०५२

भगवानुवाच
योगिन्यष्टाष्टकं वक्ष्ये ऐन्द्रादीशान्ततः क्रमात्।
अक्षोभ्या रूक्षकर्णी च राक्षसी कृपणाक्षया ॥ १ ॥

पिङ्गाक्षी च क्षया क्षेमा इला लीलालया तथा।
लोला लक्ता बलाकेशी लालसा विमला पुनः ॥ २ ॥

हुताशा च विशालाक्षी हुङ्कारा वडवामुखी।
महाक्रूरा क्रोधना तु भयङ्करी महानना ॥ ३ ॥

सर्वज्ञा तला तारा ऋग्वेदा तु हयानना।
साराख्या रुद्रसङ्ग्रही सम्बरा तालजङ्घिका ॥ ४ ॥

रक्ताक्षी सुप्रसिद्धा तु विद्युज्जिह्वा कारङ्किणी।
मेघनादा प्रचण्डोग्रा कालकर्णी वरप्रदा ॥ ५ ॥

चन्द्रा चन्द्रावली चैव प्रपञ्चा प्रलयान्तिका।
शिशुवक्त्रा पिशाची च पिशिताशा च लोलुपा ॥ ६ ॥

धमनी तापनी चैव रागिणी विकृतानना।
वायुवेगा बृहत्‌कुक्षिर्विकृता विश्वरूपिका ॥ ७ ॥

यमजिह्वा जयन्ती च दुर्जया च जयन्तिका।
विडाली रेवती चैव पूतना विजयान्तिका ॥ ८ ॥

अष्टहस्ताश्चतुर्हस्ता इच्छास्त्राः
सर्वसिद्धिदाः। भैरवश्चार्कहस्तः स्यात् कूर्परास्यो जटेन्दुभृत् ॥ ९ ॥

खड्गाङ्कुशकुठारेषुविश्वाभयभृदेकतः।
चापत्रिशूलखट्‌वाङ्गपाशकार्द्धवरोद्यतः ॥ १० ॥

गजचर्मधरो द्वाभ्यां कृत्तिवासोहिभूषितः।
प्रेताशनो मातृमध्ये पूज्यः पञ्चाननोथवा ॥ ११ ॥

अविलोमाग्निपर्यन्तं दीर्घाष्टकैकभेदितम्।
तत्‌षडङ्गानि जात्यन्तैरन्वितं च क्रमाद् यजेत् ॥ १२ ॥

मन्दिराग्निदलारुढं सुवर्णरसकान्वितम्।
नादविन्द्विन्दुसंयुक्तम्मातृनाथाङ्गदीपितम् ॥ १३ ॥

वीरभद्रो वृषारूढो मात्रग्रे स चतुर्मुखः।
गौरी तु द्विभुजा त्र्यक्षा शूलिनी दर्पणान्विता ॥ १४ ॥

शूलं गलन्तिका* कुण्डी वरदा च चतुर्भुजा।
अब्जस्था ललिता स्कन्दगणादर्शशलाकया ॥ १५ ॥

चण्डिका दशहस्ता स्यात् खड्गशूलारिशक्तिधृक्।
दक्षे वामे नागपाश चर्माङ्कुशकुठारकम् ॥ १६ ॥

धनुः सिंहे च महिषः शूलेन प्रहतोग्रतः ॥ १७ ॥

इत्यादिमहापुराणे आग्नेये देवीप्रतिमालक्षणं नाम द्विपञ्चाशत्तमोऽध्यायः।