०३५

अग्निरुवाच
सम्पाताहुतिनासिच्य पवित्राण्याधिवासयेत्।
तृसिंहमन्त्रजप्तानि गुप्तान्यस्त्रेण तानि तु ॥ १ ॥

वस्त्रसंवेष्टितान्येव पात्रस्थान्यभिमन्त्रयेत्।
विल्वाद्यद्भिः प्रोक्षितानि मन्त्रेण चैकधा ॥ २ ॥

कुम्भपार्श्वे तु संस्थाप्य रक्षां विज्ञाप्य देशिकः।
दन्तकाष्ठञ्चामलकं पूर्वे कङ्कर्षणेन तु ॥ ३ ॥

प्रद्युम्नेन भस्मतिलान् दक्षे गोमयमृत्तिकाम्।
वारुणे चानिरुद्धेन सौम्ये नारायणेन च ॥ ४ ॥

दर्भोदकञ्चाथ हृदा अग्नौ कुङ्कुमरोचनम्।
ऐशान्यां शिरसा धूपं शिखया नैर्ऋतेप्यथ ॥ ५ ॥

मूलपुष्पाणि दिव्यानि कवचेनाथ वायवे।
चन्दनाम्ब्वक्षतदधिदूर्वाश्च पुटिकास्थिताः ॥ ६ ॥

गृहं त्रिसूत्रेणावेष्ट्य पुनः सिद्धार्थकान् क्षिपेत्।
दद्यात्पूजाक्रमेणाथ स्वैः स्वैर्गन्धपवित्रकम् ॥ ७ ॥

मन्त्रैर्वै द्वारपादिभ्यो विष्णुकुम्भे त्वनेन च।
विष्णुतेजोभवं रम्यं सर्वपातकनाशनम् ॥ ८ ॥

सर्वकामप्रदं देवं तवाङ्गे धारयाम्यहम्।
सम्पूज्य धूपदीपद्यैर्व्रजेद् द्वारसमीपतः ॥ ९ ॥

गन्धपुष्पाक्षतोपेतं पवित्रञ्चाशिलेर्प्पयेत् ।
पवित्रं वैष्णवं तेजो महापातकनाशनम् ॥ १० ॥

धर्म्मकामार्थसिद्ध्यर्थं स्वकेङ्गे धारयाम्यहम्।
आसने परिवारादौ गुरौ दद्यात् पवित्रकम् ॥ ११ ॥

गन्धादिभिः समभ्यर्च्य गन्धपुष्पाक्षतादिमत्।
विष्णुतेजोभवेत्यादिमूलेन हरयेर्पयेत् ॥ १२ ॥

वह्निस्थाय ततो दत्वा देवं सम्प्रार्थयेत्ततः।
क्षीरोदधिमहानागशय्यावस्थितविग्रह ॥ १३ ॥

प्रातस्त्वां पूजयिष्यामि सन्निधौभव केशव।
इन्द्रादिभ्यस्ततो दत्वा विष्णुपार्षदके बलिम् ॥ १४ ॥

ततो देवाग्रतः कुम्भं वासोयुगसमन्वितम्।
रोचनाचन्द्रकाश्मीरगन्धाद्युदकसंयुतम् ॥ १५ ॥

गन्धपुष्पादिनाभूष्य मूलमन्त्रेण पूजयेत्।
मण्डपाद्वहिरागत्य विलिप्ते मण्डलत्रये ॥ १६ ॥

पञ्चगव्यञ्चरुन्दन्तकाष्ठञ्चैव क्रमाद्भवेत्।
पुराणश्रवणं स्तोत्रं पठन् जागरणं निशि ॥ १७ ॥

परप्रेषकबालानां स्त्रीणं भोगभुजां तथा।
सद्योधिवासनं कुर्य्याद्विना गन्धपवित्रकम् ॥ १८ ॥

इत्यादिमहापुराणे आग्नेये पवित्राधिवासनं नाम पञ्चत्रिशोऽध्यायः ॥