भगवानुवाच
भूमेः परिग्रहं कुर्य्यात् क्षिपेद् व्रीहींश्च सर्षपान्।
नारसिंहेन रक्षोघ्नान् प्रोक्षयेत् पञ्चगव्यतः ॥ १ ॥
भूमिं घटे तु सम्पूज्य सरत्ने साङ्गकं हरिम्।
अस्त्रमन्त्रेण करकं तत्र चाष्टशतं यजेत् ॥ २ ॥
अच्छिन्नधारया सिञ्चन् व्रीहीन् संस्कृत्य धारयेत्।
प्रदक्षिणं परिभ्राम्य कलशं विकिरोपरि ॥ ३ ॥
सवस्त्रे कलशे भूयः पूजयेदच्युतं श्रियम्।
योगे योगेति मन्त्रेण न्यसेच्छय्यान्तु मण्डले ष ॥ ४ ॥
कुशोपरि तूलिकाञ्च शय्यायां दिग्विदिक्षु च।
विद्याधिपान् यजेद्विष्णुं मधुघातं त्रिविक्रमम् ॥ ५ ॥
वामनं दिक्षु वाय्वादौ श्रीधरञ्च हृषीकपम्।
विद्याधिपान् यजेद्विष्णुं मधुगातं त्रिविक्रमम् ॥ ६ ॥
अभ्यर्च्य पञ्चादैशान्यां चतुष्कुम्बे सवेदिके।
स्नानमण्डपके सर्वद्रव्याण्यानीय निक्षिपेत् ॥ ७ ॥
स्नानकुम्भेषु कुम्भां स्तां श्चतुर्दिक्ष्वधिवासयेत्।
कल्शाः स्थापनीयास्तु अभिषेकार्थमादरात् ॥ ८ ॥
वटोदुम्बरकाश्वत्थांश्वम्पकाशोकश्री द्रुमान् ।
पलाशार्जुनप्लक्षांस्तु कदम्बवकुलाम्रकान् ॥ ९ ॥
पल्लवांस्तु समानीय पूर्वकुम्भे विनिक्षिपेत्।
पद्मकं रोचनां दूर्व्वा दर्भपिञ्जलमेव च ॥ १० ॥
जातीपुष्पं कुन्दपुष्पञ्चन्दनं रक्तचन्दनम्।
सिद्धार्थं तगरञ्चैव तण्डुलं दक्षिणे न्यसेत् ॥ ११ ॥
सुवर्णं रजतञ्चैव कूलद्वयमृदन्तथा।
नद्याः समुद्रगामिन्या विशेषात् जाह्रवीमृदम् ॥ १२ ॥
गोमयञ्च यवान् शालींस्तिलांश्चैवापरे न्यसेत्।
विष्णुपर्णी श्यामलतां भृङ्गराजं शताधरीम् ॥ १३ ॥
सहदेवां महादेवीं बलां व्याघ्नीं सलक्ष्मणाम्।
ऐसान्यामपरे सुम्भे मह्गल्यान्विनिवेशयेत् ॥ १४ ॥
वल्मीकमृत्तिकां सप्तस्थानोत्थामपरे न्यसेत्।
जाह्नतीवालुकातोयं विन्यसेदपरे घटे ॥ १५ ॥
वराहवृषनागेन्द्रविषाणोद्धृतमृत्तिकाम्।
मृत्तिकां पद्ममूलस्य कुशस्य त्वपरे न्यसेत् ॥ १६ ॥
तीर्थपर्वतमृद्भिस्च युक्तमप्यपरे न्यसेत्।
नागकेशरपुष्पञ्च काश्मीरमपरे न्यसेत् ॥ १७ ॥
चन्द नागुरुकर्पूरैः पुष्पं चैवापरे न्यसेत्।
वैदूर्यं विद्रुमं मुक्तां स्फटिकं वज्रमेव च ॥ १८ ॥
एतान्येकत्र निक्षिप्य स्थापयेद्देवसत्तम।
नदीनदतडागानां सलिलैरपरं न्यसेत् ॥ १९ ॥
एकाशीतिपदे धान्यान्मण्डपे कलशान् न्यसेत्।
गन्धोदकाद्यैः सम्पूर्णान् श्रीसूक्तेनाभिमन्त्रयेत् ॥ २० ॥
यवं सिद्धार्थकं गन्धं कुशाग्रं चाक्षतं तथा।
लितान् फलं तता पुष्पमघ्यार्थं पूर्वतो न्यसेत् ॥ २१ ॥
पद्मं श्यामलतां दूर्वां विष्णुपर्णी कुशांस्तथा।
पाद्यार्थं दक्षिणे भागे मधुपर्क्कं तु दक्षिणे ॥ २२ ॥
कक्कोलकं लवङ्गञ्च तथा जातीफलं शुभम्।
उत्तरे ह्याचमनाय अग्नौ दूर्वाक्षतान्वितम् ॥ २३ ॥
पात्रं नीराजनार्थं च तथोद्वर्त्तनमानिले।
गन्धुपुष्पान्वितं पात्रमैशान्यां पात्रके न्यसेत् ॥ २४ ॥
मुरामांसीं चामलकं सहदेवां निशादिकम्।
षष्टिदीपान्न्यसेदष्टौ न्यसेन्नीराजनाय च ॥ २५ ॥
शङ्खंहचक्रञ्च श्रीवत्सं कुलिशं पङ्कजादिकम्।
हेमादिपात्रे कृत्वा तु नानावर्णादिपुष्पकम् ॥ २६ ॥
इत्यादिमहापुराणे आग्नेये कलशाधिवासो नाम सप्तपञ्चाशत्तमोऽध्यायः ।