यागमन्दिरं।
कृत्वा नैमित्तिकीं सन्ध्यां विशेषेण च तर्प्पणम् ॥ १८ ॥

परिगृहीते भूभागे पवित्रे सूर्य्यमर्च्चयेत् ।
आचम्य सकलीकृत्य प्रणवार्घ्यकरो गुरुः ॥ १९ ॥

द्वाराण्यस्त्रेण सम्प्रोक्ष्य पूर्वादिक्रमतोऽर्च्चयेत्।
हां शन्तिकलद्वारं द्वौ द्वौ द्वाराधिपौ यजेत् ॥ २० ॥

निवृत्तिकलाद्वारायप्रतिष्ठाख्यकलात्मने।
तच्छाकयोः प्रतिद्वारं द्वौ द्वौ द्वाराधिपौ यजेत् ॥ २१ ॥

जन्दिने महाकालाय भृङ्गिणेऽथ गणाय च।
वृषभाय च स्कन्दाय देव्यै चण्डायचक्रमात् ॥ २२ ॥

नित्यं च द्वारपालादीन् प्रविश्य द्वारपश्चिमे।
इष्ट्वा वास्तुं भूतशुद्धिं विशेषार्घ्यकरः शिवः ॥ २३ ॥

प्रोक्षणाद्यं विदायाथ यज्ञसम्बारकृन्नरः।
मन्त्रयेद्दर्भदूर्वाद्यैः पुष्पाद्यैश्च हृदादिभिः ॥ २४ ॥

शिवहस्तं विधायेत्थं स्वशिरस्यधिरोपयेत्।
शिवोऽहमादिः सर्वज्ञो मम यज्ञप्रधानता ॥ २५ ॥

अत्यर्थं भावयेद्देवं ज्ञानखड्गकरो गुरुः।
नेर्ऋतीं दिशमासाद्य प्रक्षिपेदुदगाननः ॥ २६ ॥

अर्घ्याम्बुपञ्चगव्यञ्च समस्तान् मखमण्डपे।
चतुष्पथान्तसंस्कारैर्वीक्षणाद्यैः सुसंस्कृतैः ॥ २७ ॥

विक्षिप्य विकिरांस्तत्र कुशकूर्च्चोपसंहरेत् ।
तानीशदिशि वर्द्धन्यामासनायोपकल्पयेत् ॥ २८ ॥

नैर्ऋते वास्तुगीर्वाणा द्वारे लक्ष्मीं प्रपूजयेत्।
पश्चिमाभिमुखं कुम्भं सर्वदान्योपरि स्थितम् ॥ २९ ॥

प्रणवेन वृषारूढं सिहस्थां वर्द्धनीन्ततः।
कुम्भे शाङ्गं शिवन्देवं वर्द्धन्यामस्त्रमर्च्चयेत् ॥ ३० ॥

दिक्षु शक्रादिदिक्पालान् विष्णुब्रह्मशिवादिकान्।
वर्द्धनीं सम्यगादाय घटप्टष्ठानुगामिनीं ॥ ३१ ॥

शिवाज्ञां श्रावयेन्मन्त्री पूर्वादीशानगोचरम्।
अविच्छिन्नपयोधारां मूलमन्त्रमुदीरयेत् ॥ ३२ ॥

समन्ताद् भ्रामयेदेनां रक्षार्थं शस्त्ररूपिणीम्।
पूर्वं कलशमारोप्य शस्त्रार्थन्तस्य वामतः ॥ ३३ ॥

समग्रासनके कुम्भे यजेद्देवं स्थिरासने।
वर्द्धन्यां प्रणवस्थायामायुधन्तदनु द्वयोः ॥ ३४ ॥
भगलिङ्गसमायोगं विदध्याल्लिङ्गमुद्रया।
कुम्भे निवेद्य बोधासिं मूलमन्त्रजपन्तथा ॥ ३५ ॥

तद्दशांश्न वर्द्धन्यां रक्षां विज्ञापयेदपि ।
गणेशं वायवेऽभ्यर्च्य हरं पञ्चामृतादिभिः ॥ ३६ ॥

स्नापयेत् पूर्ववत् प्रार्च्य कुण्डे च शिवपावकम्।
विधिवच्च चरुं कृत्वा सम्पाताहुतिशोधितम् ॥ ३७ ॥

देवाग्न्यात्मविभेदेन दर्व्या तं विभजेत्त्रिधा।
दत्वा भागौ शिवाग्निभ्यां संरक्षेद्भागमात्मनि ॥ ३८ ॥

शरेण वर्म्मणा देयं पूर्वतो दन्तधावनम्।
तस्माद्‌घोरशिखाभ्यां वा दक्षिणे पश्चिमे मृदां ॥ ३९ ॥

सद्योजातेन च हृदा चोत्तरे वामनीकृतम् ।
जलं वामेन शिरसा ईशे गन्धान्वितं जलम् ॥ ४० ॥

पञ्चगव्यं पलाशादिपुटकं वै समन्ततः।
ऐशान्यां कुसुमं दद्यादाग्नेय्यां दिशि रोचनां ॥ ४१ ॥

अगुरुं निर्ऋताशायां वायव्यां च चतुः समम्।
होमद्रव्याणि सर्वाणि सद्योजातैः कुशैः ॥ ४२ ॥

दण्डाक्षसूत्रकौपीनभिक्षापात्राणि रूपिणे।
कज्जलं कुङ्कुमन्तैलं शलाकां केशशोधनीं ॥ ४३ ॥
ताम्बूलं दर्पणं दद्यादुत्तरे रोचनामपि।
आसनं पादुके पात्रं योगपट्टातपत्रकम् ॥ ४४ ॥

ऐशान्यामीशमन्त्रेण दद्यादीशानतुष्टये।
पूर्वस्याञ्चरुकं साज्यं दद्याद् गन्धादिकं नवे ॥ ४५ ॥

पवित्राणि समादाय प्रोक्षितान्यर्घ्यवारिणा।
संहितामन्त्रपूतानि नीत्वा पावकसन्निधिं ॥ ४६ ॥

कृष्णाजिनादिनाऽऽच्छाद्य स्मरन् संवत्सरात्मकम्।
साक्षइणं सर्वकृत्यानां गोप्तारं शिवमव्ययं ॥ ४७ ॥

स्वेति हेति प्रयोगेण मन्त्रसंहितया पुनः।
शोधयेच्च पवित्राणि वाराणामेकविंशतिं ॥ ४८ ॥

गृहादि वेष्टयेत्सूत्रैर्गन्धाद्यं रवये ददेत्।
पूजिताय समाचम्य कृतन्यासः कृतार्घ्यकः ॥ ४९ ॥

नन्द्यादिब्योऽथ गन्धाख्यं वास्तोश्चाथ प्रविश्य च ।
शस्त्रेभ्यो लोकपालेब्यः स्वनाम्ना शिवकुम्भके ॥ ५० ॥

वर्द्धन्यै विघ्नराजाय गुरवे ह्यात्मने यजेत्।
अथ सर्वौषधीलिप्तं धूपितं पुष्पदूर्वया ॥ ५१ ॥

आमन्त्रय च पवित्रं तत् विधायाञ्जलिमध्यगम्।
आसस्तविधिच्छिद्रपूरणे च विधि प्रति ॥ ५२ ॥

प्रभवामन्त्रयामि त्वां त्वदिच्छावाप्तिकारिकां।
तत्सिद्धिमनुजानीहि यजतश्चिदचित्पते ॥ ५३ ॥

सर्वथा सर्वदा शम्भो नमस्तेऽस्तु प्रसीद मे।
आमन्त्रितोऽसि देवेश सह देव्या गणेश्वरैः ॥ ५४ ॥

मन्त्रेसैर्ल्लेकपालैश्च सहितः परिचारकैः।
निमन्त्रयाम्यहन्तुभ्यं प्रभाते तु पवित्रकम् ॥ ५५ ॥

नियमञ्च करिष्यामि परमेश तवाज्ञया।
इत्येवन्देवमामन्त्र्य रेचकेनामृतीकृतम् ॥ ५६ ॥

शिवान्तं मूलमुच्चार्य्य तच्छिवाय निवेदयेत्।
जपं स्तोत्रं प्रणामञ्च कृत्वा शम्भुं क्षमापयेत् ॥ ५७ ॥

हुत्वा चरोस्तृतीयांशं तद्ददीत शिवाग्नये ।
दिग्वासिब्यो दिगीशेभ्यो भूतमातृगणेभ्य उ ॥ ५८ ॥

रुद्रेभ्यः क्षेत्रपादिभ्यो नमः स्वाहा बलिस्त्वयं।
दिङ्नागाद्यैश्च पूर्वादौ क्षेत्राय चाग्नये बलिः ॥ ६० ॥

समाचम्य विधिच्छिद्रपूरकं होममाचरेत्।
पूर्णां व्याहृतिहोमञ्च कृत्वा रुन्धीत पावकं ॥ ६० ॥

तत ओमग्नये स्वाहा स्वाहा सोमाय चैव हि।
ओमग्नीषोमाभ्यां स्वाहाऽग्नये स्विष्टकृते तथा ॥ ६१ ।

इत्याहुतिच्तुष्कन्तु दत्वा कुर्य्यात्तु योजनाम्।
वह्निकुण्डार्च्चितं देवं मण्डलाभ्यर्च्चिते शिवे ॥ ६२ ॥

नाडीसन्धानरूपेण विधिना योजयेत्तत्तः।
वंशादिपात्रे विन्यस्य अस्त्रञ्च हृदयन्ततः ॥ ६३ ॥

अधिरोप्य पवित्राणि कलाभिर्वाऽथ मन्त्रयेत्।
षडङ्गं ब्रह्ममूलैर्व्वां हृद्वर्म्मास्त्रञ्च योजयेत् ॥ ६४ ॥

विधाय सूत्रैः संवेष्ट्य पूजयित्वाऽङ्गसम्भवैः ।
रक्षार्थं जगदीशाय भक्तिनम्रः समर्पयेत् ॥ ६५ ॥

पूजिते पुष्पधूपाद्यैर्द्दत्वा सिद्धान्तपुस्तके।
गुरोः पादान्तिकं गत्वा भक्त्या दद्यात् पवित्रकम् ॥ ६६ ॥

निर्गत्य वहिराचम्य गोमये मण्डलत्रये।
पञ्चगव्यञ्चरुन्दन्तधावनञ्च क्रमाद यजेत् ।. ६७ ॥

आचान्तो मन्त्रसम्बद्धः कृतसङ्गीतजागरः।
स्वपेदन्तः स्मरन्नीशं बुभुक्षुर्दर्भसंस्तरे ॥ ६८ ॥

अनेनैव प्रकारेण मुमुक्षुरपि संविशेत्।
केवलम्भस्मशय्यायां सोपवासः समाहितः ॥ ६९ ॥

इत्यादिमहापुराणे आग्नेये पवित्राधिवासनविधिर्नाम अष्टसप्ततितमोऽध्यायः॥