इयग्रीव उवाच
प्रासादं सम्प्रवक्ष्यामि सर्वसाधारण श्रृण।
चतुरस्त्रीकृतं क्षेत्रं भजेत् षोडशधा बुधः ॥ १ ॥
मध्ये तस्य चतुर्भिस्तु कुर्य्यादायसमन्वितम्।
द्वादशैव तु भागानि भित्त्यर्थं परिकल्पयेत् ॥ २ ॥
जङ्घोच्छायन्तु कर्त्तव्यं चतुर्भागेण चायतम् ।
जङ्घायां द्विगुणोच्छायं मञ्चर्य्याः कल्पयेद् बुधः॥ ३ ॥
तुर्य्यभागेन मञ्चर्य्याः कार्य्यः सम्यक् प्रदक्षिणः ।
तन्माननिर्गमं कार्य्यमुभयोः पार्श्वयोः समम् ॥ ४ ॥
शिशरेण समं कार्य्यमग्रे जगति विस्तरम्।
द्विगुणेनापि कर्त्तव्यं यथाशोभानुरूपतः ॥ ५ ॥
विस्तारान्मण्डपस्याग्रे गर्भसूत्रद्वयेन तु।
दैर्घ्यात्पादाधिकं कुर्य्यान्मध्यस्तम्भैर्विभूषितम् ॥ ६ ॥
प्रासादगर्भमानं वा कुर्व्वीत मुखमण्डपम्।
एकाशीतिपदैर्व्वास्तुं पश्चात् मण्डपमारभ्त् ॥ ७ ॥
शुकान् प्राग्द्वारविन्यासे पादान्तः स्थान् यजेत् सुरान्।
तथा प्राकारविन्यासे यजेद् द्वात्रिंशदन्तगान् ॥ ८ ॥
सर्वसाधारणं चैतत् प्रासादस्य च लक्षणम्।
मानेन प्रतिमाया वा प्रासादमपरं श्रृणु ॥ ९ ॥
प्रतिमायाः प्रमाणेन कर्त्तव्या पिण्डिका शुभा।
गर्भस्तु पिण्डिकार्द्वेन गर्भमानास्तु भित्तयः ॥ १० ॥
भित्तेरायाममानेन उत्सेधन्तु प्रकल्पयेत्।
भित्त्युच्छायात्तु द्विगुणं शिखरं कल्पयेद् बुधः ॥ ११ ॥
शिखरस्य तु तुर्य्येण भ्रमणं परिकल्पयेत्।
शिखरस्य चतुर्थेन अग्रतो मुखमण्डपम् ॥ १२ ॥
अष्टमांशेन गर्भस्य रथकानान्तु निर्गमः।
परिधेर्गुणभागेन रथकस्तित्र कल्पयेत् ॥ १३ ॥
तत्तृतीयेण वा कुर्य्याद्रथकानान्तु निर्गमम्।
वामत्रयं स्थापनीयं रथकत्रितये सदा ॥ १४ ॥
शिखरार्थं हि सूत्राणि चत्वारि विनिपातयेत्।
शुकनाशोद्र्ध्वतः सूत्रं तिर्य्यग्भूतं निपातयेत् ॥ १५ ॥
शिखरस्यार्द्धभागस्थं सिंहं तत्र तु कारयेत्।
शुकनासां स्थिरीकृत्य मध्यसन्धौ निधापयेत् ॥ १६ ॥
अपरे च तता पार्श्वे तद्वत् सूत्रं निधापयेत्।
तदूद्र्ध्वन्तु भवेद्वेदी सकण्ठा मनसारकम् ॥ १७ ॥
स्कन्धभग्नं न कर्त्तव्यं विकरालं तथैव च।
उद्र्ध्वं च वेदिकामानात् कलशं परिकल्पयेत् ॥ १८ ॥
विस्ताराद् द्विगुणं द्वारं कर्त्तव्यं तु सुशोभनम्।
उदुम्बरौ तदूद्र्ध्वञ्च न्यसेच्छाखां सुमङ्गलैः ॥ १९ ॥
द्वारस्य तु चतुथांशे कार्य्यौ चण्डप्रचण्डकौ।
विष्वक्सेनवत्सदण्डौ शिखोद्र्ध्वेडुम्बरे श्रियम् ॥ २० ॥
दिग्गजैः स्नाप्यमानान्तां घटैः साब्जां सुरूपिकाम्।
प्रासादस्य चतुर्थांशैः प्राकारस्योच्छयो भवेत् ॥ २१ ॥
प्रासादात् पादहीनस्तु गोपुरस्योच्छयोभवेत्।
पञ्चहस्तस्य देवस्य एकहस्ता तु पीठिका ॥ २२ ॥
गारुडं मण्डपञ्चाग्रे एकं भौमादिधाम च।
कुर्य्याद्धि प्रतिमायान्तु दिक्षु चाष्टासु चोपरि ॥ २३ ॥
पूर्वं वराहं दक्षे च नृसिंहं श्रीधरं जले।
उत्तरे तु हयग्रीवमाग्नेय्यां जामदग्न्यकम् ॥ २४ ॥
नैर्ऋत्यां रामकं वायौ वामनं वासुदेवकम्।
ईशे प्रासादरचना देया वस्वर्ककादिभिः ॥
द्वारस्य चाष्टमाद्यंशं त्यक्त्वा वेधो न दोषभाक् ॥ २५ ॥
इत्यादिमहापुराणे आग्नेये प्रासदलक्षणं नाम द्वाचत्वारिंशोऽध्यायः ।