अग्निरुवाच
सङ्क्षेपात् सर्वदेवानां पवित्रारोहणं श्रृणु।
पवित्रं सर्वलक्ष्म स्यात् खरमानलगं त्व ॥ १ ॥
जगद्योने समागच्छ परिवारगणैः सह।
निमन्त्रयाम्यहं प्रातर्द्दद्यान्तुभ्यं पवित्रकम् ॥ २ ॥
जगत्सृजे नमस्तुभ्यं गृह्णीष्वेदं पवित्रकम्।
पवित्रीकरणार्थाय वर्षपूजाफलप्रदम् ॥ ३ ॥
शिवदेव नमस्तुभ्यं गृह्णीष्वेदं पवित्रकम्।
मणिविद्रुममालाभिर्म्मन्दारकुसुमादिभिः ॥ ४ ॥
इयं संवत्सरी पूजा तवास्तु वेदवित्पते।
सांवत्सरीमिमां पूजां सम्पाद्य विधिवन्मम ॥ ५ ॥
ब्रज पवित्रकेदानीं स्वर्गलोकं विसर्ज्जितः।
सूर्य्यदेव नमस्तुभ्यं गृह्णीष्वेदं पवित्रकम् ॥ ६ ॥
पवित्रीकरणार्थय वर्षपूजाफलप्रदम्।
शिवदेव नमस्तुभ्यं गृह्णोष्वेदं पवित्रकम् ॥ ७ ॥
पवित्रीकरणार्थाय वर्षपूजाफलप्रदम्।
वाणेश्वर नस्तुभ्यं गृह्लीष्वेदं पवित्रकम् ॥ ८ ॥
पवित्रीकरणार्थय वर्षपूजाफलप्रदम्।
शक्तिदेवि नमस्तुभ्यं गृह्णीषवेदं पवित्रकम् ॥ ९ ॥
पवित्रीकरणार्थय वर्षपूजाफलप्रदम्।
नारायणमयं सूत्रमनिरुद्धणमयं वरम् ॥ १० ॥
धनधान्यायुरारोग्यप्रदं सम्प्रददामि ते।
कामदेवमयं सूत्रं सङ्कर्षणमयं वरम् ॥ ११ ॥
विद्यासन्ततिसौभाग्यप्रदं सम्प्रददामि ते।
वासुदेवमयं सूत्रं धर्म्मकामार्थमोक्षदम् ॥ १२ ॥
संसारसागरोत्तारकारणं प्रददामि ते।
विश्वरूपमयं सूत्रं सर्व्वदं पापनाशनम् ॥ १३ ॥
अतीतानागतकुलसमुद्दारं ददामि ते।
कनिष्ठादीनि चत्वारि मनुभिस्तु क्रमाद्ददे ॥ १४ ॥
इत्यादिमहापुराणे आग्नेये सङ्क्षेपपवित्रारोहणं नाम सप्तत्रिंशोऽध्यायः ॥