०३६

अग्निरुवाच
प्रातः स्नानादिकं कृत्वा द्वारपालान् प्रपूज्य च।
प्रविश्य गुप्ते देशे च समाकृष्याथ धारयेत् ॥ १ ॥

पूर्वाधिवासितं द्रव्यं वस्त्राभरणगन्धकम्।
निरस्य सर्वनिर्म्माल्यं देवं संस्थाप्य पूजयेत् ॥ २ ॥

पञ्चामृतैः कषायैश्च शुद्धगन्धोदकैस्ततः।
पूर्वाधिवासितं दद्याद्वस्त्रं गन्धं च पुष्पकम् ॥ ३ ॥

अग्नौ हुत्वा नित्यवच्च देवं सम्प्रार्थयेन्नमेत् ।
समर्प्य कर्म्म देवाय पूजां नैमित्तिकीं चरेत् ॥ ४ ॥

द्वारपालविष्णुकुम्भवर्द्धनीः प्रार्थयेद्धरिम्।
अतो देवेति मन्त्रेण मूलमन्त्रेण कुम्भके ॥ ५ ॥

कृष्ण कृष्ण नमस्तुभ्यं गृह्णीष्वेदं पवित्रकम्।
पवित्रीकरणार्थाय वर्षपूजाफलप्रदम् ॥ ६ ॥

पवित्रकं कुरुष्वाद्य यन्मया दुष्कृतं कृतम्।
शुद्धो भवाम्यहं देव त्वत्प्रसादात् सुरेश्वर ॥ ७ ॥

पवित्रञ्च हृदाद्यैस्तु आत्मानमभिषिव्य च।
विष्णुकुम्भञ्च सम्प्रोक्ष्य व्रकजेद्देवसमीपतः ॥ ८ ॥

पवित्रमात्मने दद्याद्रक्षआबन्धं विसृज्य च ।
गृहाण ब्रह्मसूत्रञ्च यन्मया कल्पितं प्रभो ॥ ९ ॥

कर्म्माणां पूरणार्थाय यथा दोषो न मे भवेत्।
द्वारपालासनगुरुमुख्यानाञ्च पवित्रकम् ॥ १० ॥

कनिष्ठादि च देवाय वनमालाञ्च मूलतः।
हृदादिविष्वक्सेनान्ते पवित्राणि समर्पयेत् ॥ ११ ॥

वह्नौ हुत्वाग्निवर्त्तिभ्यो विष्णवादिभ्यः पवित्रकम्।
प्रार्च्य पूर्णाहुतिं दद्यात् प्रायश्चित्ताय मूलतः ॥ १२ ॥

अष्टोत्तरशतं वापि पञ्चोपनिषदैस्ततः।
मणिविद्रुममालाभिर्म्मन्दारकुसुमादिभिः ॥ १३ ॥

इयं सांवत्सरी पूजा तवास्तु गरुडध्वज।
वनमाला यथा देव कौस्तुभं सततं हृदि ॥ १४ ॥

तद्वत् पवित्रतन्तूंश्च पूजां च हृदये वह ।
कामतोऽकामतो वापि यत्कृतं नियमार्च्चने ॥ १५ ॥

विधिना विध्नलोपेन परिपूर्णे तदस्तु मे।
प्रार्थ्य नत्वा क्षमाप्याथ पवित्रं मस्तकेऽर्प्पयेत् ॥ १६ ॥

दत्वा बलिं दक्षिणाभिवैष्णवन्तोषयेद् गुरुम्।
विप्रान् भोजनवस्त्राद्यैर्द्दिवसं पक्षमेव वा ॥ १७ ॥

पवित्रं स्नानकाले च अवतार्य्य समर्प्पयेत्।
अनिवारितमन्नाद्यं दद्याद्भुङ्क्तेथ च स्वयम् ॥ १८ ॥

विसर्जनेह्नि सम्पूज्य पवित्राणि विसर्ज्जयेत्।
सांवत्सरीमिमां पूजां सम्पाद्य विधिवन्मम ॥ १९ ॥

व्रज पवित्रकेदानीं विष्णुलोकं विसर्ज्जितः।
मध्ये सोमेशयोः प्रार्च्च्य विष्वक्सेनं हि तस्य च ॥ २० ॥

पवित्राणि समभ्यर्च्य ब्राह्मणाय समर्प्पत्।
यावन्तस्तन्तवस्तस्मिन् पवित्रे परिकल्पिताः ॥ २१ ॥

तावद्युगसहस्नाणि विष्णुलोके महीयते।
कुलानां शतमुद्‌धृत्य दश पूर्वान् दशापरान् ॥
विष्णुलोके तु संस्थाप्य स्वयं मुक्तिमवाप्नुयात् ॥ २२ ॥

इत्यादिमहापुराणे आग्नेये विष्णुपवित्रारोहणं नाम षट्‌त्रिंशोऽध्यायः।