०३८

अग्निरुवाच
वासुदेवाद्यालयस्य कृतौ वक्ष्ये फलादिकम्।
चिकीर्षोर्द्देवधामादि सहस्नजनिपापनुत् ॥ १ ॥

मनसा सद्मकर्तणां शतजन्माघनाशनम्।
येनुमोदन्ति कृष्णस्य क्रियमाणं नरा गृहम् ॥ २ ॥

तेपि पापैर्व्विनिर्मुक्ताः प्रयान्त्यच्युतलोकताम्।
समतीतं भविष्यञ्च कुलानामयुतं नरः ॥ ३ ॥

विष्णुलोकं नयत्याशु कारयित्वा हरेर्गृहम्।
वसन्ति पितरो दृष्ट्वा विष्णुलोके ह्यलङ्‌कृताः ॥ ४ ॥

विमुक्ता नारकैर्दुः खैः कर्त्तुः कृष्णस्य मन्दिरम्।
ब्रह्महत्यादिपापौघघातकं देवतालयम् ॥ ५ ॥

फलं यन्नाप्यते यज्ञैर्द्धाम कृत्वा तदाप्यते।
देवागारे कृते सर्व्वतीर्थस्नानफलं लभेत् ॥ ६ ॥

देवाद्यर्थे हतानाञ्च रणे यत्तत्‌फलादिकम्।
शाठ्येन पांशुना वापि कृतं धाम च नाकदम् ॥ ७ ॥

एकायतनकृत् स्वर्गी त्र्यगारी ब्रह्मलोकभाक्।
पञ्चागारी शम्भुलोकमष्टागाराद्धरौ स्थितिः ॥ ८ ॥

षोडशालयकारी तु भुक्तिमुक्तिमवाप्नुयात्।
कनिष्ठं मध्यमं श्रेष्ठं कारयित्वा हरेर्गृहम् ॥ ९ ॥

स्वर्गं च वैष्णवं लोकं मोक्षमाप्नोति च क्रमात्।
श्रेष्ठमायतनं विष्णोः कृत्वा यद्धनवान् लभेत् ॥ १० ॥

कनिष्ठेनैव तत् पुण्यं प्राप्नोत्यधनवान्नरः।
समुत्पाद्य धनं कृत्वा स्वल्पेनापि सुरालयम् ॥ ११ ॥

कारयित्वा हरेः पुण्यं सम्प्राप्नोत्यधिकं वरम्।
लक्षेणाथ सहस्नेण शतेनार्द्धेन वा हरेः ॥ १२ ॥

कारयन् भबनं याति यत्रास्ते गरुडध्वजः।
बाल्ये तु क्रीडमाना ये पांशुभिर्भवनं हरेः ॥ १३ ॥

वासुदेवस्य कुर्व्वन्ति तेपि तल्लोकगामिनः।
तीर्थे चायतने पुण्ये सिद्धक्षेत्रे तथाष्टमे ॥ १४ ॥

कर्त्तुरायतन विष्णोर्यथोक्तात् त्रिगुणं फलम्।
बन्धूकपुष्पविन्यासैः सुधापङ्केन वैष्णवम् ॥ १५ ॥

ये विलिम्पन्ति भवनं ते यान्ति भगवत्‌पुरम्।
पतितं पतभानन्तु तथार्द्धपतितं नरः ॥ १६ ॥

समुद्धत्य हरेर्द्धाम प्राप्नोति द्विगुणं फलम्।
पतितस्य तु यः कर्त्ता पतितस्य च रक्षिता ॥ १७ ॥

विष्णोरायतनस्येह स नरो विष्णुलोकभाक्।
इष्टकानिचयस्तिष्ठेद् यावदायतने हरेः ॥ १८ ॥

सकुलस्तस्य वै कर्त्ता विष्णुलोके महीयते।
स एव पुण्यवान् पूज्य इह लोके परत्र च ॥ १९ ॥

कृष्णस्य वासुदेवस्य यः कारयति केतनम्।
जातःस एव सुकृती कुलन्तेनैव पावितम् ॥ २० ॥

विष्णुरुद्रार्कदेव्यादेर्गृहकर्त्ता स कीर्त्तिभाक्।
किं तस्य वित्तनिचयैर्मूढस्य परिरक्षिणः ॥ २१ ॥

दुः खार्ज्जितैर्यः कृष्णस्य न कारयति केतनम्।
नोपभोग्यं धनं यस्य पितृविप्रदिवौकसाम् ॥ २२ ॥

नोपभोगाय बन्धूनां व्यर्थस्तस्य धनागमः।
यथा ध्रुवो नृणां मृत्युर्वित्तनाशस्तथा ध्रुवः ॥ २३ ॥

मूढस्तत्राऽनुबध्नाति जीवितेथ चले धने।
यदा वित्तं न दानाय नोपभोगाय देहिनाम् ॥ २४ ॥

नापि कीर्त्यै न धर्मार्थं तस्य स्वाम्येथ को गुणः।
तस्माद्वित्तं समासाद्य दैवाद्वा पौरुषादथ ॥ २५ ॥

दद्यात् सम्यग् द्विजाग्रथेभ्यः कीर्त्तनानि च कारयेत्।
दानेभ्यस्चाधिकं यस्मात् कीर्त्तनेभ्यो वरं यतः ॥ २६ ॥

अतस्तत्‌कारयेद्धीमान् विष्ण्वादेर्म्मन्दिरादिकम्।
विनिवेश्य हरेर्द्धाम भक्तिमद्भिर्न्नरोत्तमैः ॥ २७ ॥

निवेशितं भवेत् कृत्स्नं त्रैलोक्यं सचराचरम्।
भूतं भव्यं भविष्यञ्च स्थूलं सूक्ष्मं तथेतरत् ॥ २८ ॥

आब्रह्मस्तम्बपर्य्यन्तं सर्व्वं विष्णोः समुद्भवम्।
तस्य देवादिदेवस्य सर्वगस्य महात्मनः ॥ २९ ॥

निवेश्य भवनं विष्णोर्न्न भूयो भुवि जायते।
यथा विष्णोर्द्धामकृतौ फलं तद्वद्दिवौकसाम् ॥ ३० ॥

शिवब्रह्मार्क्कविध्नेशचण्डीलक्षग्यादिकात्मनाम्।
देवालयकृतेः पुण्यं प्रतिमाकरणेधिकम् ॥ ३१ ॥

प्रतिमास्थापने यागे फलस्यान्तो न विद्यते।
मृण्मयाद्दारुजे पुण्यं दारुजादिष्टकाभवे ॥ ३२ ॥

इष्टकोत्थाच्छैलजे स्याद्धेमादेरधिकं फलम्।
सप्तजमन्मकृतं पापं प्रापम्भादेव नश्यति ॥ ३३ ॥

देवालयस्य स्वर्गी स्यान्नरकं न स गच्छति।
कुलानां शतमुद्धृत्य विष्णुलोकं नयेन्नरः ॥ ३४ ॥

यमो यमभटानाह देवमन्दिरकारिणः।
यम उवाच
प्रतिमापूजादिकृतो नानेया नरकं नराः ॥ ३५ ॥

देवालयाद्यकर्त्तार आनेयस्ते तु गोचरे
विचरध्वं यथान्यायन्नियोगो मम पाल्यताम् ॥ ३६ ॥

नाझाभङ्गं करिष्यन्ति भवतां जन्तवः क्कचित्।
केवलं ये जगत्तातमनन्तं समुपाश्रिताः ॥ ३७ ॥

भवद्भिः परिहर्त्तव्यास्तेषां नात्रास्ति संस्थितिः।
येच भागवता लोके तच्चित्तास्तत्‌परायमाः ॥ ३८ ॥

पूजयन्ति सदा विष्णुं ते वस्त्याज्याः सुदूरतः।
यस्तिष्ठन् प्रस्वपन् गच्छन्नुत्तिष्ठन् स्खलिते स्थिते ॥ ३९ ॥

सङ्गीर्त्तयन्ति गोविन्दं ते वस्त्याज्याः सुदूरतः।
नित्यनैमित्तिकैर्द्देवं ये यजन्ति जनार्द्दनम् ॥ ४० ॥

नावलोक्या भचवद्भिस्ते तद्‌गता यान्ति तद्गतिम्।
ये पुष्पधूपवासोभिर्भूषणैश्चातिवल्लभैः ॥ ४१ ॥

अर्च्ययन्ति न ते ग्राह्या नराः कृष्णालये गताः ।
उपलेपनकर्त्तारः सम्मार्जनपरश्च ये ॥ ४२ ॥

कृष्णालये परित्याज्यास्तेषां पुत्रास्तथा कुलम्।
येन चायतनं विष्णोः कारितं तत् कुलोद्भवम् ॥ ४३ ॥

पुंसां शतं नावलोक्यं भवद्भिर्दुष्टचेतसा।
यस्तु देवालयं विष्णोर्द्दारुशौलमयं तथा ॥ ४४ ॥

कारयेन्मृण्मयं वापि सर्वपापैः प्रमुच्यते।
अहन्यहनि यज्ञेन यजतो यन्महाफलम् ॥ ४५ ॥

प्राप्नोति तत् फलं विष्णोर्यः कारयति केतनम्।
सप्तलोकमयो विष्णुस्तस्य यः कुरुते गृहम् ॥ ४६ ॥

कारयन् भगवद्धाम् नयत्यच्युतलोकताम्।
सप्तलोकमयो विष्णुस्तस्य यः कुरुते गृहम् ॥ ४७ ॥

तारयत्यक्षयांल्लोकानक्षयान् प्रातिपद्यते।
इष्टकाचयविन्यासो यावनत्यब्दानि तिष्ठति ॥ ४८ ॥

तावद्वर्षसहस्नाणि तत्‌कर्त्तु र्द्दि वि संस्थितिः।
प्रतिमाकृद्विष्णुलोकं स्थापको लीयते हरौ ॥

देवसद्मप्रतिकृतिप्रतिष्ठाकृत्तु गोचरे ॥ ४९ ॥

अग्निरुवाच
यमोक्ता नानयंस्तेथ प्रतिष्ठादिकृतं हरेः।
हयशीर्षः प्रतिष्ठार्थं देवानां ब्रह्मणेऽब्रवीत् ॥ ५० ॥

इत्यादिमहापुराणे आग्नेये देवालयादिमाहत्म्यवर्णनं नाम अष्टत्रिंशोऽध्यायः॥