०२५

नारद उवाच
वासुदेवादिमन्त्राणां पूज्यानां लक्षणं वदे।
वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः ॥ १ ॥

नमो भगवते चादौ अ आ अं अः स्ववीजकाः ।
ओङ्काराद्या नमोन्ताश्च नमो नारायणस्ततः ॥ २ ॥

ओं तत् सद् ब्रह्मणे चैव ओं नमो विष्णवे नमः।
ओं क्षों ओं नमो भगवते नरसिंहाय वै नमः ॥ ३ ॥

ओं भूर्नमो भगवते वराहाय नराधिपाः।
जवारुणहरिद्राभा नीलश्यामललोहिताः ॥ ४ ॥

मेघाग्निमधुपिङ्गाभा वल्लभा नव नायकाः।
अङ्गानि स्वरवीजानां स्वनामान्तैर्यथाक्रमम् ॥ ५ ॥

हृदयादीनि कल्पेत विभक्तैस्तन्त्रवेदिभिः।
व्यञ्चनादीनि बीजानि तेषां लक्षणमन्यथा ॥ ६ ॥

दीर्घस्वरैस्तु भिन्नानि नमोन्तान्तस्थितानि तु।
अह्गानि ह्रस्वयुक्तानि उपाङ्गानीति वर्ण्यते ॥ ७ ॥

विभक्तनामवर्णान्तस्थितानि वीदमुत्तमम् ।
दीर्घैर्ह्रस्वैश्च संयुक्तं साङ्गोपाङ्गंस्वरैः क्रमात् ॥ ८ ॥

व्यञ्चनानां क्रमो ह्येष हृदयादिप्रकूप्तये।
स्ववीजेन स्वनामान्तैर्विभक्तान्यङ्गनाभिः ॥ ९ ॥

युक्तानि हृदयादीनि द्वादशान्तादि पञ्चतः ।
आरभ्य कल्पयित्वा तु जपेत् सिद्ध्यनुरूपतः ॥ १० ॥

हृदयञ्च शिरश्चुडा कवचं नेत्रमस्तकम्।
षडङ्गानि तु वीजानां मूलस्य द्वादशाङ्गकम् ॥ ११ ॥

हृच्छिरश्च शिखा वर्म्म चास्त्रनेत्रन्तथोदरम्।
पृष्ठबाहूरुजानूँश्च जङ्घा पादौ क्रमान्न्यसेत् ॥ १२ ॥

कं टं पं शं वैनतेयः खं ठं फं षं गदामनुः ।
गं डं बं सं पुष्टिमन्त्रो घं ढं भं हं श्रियै नमः ॥ १३ ॥

वं शं मं क्षं पाञ्चजन्यं छं तं पं कौस्तुभाय च।
जं खं वं सुदर्शनाय श्रीवत्साय सं वं दं चं लं ॥ १४ ॥

ओं धं वं वनमालायै महानन्ताय वै नमः ।
निर्बीजपदमन्त्राणं पदैरङ्गानि कल्पयेत् ॥ १५ ॥

जात्यन्तैर्नामसंयुक्तैर्हृदयादीनि पञ्चधा।
प्रणवं हृदयादीनि ततः प्रोक्तानि पञ्चधा ॥ १६ ॥

प्रणवं हृदयं पूर्वं परायेति शिरः शिखा।
नाम्नात्मना तु कवचं अस्त्रं नामान्तकं भवेत् ॥ १७ ॥

ओं परास्त्रादिस्वनामात्मा चतुर्थ्यन्तो नमोन्तकः।
एकव्यूहादिपड्‌विशव्यूहात्तस्यात्मनो मनुः ॥ १८ ॥

कनिष्ठादिकराग्रेषु प्रकृतिं देहकेर्च्चयेत्।
पराय पुरुषात्मा स्यात् प्रकृत्यात्मा द्विरूपकः ॥ १९ ॥

ओं परायाग्न्यात्मने चैव वाय्वर्क्कौ च द्विरूपकः।
अग्निं त्रिमूर्त्तौ विन्यस्य व्यापकं करदेहयोः ॥ २० ॥

वाय्वर्क्कौ करशाखासु सव्येतरकरद्वये।
हृदि मूर्त्तौ तनावेष त्रिव्यूहे तुर्य्यरूपके ॥ २१ ॥

ऋग्वेदं व्यापकं हस्ते अङ्गुलीषु यजुर्न्यसेत्।
तलद्वयेथर्वरूपं शिरोहृच्चरणान्तकः ॥ २२ ॥

आकाशं व्यापकं न्यस्य करे देहे तु पूर्ववत्।
अङ्गुलीषु च वाय्वादि शिरोहृद्‌गुह्यपादके ॥ २३ ॥

वायुर्ज्योतिर्जलं पृथ्वी पञ्चव्यूहः समीरितः।
मनः श्रोत्रन्त्वग्दृग्जिह्वा घ्राणं षड्‌व्यूह ईरितः ॥ २४ ॥

व्यापकं मानसं न्यस्य ततोङ्गुष्ठादितः क्रमात्।
मूर्द्धास्यहृद्‌गुह्यपत्सु कथितः करुणात्मकः ॥ २५ ॥

आदिमूर्त्तिस्तु सर्वत्र व्यापको जीवसञ्‌ज्ञितः।
भूर्भुवः स्वर्म्महर्ज्जनस्तपः सत्यञ्च सप्तधा ॥ २६ ॥

करे देहे न्यसेदाद्यमङ्गुष्टादिक्रमेण तु।
तलसंस्थः सप्तमश्च लोकेशो देहके क्रमात् ॥ २७ ॥

देहे शिरोललाटास्यहृद्‌गुह्याङ्‌घ्रिषुसंस्थितः।
अग्निष्टोमस्तथोक्थस्तु षोडशी वाजपेयकः ॥ २८ ॥

अतिरात्राप्तोर्यामञ्च यज्ञात्मा सप्तरूपकः।
धीरहं मनः शब्दश्च स्पर्शरूषरसास्तत ॥ २९ ॥

गन्धो बुद्धिर्व्यापकं तु करे देहे न्यसेत् क्रमात्।
न्यसेदन्त्यौ च तलयोः के ललाटे मुखे हृदि ॥ ३० ॥

नाभौ गुह्ये च पादे च अष्टव्यूहः पुमान् स्मृत ।
जीवो बुद्धिरहङ्कारो मनः शब्दो गुणोनिलः ॥ ३१ ॥

रूपं रसो नवात्मायं जीव अह्‌गुष्ठकद्वये।
तर्जन्यादिक्रमाच्छेषं यावद्वामप्रदेशिनीम् ॥ ३२ ॥

देहे शिरोललाटास्यहृन्नाभिगुह्यजानुषु।
पादयोश्च दशात्मायं इन्द्रो व्यापी समास्थितः ॥ ३३ ॥

अङ्‌गुष्टकद्वये वह्निस्तर्जन्यादौ परेषु च।
शिरोललाटवक्त्रेषु हृन्नाभिगुह्यजानुषु ॥ ३४ ॥

पादयोरेकादशात्मा मनः श्रोत्रं त्वगेव च।
चक्षुर्जिह्वा तथा घ्राणं वाक्‌पाण्घङ्घ्रिश्च पायुकः ॥ ३५ ॥

उपस्थं मानसो व्यापी श्रोत्रमङ्गुष्ठकद्वेये।
तर्जन्यादिक्रमादष्टौ अतिरिक्तं तलद्वये ॥ ३६ ॥

उत्तमाङ्गललाटास्यहृन्नाभावथ गुह्यके।
ऊरुयुग्मे तथा जङ्घे गुल्फपादेषु च क्रमात् ॥ ३७

विष्णुर्म्मधुहरश्चैव त्रिविक्रमकवामनौ।
श्रीधरोथ हृषीकेशः पद्मनाभस्तथैव च ॥ ३८ ॥

दामोदरः केशवश्च नारायणस्ततः परः।
माधवश्चाथ गोविन्दो विष्णुं वै व्यापकं न्यसेत् ॥ ३९ ॥

अङ्‌गुष्ठादौ तले द्वौ च पादे जानुनि वै कटौ।
शिरः शिखरकट्याञ्च जानुपादादिषु न्यसेत् ॥ ४० ॥

द्वादशात्मा पञ्चविंशः षड्‌विंशव्यूहकस्तथा।
पुरुषो धीरहङ्कारो मनश्चित्तञ्च शब्दकः ॥ ४१ ॥

तथा स्पर्शो रसो रूपं गन्धः श्रोत्रं त्वचस्तथा।
चक्षुर्जिह्वा नासिका च वाक्‌पाण्यङ्घ्रिश्च पायवः ॥ ४२ ॥

उपस्थो भूर्जलन्तेजो वायुराकाशमेव च।
पुरुषं व्यापकं न्यस्य अङ्गुष्ठादौ दश न्यसेत् ॥ ४३ ॥

शेषान् हस्ततले न्यस्य शिरस्यथ ललाटके।
मुखहृन्नाभिगुह्योरुजान्वङ्घ्रौ करणोदूतौ ॥ ४४ ॥

पादे जान्वोरुपस्थे च हृदये मूद्‌र्ध्नि च क्रमात्।
परश्च पुरुषात्मादौ षड्‌विंशे पूर्ववत्परम् ॥ ४५ ॥

सञ्चिन्त्य मण्डलैके तु प्रकृतिं पूजयेद्‌बुधः।
पूर्वयाम्याप्यसौम्येषु हृदयादीनि पूजयेत् ॥ ४६ ॥

अस्त्रमग्न्यादिकोणेषु वैनतेयादि पूर्ववत्।
दिक्‌पालांश्च विधिस्त्वन्यः त्रिव्यूहेग्निश्च मध्यतः ॥ ४७ ॥

पूर्वादिदिग्‌बलावासोराज्यादिभिरलङ्‌कृतः।
कर्णिकायां नाभसश्च मानसः कर्णिकास्थितः ॥ ४८ ॥

विश्वरूपं सर्वस्थित्यै यजेद्राज्यजयाय च।
सर्वव्यूहैः समायुक्तमङ्गैरपि च पञ्चभिः ॥ ४९ ॥

गरुडद्यैस्तथेन्द्राद्यैः सर्वान् कामानवाप्नुयात्।
विष्वक्‌सेनं यजेन्नाम्ना वै बीजं व्योमसंस्थितम् ॥ ५० ॥

इत्यादिमहापुराणे आग्नेये मन्त्रप्रदर्शनं नाम पञ्चविंशोऽध्यायः।