०७१

अध्याय {७१}

अथ एकसप्ततितमोऽध्यायः

गणेशपूजाविधिः

ऐश्वर उवाच
गणपूजां प्रवक्ष्यामि निर्विघ्नामखिलार्थदां(१) ।७१.००१
गणाय स्वाहा हृदयमेकदंष्ट्राय वै शिरः ॥७१.००१
गजकर्णिने च(२) शिखा गजवक्त्राय वर्म च ।७१.००२
महोदराय स्वदन्तहस्तायाक्षि(३) तथास्त्रकम् ॥७१.००२
गणो गुरुः पादुका च शक्त्यनन्तौ च धर्मकः ।७१.००३
मुख्यास्थिमण्डलं(४) चाधश्चोर्ध्वच्छदनमर्चयेत् ॥७१.००३
पद्मकर्णिकवीजांश्च ज्वालिनीं नन्दयार्चयेत् ।७१.००४
सूर्येशा कामरूपा च उदया कामवर्तिनी ॥७१.००४

टिप्पणी

१ निर्विघ्नां पापनाशिनीमिति ग, घ, चिह्नितपुस्तकद्वयपाठः

२ बलकर्णिने चेति ख, ग, घ, ङ, चिह्नितपुस्तकपाठः

३ महोदराये दण्डहस्तायाक्षि इति ङ, चिह्नितपुस्तकपाठः

४ मुख्यास्तिमण्डलमिति ख, ङ, चिह्नितपुस्तकद्वयपाठः
पृष्ठ २०३

सत्यां च विघ्ननाशा च आसनं गन्धमृत्तिका ।७१.००५
यं शोषा रं च दहनं प्लवो लं वं तथामृतम् ॥७१.००५
लम्बोदराय विद्महे महोदराय धीमहि तन्नो दन्ती प्रचोदयात् ।७१.००६
गणपतिर्गणाधिपो गणेशो गणनायकः ।७१.००६
गणक्रीडो वक्रतुण्ड एकदंष्ट्रो महोदरः ॥७१.००६
गजवक्त्रो लम्बुक क्षिर्विकटो विघ्ननाशनः(१) ।७१.००७
धूम्रवर्णा महेन्द्राद्याः पूज्या गणपतेः स्मृताः ॥७१.००७

इत्यादिमहापुराणे आग्नेये विनायकपूजाकथनं नाम एकसप्ततितमोऽध्यायः ॥