नारद उवाच
चक्ष्ये पूजाविधिं विप्रा यत कृत्वा सर्वमाप्नुयात्।
प्रक्षालिताङ्घ्निराचम्य वाग्यतः कृतसक्षकः ॥ १ ॥
प्राङ्मुखः स्वस्तिकं बद्ध्वा पद्माद्यपरमेव च।
यं वीजं नाभिमध्यस्थं धूम्रं चण्डानिलात्मकम् ॥ २ ॥
विशेषयेदशेषन्तु ध्यायेत् कायात्तु कल्मषम्।
क्षौं हृत्पङ्कजमध्यस्थं वीजं ते जोनिधिं स्मरन् ॥ ३ ॥
अधोद्धर्वतिर्यग्गाभिस्तु ज्वालाभिः कल्प्रषं दहेत्।
शशाङ्काकृतिवद्ध्यायेदम्बरस्थं सुधाम्बुभिः ॥ ४ ॥
हत्पद्माव्यापिभिर्द्देहं स्वकमाप्लावयेत्सुधीः ।
सुसुम्नायोनिमार्गेण सर्वनाडीविसर्प्पिभिः ॥ ५ ॥
शोधयित्वा न्यसेत्तत्त्वं करसुद्धिरथास्त्रकम्।
व्यापकं हस्तयोरदौ दक्षिणाङ्गुष्ठतोङ्गकम् ॥ ६ ॥
मूलं देहे द्वादशाङ्गं न्यसेन्मन्त्रैर्द्विषट्ककैः।
हृदयं च शिरश्चैव शिखा वर्म्मास्त्रलोचने ॥ ७ ॥
उदरं च तथा पृष्ठं बाहुरुजानुपादकं।
मुद्रां दत्त्वा स्मरेद् विष्णुं जप्त्वाष्टशतमर्च्चयेत् ॥ ८ ॥
वामे तु वर्द्धनीं न्यस्य पूजाद्रव्यं तु दक्षिणे।
प्रक्षाल्यास्त्रेण चार्घ्येण गन्धपुष्पान्विते न्यसेत् ॥ ९ ॥
चैतन्यं सर्व्वगं ज्योतिरष्टजप्तेन वारिणा।
फडन्तेन तु संसिच्य हस्ते ध्यात्वा हरिं परे ॥ १० ॥
धर्मं ज्ञानं च वैराग्यमैश्वर्य्यं वह्निदिङमुखाः।
अधर्मादीनि गात्राणि पूर्वादौ योगपीठके ॥ ११ ॥
कूर्मं पीठे ह्यनन्तञ्च यमं सूर्य्यादिमण्डलम्।
विमलाद्याः केशरस्थानुग्रहा कर्णिकास्थिता ॥ १२ ॥
पूर्वं स्वहृदये ध्यात्वा आवाह्यार्च्चैच्च मण्डले।
अर्घ्यं पाद्यं तथा चामं मधुपर्क्कं पुनश्च तत् ॥ १३ ॥
स्नानं वस्त्रोपवीतञ्च भूषणं गन्धपुष्पकम्।
धूपदीपनैवेद्यानि पुण्डरीकाक्षविद्यया ॥ १४ ॥
यजेदङ्गानि पूर्वादौ द्वारि पूर्वे परेण्डजम्।
दक्षे चक्रं गदां सौम्ये कोणे शङ्खं धनुर्न्यसेत् ॥ १५ ॥
देवस्य वामतो दक्षे चेषुधी खड्गमेव च।
वामे चर्म्म श्रियं पुष्टिं वामेग्रतो न्यसेत् ॥ १६ ॥
वनमालाञ्च श्रीवत्सकौस्तुभौ दिक्पतीन्वहिः।
स्वमन्त्रैः पूजयेत् सर्वान् विष्णुरर्घोवसानतः॥ १७ ॥
व्यस्तेन च समस्तेन अङ्गैर्वीजेन वै यजेत्।
जप्त्वा प्रदक्षिणीकृत्य स्तुत्वार्घ्यञ्च समर्प्य च ॥ १८ ॥
हृदये विन्यसेद्ध्यात्वा अहं ब्रह्मा हरिस्त्विति।
आगच्छावाहने योज्यं क्षमस्वेति विसर्ज्जने ॥ १९ ॥
एवमष्टाक्षाराद्यैश्च पूजां कृत्वा विमुक्तिभाक्।
एकमूर्त्त्यर्च्चनं प्रोक्तं नवव्यूहार्च्चनं श्रृणु ॥ २० ॥
अङ्गुष्ठकद्वये न्यस्य वासुदेवं बलादिकान्।
तर्ज्जन्यादौ शरीरेथ शिरोललाटवक्त्रके ॥ २१ ॥
हृन्नाभिगुह्यजान्वङ्घ्रौ मध्ये पूर्वादिकं यजेत् ।
एकपीठं नवव्यूहं नवपीठञ्च पूर्ववत् ॥ २२ ॥
नवाव्जे नवमूर्त्त्या च नवव्यूहञ्च पूर्ववत्।
इष्टं मध्ये ततः स्थाने वासुदेवञ्च पूजयेत् ॥ २३ ॥
इत्यादिमहापुराणे आग्नेये आदिमूर्त्यादिपूजाविधिर्नाम त्रयोविंशोऽध्यायः।