अग्निरुवाच
वक्ष्ये बुद्धावतारञ्च पठतः श्रृण्वतोर्थदम्।
पुरा देवासुरे युद्धे देत्यैर्द्देवाः पपाजिताः ॥ १ ॥
रक्ष रक्षेति शरणं वदन्तो जग्मुरीश्वरम्।
मायामोहस्वरूपोसौ शुद्धोदनसुतोऽभवत् ॥ २ ॥
मोहयामास दैत्यांस्तांस्त्याजिता वेदधर्मकम्।
ते च बौद्धा बभूवुर्हि तेभ्योन्ये वेदवर्जिताः ॥ ३ ॥
आर्हतः सोऽभवत् पश्चादार्हतानकरोत् परान्।
एवं पाषण्डिनो जाता वेदधर्म्मादिवर्जिताः ॥ ४ ॥
नारकार्हं कर्म चक्रुर्ग्रहीष्यन्त्यधमादपि।
सर्वे कलियुगान्ते तु भविष्यन्ति च सङ्कराः ॥ ५ ॥
दस्यवः शीलहीनाश्च वेदो वाजसनेयकः।
दश पञ्च च शाखा वै प्रमाणेन भविष्यति ॥ ६ ॥
धर्म्मकञ्चुकसंवीता अधर्मरुचयस्तथा।
मानुपान् भक्षयिष्यन्ति म्लेच्छाः पार्थिवरूपिणः ॥ ७ ॥
कल्की विष्णुयशः पुत्रो याज्ञवल्क्यपुरोहितः।
उत्सादयिष्यति म्लेच्छान् गृहीतास्त्रः कृतायुधः ॥ ८ ॥
स्थापयिष्यति मर्यादां चातुर्वर्ण्ये यथोचिताम्।
आश्रमेषु च सर्वेषु प्रजाः सद्धर्म्मवर्त्मनि ॥ ९ ॥
कल्किरूपं परित्यज्य हरिः स्वर्गं गमिष्यति।
ततः कृतयुगन्नाम पुरावत् सम्भविष्यति ॥ १० ॥
वर्णाश्रमाश्च धर्मेषु स्वेषु स्थास्यन्ति सत्तम।
एवं सर्वेषु कल्पेषु सर्वमन्वन्तरेषु च ॥ ११ ॥
अवतारा असङ्ख्याता अतीतानागतादयः।
विष्णोर्द्दशावताराख्यान्यः पठेत् श्रृणुयान्नरः ॥ १२ ॥
सोवाप्तकामो विमलः सकुलः स्वर्गमाप्नुयात्।
धर्म्माधर्म्मव्यवस्थानमेवं वै कुरुते हरीः ॥
अवतीर्णश्च स गतः सर्गादेः कारणं हरिः ॥ १३ ॥
इत्यदिमहापुराणे आग्नेये बुद्धकल्क्यवतारवर्णनं नाम षोडशोऽध्यायः ॥