०६२

भगवानुवाच
समुदायेन देवादेः प्रतिष्ठां प्रवदामि ते।
लक्ष्म्याः प्रतिष्ठां प्रथमं तथा देवीगणस्य च ॥ १ ॥

पूर्ववत् सकलं कुर्य्यान्मण्डपस्नपनादिकम् ।
भद्रपीठेश्रियं न्यस्य स्थापयेदष्ट वै घटा ॥ २ ॥

घृतेनाभ्यज्य मूलेन स्नपयेत् पञ्चगव्यकैः।
हिरण्यवर्णां हरिणी नेत्रे चोन्मीलयेच्छ्रियाः ॥ ३ ॥

तन्म आवह इत्येवं प्रदद्यान्मधुरत्रयम्।
अश्वपूर्वेति पूर्वेण तां कुम्भेनाभिषेचयेत् ॥ ४ ॥

कामोस्मितेति याम्येन पश्चिमेनाभिषेचयेत्।
चन्द्रं प्रभासामुच्चार्य्याद्त्यवर्णेति चोत्तरात् ॥ ५ ॥

उपैतु मेति चाग्नेयात् क्षुत्‌पिपासेति नैर्ऋतात्।
गन्धद्वारेति वायव्यां मनसः कममाकृतिम् ॥ ६ ॥

ईशानकलशेनैव शिरः सौवर्णकर्द्दमात्।
एकाशीतिघटैः स्नानं मन्त्रेणापः सृजन् क्षितिम् ॥ ७ ॥

आद्‌र्द्रां पुष्करिणीं गन्धैराद्‌र्द्रामित्यादिपुष्पकैः।
तन्मयावह मन्त्रेण य आनन्द ऋ चाखिलम् ॥ ८ ॥

शायन्तीयेन शय्यायां श्रीसूक्तेन च सन्निधिम्।
लक्ष्मीवीजेन चिच्छक्तिं विन्यस्याभ्यर्चयेत् पुनः ॥ ९ ॥

श्रीसूक्तेन मण्डपेथ कुण्डेष्वब्जानि होमयेत्।
करवीराणि वा हत्वा सहस्रं शतमेव वा ॥ १० ॥

गृहोपकरणान्तादि श्रीसूक्तेनैव चार्पयेत्।
ततः प्रासादसंस्कारं सर्वं कृत्वा तु पूर्ववत् ॥ ११ ॥

मन्त्रेण पिण्डिकां कृत्वा प्रतिष्ठानं ततः श्रियः ।
श्रीसूक्तेन च सान्निध्यं पूर्ववत् प्रत्यृचं जपेत् ॥ १२ ॥

चिच्छक्तिं बोधयित्वा तु मूलात् सान्निध्यकं चरेत्।
भूस्वर्णवस्त्रगोन्नादि गुरवे ब्रह्मणेर्पयेत्।
एवं देव्योऽखिलाः स्थाप्यावाह्य स्वर्गादि भावयेत् ॥ १३ ॥

इत्यादिमहापुराणे आग्नेये लक्ष्मीस्थापनं नाम द्विषष्टितमोऽध्यायः ।