अग्निरुवाच
रक्षां स्वस्य परेषाञ्च वक्ष्ये तां मार्जनाह्वयाम्।
यया विमुच्यते दुः खैः सुखञ्च प्राप्नुयान्रः ॥ १ ॥
ओ नमः परमार्थय पुरुषाय महात्मने।
अरूपबहुरूपाय व्यापिने परमात्मने ॥ २ ॥
निष्कल्मषाय शुद्धाय ध्यानयोगरताय च।
नमस्कृत्य प्रवक्ष्यामि यत् तत्सिध्यतु मे वचः ॥ ३ ॥
वराहय नृसिंहाय वामनाय महामुने।
नमस्कृत्य प्रक्ष्यामि यत्तत्सिध्यतु मे वचः ॥ ४ ॥
त्रिविक्रमाय रामाय वैकुष्ठाय नराय च।
नमस्कृत्य प्रवक्ष्यामि यत्तत् सिध्यतु मे वचः ॥ ५ ॥
वराह नरसिंहेश वामनेश त्रिविक्रम।
हयग्रीवेश सर्वेश हृषीकेश हरासुभम् ॥ ६ ॥
अपराजितचक्राद्यैश्चतुर्भिः परमायुधैः।
अखण्डितानुभावैस्त्वं सर्वदुष्टहरो भव ॥ ७ ॥
हरामुकस्य हुरितं सर्वञ्च सुशलं कुरु।
मृत्युबन्धार्त्तिभयदं दुरितस्य च यत् फलम् ॥ ८ ॥
पराभिध्यानसहितैः प्रयुक्तञ्चाभिचारकाम्।
गदस्पर्शमहारोगप्रयोगं जरया जर ॥ ९ ॥
ओं नमो वासुदेवाय नमः कृष्णाय खङ्गिने।
नमः पुष्करनेत्राय केशवायादिचक्रिणे ॥ १० ॥
नमः कमलकिञ्चल्कपीतनिर्म्मलवाससे।
महाहररिपुस्कन्धसृष्टचक्राय चक्रिणे ॥ ११ ॥
दंष्ट्रोद्धृतक्षितिभृते त्रयीमूर्त्तिमते नमः।
महायज्ञवराहाय शेषभोगाङ्कशायिने ॥ १२ ॥
तप्तहाटककेशाग्नज्वलत्पावकलोचन।
वज्राधिकनखस्पर्श दिव्यसिंह नमोस्तु ते ॥ १३ ॥
काश्यपायातिह्रस्वाय ऋग्यजुः सामभूषित।
तुभ्यं धामनरूपायाक्रमते गां नमो नमः ॥ १४ ॥
वराहाशेषदुष्टानि सर्वपापफलानि वै।
मर्द्द मर्द्द महादंष्ट्र मर्द मर्द च यत्फलम् ॥ १५ ॥
नरसिंह करालास्य दन्तप्रान्तानलोज्जवल।
भञ्ज भञ्च निनादेन दुष्टान्यस्यातिन्नाशन ॥ १६ ॥
ऋग्यजुः सामगर्भाभिर्वाग्भिर्वामनरूपधृक्।
प्रशमं सर्वदुः खानि नयत्त्वस्य जनार्द्दनः ॥ १७ ॥
ऐकाहिकं द्व्याहिकञ्च तथा त्रिदिवसं ज्वरम्।
चातुर्थकन्तथात्युग्रन्तथैव सततज्वरम् ॥ १८ ॥
दोषोत्थं सन्निपातोत्थं तथैवागन्तुकं ज्वरम्।
शमं नयाशु गोविन्द च्छिन्धि च्छिन्ध्यस्य वेदनाम् ॥ १९ ॥
नेत्रदुः खं शिरोदुः खं दुःख ञ्चोदरसम्भवम्।
अन्तः श्वासमतिश्वासं परितापं सवेपथुम् ॥ २० ॥
गुदघ्राणाङ्घ्रिरोगांश्च कुष्ठरोगांस्तथा क्षयम् ।
कामलादींस्तथा रोगान् प्रमेहांश्चातिदारुणान् ॥ २१ ॥
भगन्दरातिसारांश्च मुखरोगाँश्च वल्गुलीम्।
अश्मरीं मूत्रकृच्छ्रांश्च रोगानन्यांश्च दारुणान् ॥ २२ ॥
ये वातप्रभवा रोगा ये च पित्तसमुद्भवाः ।
कफोद्भवाश्च ये केचित् ये चान्ये सान्निपातिकाः ॥ २३ ॥
आगन्तुकाश्च ये रोगा लूता विस्फोटकादयः।
ते सर्वे प्रशमं यान्तु वासुदेवापमार्जिताः ॥ २४ ॥
विलयं यान्तु ते सर्वे विष्णोरुच्चारणेन च।
क्षयं गच्छन्तु चाशेपास्ते चत्राभिहता हरेः ॥ २५ ॥
अच्युतानन्तगोविन्दनामोच्चारणभीषिताः ।
नश्यन्ति सकला होगाः सत्यं स्त्यं वदाम्यहम् ॥ २६ ॥
स्थावरं जछङ्गमं वापि कृत्रिम् चापि यद्विषम्।
दन्तोद्भवं नखभवमाकशप्रभवं विषम् ॥ २७ ॥
लूतादिप्रभवं यच्च विषमन्यत्तु दुः खदम्।
शमं नयतु तत् सर्वं कीर्त्तितोस्य जनार्द्दनः ॥ २८ ॥
ग्रहान् प्रेतग्रहांश्चापि तथा वै डाकिनीग्रहान् ।
वेतालांश्च पिशाचांश्च गन्धर्वान् यक्षासान् ॥ २९ ॥
शकुनीपूतनाद्याश्च तथा वैनायकान् ग्रहन्।
मुखमण्डीं तथा क्रूरां रेवतीं वृद्धरेवतीम् ॥ ३० ॥
वृद्धकाख्यान् ग्रहां श्चोग्रांस्तथा मातृग्रहानपि।
बालस्य विष्णोश्चरितं हन्तु बालग्रहानिमान् ॥ ३१ ॥
वृद्दाश्च ये ग्रहाः केचिद्ये च बालग्रहाः क्कचित्।
नरसिंहस्य ते हृष्ट्या दग्धा ये चापि यौवने ॥ ३२ ॥
सदा करालवदनो नरसिंहो महाबलः।
ग्रहानशेषान्निःशेषान् करोतु जगतो हितः ॥ ३३ ॥
नरसिंह महासिंह ज्वालामालोज्ज्वलानन।
ग्रहानशेषान् सर्वेश खाद खादाग्निलोचन ॥ ३४ ॥
ये रोगा ये महोत्पाता यद्विषं ये महाग्रहाः।
यानि च क्रूरभूतानि ग्रहपीडाश्च दारुणाः ॥ ३५ ॥
शस्त्रकतेषु ये दोषा ज्वालागर्द्दभकादयः।
तानि सर्वाणि सर्वात्मा परमात्मा जनार्द्दनः ॥ ३६ ॥
किञ्चिद्रूपं समास्थाय वासुदेवास्य नाशय ॥ ३७ ॥
क्षिप्त्वा सूदर्शनञ्चक्रं ज्वालामालातिभीषणम्।
सर्वदुष्टोपशमनं सुरु देववराच्युत् ॥ ३८ ॥
सुदर्शन महाज्वाल च्छिन्धि च्छिन्धि महारव ।
सर्व्वदुष्टानि सक्षांसि क्षयं यान्तु विभीषण ॥ ३९ ॥
प्राच्यां प्रतीच्यां च दिशि दक्षिणोत्तरतस्तथा।
रक्षाङ्करोत् सर्वात्मा नरसिंहः सुगर्ज्जितः॥४० ।
दिवि भुव्यन्तरीक्षे च पृष्ठतः पार्श्वतोग्रतः।
रक्षाङ्करोत् भगवान् बहुरूपी जनार्द्दनः ॥ ४१ ॥
यथा विष्णुर्ज्जगत्सर्वं सदेवासुरमानुषम्।
तेन सत्येन दुष्टानि सममस्य ब्रजन्तु वै ॥ ४२ ॥
यथा विष्णौ स्मृते सद्यः सङ्क्षयं यान्ति पातकाः।
सत्येन तेन सकलं दुष्टमस्य प्रशाम्यतु ॥ ४३ ॥
षरमात्मा यथा विष्णुर्वेदान्तेषु च गीयते।
तेन सत्येन सकलं दुष्टमस्य प्रशाम्यतु ॥ ४४ ॥
यथा यक्षेश्वरो विष्णुर्द्देवेष्वपि हि गीयते।
सत्येन तेन सकल यन्मयोक्तं यथास्तु तत् ॥ ४५ ॥
शान्तिरस्तु शिवञ्चास्तु दुष्टमस्य प्रशाम्यतु।
वासुदेवशरीरोत्थैः कुशैर्न्निर्म्मथितं मया ॥ ४६ ॥
अपमार्जनकं शस्त्रं सर्वरोगादिवारणम्।
अहं हरिः कुशो विष्णुर्हता रोगा मया तव ॥ ४७ ॥
इत्यादिमहापुराणे आग्नेये कुशापमार्जनं नाम एकत्रिंशोऽध्यायः।