०७२

अथ द्विसप्ततितमोऽध्यायः

स्नानविशेषादिकथनं

ईश्वर उवाच
वक्ष्यामि स्कन्द नित्याद्यं स्नानं पूजां प्रतिष्ठया ।७२.००१
खात्वासिना समुद्धृत्य मृदमष्टाङ्गुलां ततः ॥७२.००१
सर्वात्मना समुद्धृत्य पुनस्तेनैव पूरयेत् ।७२.००२
शिरसा पयसस्तीरे निधायास्त्रेण शोधयेत्(२) ॥७२.००२
तृणानि शिखयोद्धृत्य वर्मणा विभजेत्त्रिधा ।७२.००३
एकया नाभिपादान्तं प्रक्षाल्य पुनरन्यया ॥७२.००३
अस्त्राभिलब्धयालभ्य दीप्तया सर्वविग्रहं ।७२.००४
निरुद्धाक्षाणि पाणिभ्यां प्राणान् संयम्य वारिणि ॥७२.००४
निमज्यासीत हृद्यस्त्रं स्मरन् कालानलप्रभं ।७२.००५

टिप्पणी

१ विघ्नराजक इति ङ, चिह्नितपुस्तकपाठः

२ निजास्त्रेण विशोधयेदिति ख, ग, चिह्नितपुस्तकपाठः
पृष्ठ २०४

मलस्नानं विशोधयेत्थं समुत्थाय जलान्तरात् ॥७२.००५
अस्त्रसन्ध्यामुपास्याथ विधिस्नानं समाचरेत् ।७२.००६
सारस्वतादितीर्थानां एकमङ्कुशमुद्रया ॥७२.००६
हृदाकृष्य तथा स्नाप्य पुनः संहारमुद्रया ।७२.००७
शेषं मृद्भागमादाय प्रविश्य नाभिवारिणि ॥७२.००७
वामपाणितले कुर्याद्भागत्रयमुदङ्मुखः ।७२.००८
अङ्गैर्दक्षिणमेकाद्यं पूर्वमस्त्रेण सप्तधा ॥७२.००८
शिवेन दशधा सौम्यं जपेद्भागत्रयं क्रमात् ।७२.००९
सर्वदिक्षु क्षिपेत्पूर्वं हूं फडन्तशरात्मना(१) ॥७२.००९
कुर्याच्छिवेन सौम्येन शिवतीर्थं भुजक्रमात् ।७२.०१०
सर्वाङ्गमङ्गजप्तेन मूर्धादिचरणावधि ॥७२.०१०
दक्षिणेन समालभ्य पठन्नङ्गचतुष्टयम् ।७२.०११
पिधाय खानि सर्वाणि सम्मुखीकरणेन च ॥७२.०११
शिवं स्मरन्निमज्जेत हरिं गङ्गेति वा स्मरन् ।७२.०१२
वौषडन्तषडङ्गेन के कुर्यादभिषेचनं ॥७२.०१२
कुम्भमात्रेण रक्षार्थं पूर्वादौ निक्षिपेज्जलं ।७२.०१३
स्नात्वा रजोपचारेण सुगन्धामलकादिभिः ॥७२.०१३
स्नात्वा चोत्तीर्य तत्तीर्थं संहारिण्योपसंहरेत् ।७२.०१४
अथातो विधिशुद्धेन संहितामन्त्रितेन च ॥७२.०१४
निवृत्यादिविशुद्धेन भस्मना स्नानमाचरेत् ।७२.०१५
शिरस्तः पादपर्यन्तं ह्रूं फडन्तशरात्मना(२) ॥७२.०१५
तेन कृत्वा मलस्नानं विधिस्नानं समाचरेत् ।७२.०१६

टिप्पणी

१ क्रूं फडन्तशरात्मना इति ख, ङ, चिह्नितपुस्तकद्वयपाठः

२ क्रूं फडन्तशरात्मना इति ख, ङ, चिह्नितपुस्तकद्वयपाठः
पृष्ठ २०५

ईशतत्पुरुषाघोरगुह्यकाजातसञ्चरैः(१) ॥७२.०१६
क्रमेणोद्धूनयेन्मूर्ध्नि वक्त्रहृद्गुह्यविग्रहात् ।७२.०१७
सन्ध्यात्रये निशीथे च वर्षापूर्वावसानयोः ॥७२.०१७
सुप्त्वा भुक्त्वा पयः पीत्वा कृत्वा चावश्यकादिकम् ।७२.०१८
स्त्रीपुन्नपुंसकं शूद्रं विडालशशमूषिकम् ॥७२.०१८
स्नानमाग्नेयकं स्पृष्ट्वा शुचा वुद्धूलकं चरेत् ।७२.०१९
सूर्यांशुवर्षसम्पर्कैः प्राङ्मुखेनोर्ध्वबाहुना ॥७२.०१९
माहेन्द्रं स्नानमैशेन कार्यं सप्तपदावधि ।७२.०२०
गोसङ्घमध्यगः कुर्यात्खुरोत्खातकरेणुभिः(२) ॥७२.०२०
पावनं नवमन्त्रेण स्नानन्तद्वर्मणाथवा ।७२.०२१
सद्योजातादिभिर्मन्त्रैरम्भोभिरभिषेचनम् ॥७२.०२१
मन्त्रस्नानं भवेदेवं वारुणाग्नेययोरपि ।७२.०२२
मनसा मूलमन्त्रेण प्राणायामपुरःसरम् ॥७२.०२२
कुर्वीत मानसं स्नानं सर्वत्र विहितं च यत् ।७२.०२३
वैष्णवादौ च तन्मन्त्रैरेवं स्नानादि कारयेत् ॥७२.०२३
सन्ध्याविधिं प्रवक्ष्यामि मन्त्रैर्भिन्नैः समं गुह ।७२.०२४
संवीक्ष्य त्रिः पिवेदम्बु ब्रह्मतीर्थेन शङ्करैः ॥७२.०२४
स्वधान्तैरात्मतत्त्वाद्यैस्ततः खानि स्पृशेद्धृदा ।७२.०२५
शकलीकरणं कृत्वा प्राणायामेन संस्थितः ॥७२.०२५
त्रिः समावर्तयेन्मन्त्री मनसा शिवसंहितां ।७२.०२६
आचम्य न्यस्य सन्ध्याञ्च ब्राह्मीं प्रातः स्मरेन्नरः(३) ॥७२.०२६
हंसपद्मासनां रक्तां चतुर्वक्त्रां चतुर्भुजां ।७२.०२७

टिप्पणी

१ गुह्यकाजातसंरवैरिति ख, चिह्नितपुस्तकपाठः

२ तत्खरोत्खातरेणुभिरिति ख, चिह्नितपुस्तकपाठः

३ स्मरेत्तत इति ग, चिह्नितपुस्तकपाठः
पृष्ठ २०६

प्रस्कन्दमालिनीं दक्षे वामे दण्डकमण्डलुं ॥७२.०२७
तार्क्ष्यपद्मासनां ध्यायेन्मध्याह्ने वैष्णवीं सितां ।७२.०२८
शङ्खचक्रधरां वामे दक्षिणे सगदाभयं ॥७२.०२८
रौद्रीं ध्यायेद्वृषाब्जस्थां त्रिनेत्रां शशिभूषितां ।७२.०२९
त्रिशूलाक्षधरां दक्षे वामे साभयशक्तिकां ॥७२.०२९
साक्षिणीं कर्मणां सन्ध्यां(१) आत्मानं तत्प्रभानुगं ।७२.०३०
चतुर्थी ज्ञानिनः सन्ध्या निशीथादौ विभाव्यते ॥७२.०३०
हृद्बिन्दुब्रह्मरन्ध्रेषु अरूपा तु परे स्थिता ।७२.०३१
शिवबोधपरा या तु सा सन्ध्या मरमोच्यते ॥७२.०३१
पैत्र्यं मूले प्रदेशिन्याः कनिष्ठायाः प्रजापतेः ।७२.०३२
ब्राह्म्यमङ्गुष्ठमूलस्थं तीर्थं दैवं कराग्रतः ॥७२.०३२
सव्यपाणितले वह्नेस्तीर्थं सोमस्य वामतः ।७२.०३३
ऋषीणां तु समग्रेषु अङ्गुलीपर्वसन्धिषु ॥७२.०३३
ततः शिवात्मकैर्मन्त्रैः कृत्वा तीर्थं शिवात्मकं ।७२.०३४
मार्जनं संहितामन्त्रैस्तत्तोयेन समाचरेत् ॥७२.०३४
वामपाणिपतत्तोययोजनं सव्यपाणिना ।७२.०३५
उत्तमाङ्गे क्रमान्मन्त्रैर्मार्जनं समुदाहृतं ॥७२.०३५
नीत्वा तदुपनासाग्रं दक्षपाणिपुटस्थितं ।७२.०३६
बोधरूपं सितं तोयं वाममाकृष्य स्तम्भयेत्(२) ॥७२.०३६
तत्पापं कज्जलाभासम्पिङ्गयारिच्य मुष्टिना ।७२.०३७
क्षिपेद्वज्रशिलायान्तु तद्भवेदघमर्षणं ॥७२.०३७
स्वाहान्तशिवमन्त्रेण कुशपुष्पाक्षतान्वितं ।७२.०३८
शिवायार्घ्याञ्जलिन्दत्वा गायत्रीं शक्तितो जपेत् ॥७२.०३८

टिप्पणी

१ दाक्षिण्यः कर्मणां सन्ध्या इति ख, चिह्नितपुस्तकपाठः

२ कुम्भयेदिति ख, ङ, चिह्नितपुस्तकपाठः
पृष्ठ २०७

तर्पणं सम्प्रवक्ष्यामि देवतीर्थेन मन्त्रकात् ।७२.०३९
तर्पयेद्धौं शिवायेति स्वाहान्यान् स्वाहया युतान् ॥७२.०३९
ह्रां हृद्याय ह्रीं शिरसे ह्रूं शिखायै ह्रैं कवचाय ।७२.०४०
अस्त्रायाष्टौ देवगणान् हृदादित्येभ्य एव च ॥७२.०४०
हां वसुभ्योऽथ रुद्रेभ्यो विश्वेभ्यश्चैव मरुद्भ्यः ।७२.०४१
भृगुभ्यो हामङ्गिरोभ्य ऋषीन् कण्ठोपवीत्यथ ॥७२.०४१
अत्रेयेऽथ वसिष्ठाय नमश्चाथ पुलस्तये(१) ।७२.०४२
कृतवे भारद्वजाय विश्वामित्राय वै नमः ॥७२.०४२
प्रचेतसे मनुष्यांश्च सनकाय वषट्तथा ।७२.०४३
हां सनन्दाय वषट्सनातनाय वै वषट् ॥७२.०४३
सनत्कुमाराय वषट्कपिलाय तथा वषट् ।७२.०४४
पञ्चशिखाय द्युभवे संलग्नकरमूलतः ॥७२.०४४
सर्वेभ्यो भूतेभ्यो वौषट्भूतान् देवपितॄनथ ।७२.०४५
दक्षस्कन्धोपवीती च कुशमूलाग्रतस्तिलैः ॥७२.०४५
कव्यबालानलायाथ सोमाय च यमाय च ।७२.०४६
अर्यम्णे चाग्निसोमाय वर्हिषद्भ्यः स्वधायुतान् ॥७२.०४६
आज्यपाय च सोमाय विशेषसुरवत्पितॄन् ।७२.०४७
ओं हां ईशानाय पित्रे स्वधा दद्यात्पितामहे(२) ॥७२.०४७
शान्तप्रपितामहाय तथाप्रेतपितॄंस्तथा ।७२.०४८
पितृभ्यः पितामहेभ्यः स्वधाथ प्रपितामहे ॥७२.०४८
वृद्धप्रपितामहेभ्यो मातृभ्यश्च स्वधा तथा ।७२.०४९
हां मातामहेभ्यः स्वधा हां प्रमातामहेभ्यश्च ॥७२.०४९
वृद्धप्रमातामहेभ्यः सर्वेभ्यः पितृभ्यस्तथा ।७२.०५०

टिप्पणी

१ मरीचये पुलस्त्यायेति ङ, चिह्नितपुस्तकपाठः

२ हां ईशानाय पित्रे च सदाज्याय पितामहायेति ख, चिह्नितपुस्तकपाठः
पृष्ठ २०८

सर्भेभ्यः स्वधा ज्ञातिभ्यः सर्वाचार्येभ्य एव च ।७२.०५०
दिशां दिक्पतिसिद्धानां मातॄणां ग्रहरक्षसां ॥७२.०५०

इत्यादिमहापुराणे आग्नेये स्नानादिविधिर्नाम द्विसप्ततितमोऽध्यायः ॥