नारद उवाच
मध्ये पद्मे यदेद्ब्रह्म साङ्गं पूर्वेब्जनाभकम्।
आग्नेयेब्जे च प्रकृतिं याम्येब्जे पुरुषं यजेत् ॥ १ ॥
पुरुषाद्दशिणे वह्निं नैर्ऋते वारुणेनिलम्।
आदित्यमैन्दवे पद्मे ऋग्यजुश्चैशपद्मके ॥ २ ॥
इन्द्रादींश्च द्वितीयायां पद्मे षोडशके तथा।
सामाथर्वाणमाकाशं वायु तेजस्तता जलम् ॥ ३ ॥
पृथिवीञ्च मनश्चैव श्रोत्रं त्वक् चक्षुरर्च्चयेत्।
रसनाञ्च तथा घ्राणं भूर्भुवश्चैव षोडशम् ॥ ४ ॥
महर्जनस्तपः सत्यं तथाग्निष्टोममेव च।
अत्यग्निष्टोमकं चौक्थं षोडशीं वाजपेयकम् ॥ ५ ॥
अतिरात्रञ्च सम्पूज्य तथाप्तोर्याममर्च्चयेत्।
मनो बुद्धिमहङ्कारं शब्दं स्पर्शञ्च रूपकम् ॥ ६ ॥
रसं गन्धञ्च पद्मे षु चतुर्विंशतिषु क्रमात्।
जीवं मनोधिपञ्चाहं प्रकृतिं शब्दमात्रकम् ॥ ७ ॥
वासुदेवादिमूर्त्तिंश्च तथा चैव दशात्मकम्।
मनः श्रोत्रं त्वचं प्रार्च्च्य चक्षुश्च रसनं तथा ॥ ८ ॥
घ्राणं वाक्पाणिपादञ्च द्वात्रिंशद्वारिजेष्विमान्।
चतुर्थावरणे पूज्याः साङ्गाः सपरिवारकाः ॥ ९ ॥
पायूपस्थौ च सम्पूज्य मासानां द्वादशाधिपान्।
पुरुषोत्तमादिषड्विशानं बाह्यावरणकेयजेत् ॥ १० ॥
चक्राब्जे तेषु सम्पूज्या मासानां पतयः क्रमात्।
अष्टौ प्रकृतयः षड् वा पञ्चाथ चतुरोऽपरे ॥ ११ ॥
रजः पातं ततः कुर्य्याल्लिखिते मण्डले श्रृणु।
कर्णिका पीतवर्णा स्याद्रेशाः सर्वाः सिताः समाः ॥ १२ ॥
द्विहस्तेऽङ्गुष्ठमात्राः स्युर्हस्ते चार्द्धसमाः सिताः।
पद्मं शुक्लेनसन्धींस्तु कृष्णेन श्यामतोथवा ॥ १३ ॥
केशरा रक्तपीताः स्युः कोणान् रक्तेन पूरयेत्।
भूषयेद्योगपीठन्तु यथेष्टं सार्ववर्णिकैः ॥ १४ ॥
लतावितानपत्राद्यैर्वीन्थिकामुपशोभयेत।
पीठद्वारे तु शुक्लेन शोभारक्तेन पीततः ॥ १५ ॥
उपसोभाञ्च नीलेन कोणशंशाँस्च वै सितान्।
भद्रके पूरणं प्रोक्तमेवमन्येषु पूरणम् ॥ १७ ॥
त्रिकोणं सिन्तरक्तेन कृष्णेन च विभूषयेत्।
द्विकोणं रक्तपीताभ्यां नाभिं कृष्णेन चक्के ॥ १७ ॥
अरकान् पीतरक्ताभिः श्यामान् नेमिन्तुरक्ततः।
सितश्यामारुणाः सृष्णाः पीता रेखास्तु बाह्यतः ॥ १८ ॥
शालिपिष्टादि शुक्लं स्याद्रक्तं कौसुम्भकादिकम्।
हरिद्रया च हारिद्रं कृष्णं स्याद्दग्धधान्यतः ॥ १९ ॥
शमीपत्रादिकैः श्यामं वीजानां लक्षजाप्यतः।
चतुर्लक्षैन्तु मन्त्राणां विद्यानां लक्षसाधनम् ॥ २० ॥
अयुतं बुद्धविद्यानां स्तोत्राणाञ्च सहस्त्कम्।
पूर्ब्वमेवाथ लक्षेण मन्त्रसुद्धिस्तथात्मनः ॥ २१ ॥
तथापरेण लक्षेण मन्त्रः क्षेत्रीकृतो भवेत्।
कूर्वमेवासमो होमो वीजानां सम्प्रकीर्तितः ॥ २२ ॥
पूर्वसेवा दशांशेन मन्त्रादीनां प्रकीर्त्तिता।
पुरश्चर्य्ये तु भन्त्रे तु मासिकं व्रतमाचरेत् ॥ २३ ॥
भुवि न्यसेद्वामपादं न गृह्णीयात् प्रतिग्रहम्।
एवं द्वित्रिगुणेनैव मध्यमोत्तमसिद्धयः ॥ २४ ॥
मन्त्रध्यानं प्रवक्ष्यामि येन स्यान्मन्त्रजं फलम्।
स्थूलं शब्दमयं रूपं विग्रहं बाह्यमिष्यते ॥ २५ ॥
सूक्ष्मं ज्योतिर्म्मयं रूपं हार्द्दं चिन्तामयं भवेत्।
चिन्तया रहितं यत्तु तत् परं परिकीर्त्तितम् ॥ २७ ॥
वराहसिंहशक्तीनां स्थूलरूपं प्रधानतः।
चिन्तया रहितं रूपं वासुदेवस्य कीर्त्तितम् ॥ २७ ॥
इतरेषां स्मृतं रूपं हार्द्दं चिन्तामयं सदा।
स्थूलं वैराजमाख्यातं सूक्ष्मं वै लिङ्गितं भवेत् ॥ २८ ॥
चिन्तया रहितं रूपमैश्वरं परिकीर्त्तितम्।
हृत्पुण्डरीकनिलयञ्चैतन्यं ज्योतिरव्ययम् ॥ २९ ॥
वीजं वीजात्कमं ध्यायेत् कदम्बकुसुमाकृतिम्।
कुम्भान्तरगतो दीपो निरुद्धप्रसवो यथा ॥ ३० ॥
संहतः केवलस्तिष्ठेदेवं मन्त्रेश्वरो हृदि।
अनेकशुषिरे कुम्भे तावन्मात्रा गभस्तयः ॥ ३१ ॥
प्रसरन्ति वहिस्तद्वन्नाडीभिर्वीजरश्मयः।
अथावभासतो दैवीमात्मीकृत्य तनुं स्थिताः ॥ ३२ ॥
हृदयात् प्रस्थिता नाड्यो दर्शनेन्द्रियगोचराः।
अग्नीषोमात्मके तासां नाड्यौ नासाग्रसंस्थिते ॥ ३३ ॥
सम्यग्गुह्येन योगेन जित्वा देहसमीरणम्।
जपध्यानरतो मन्त्री मन्त्रलक्षणमस्नुते ॥ ३४ ॥
संशुद्ध भूततन्मात्रः सकामो योगमभ्यसन्।
अणिमादिमवाप्नोति विरक्तः प्रबिलङ्ध्य च ॥ ३५ ॥
देवात्मके भूतमात्रान्मुच्यते चेन्द्रियग्रहात् ॥ ३६ ॥
इत्यादिमहापुराणे आग्नेये मण्डलादिवर्णनं नाम त्रिंशोऽध्यायः।