०१५

अग्निरुवाच
युधिष्ठिरे तु राज्यस्थे आश्रमादाश्रमान्तरम्।
धृतराष्ट्रो वनमगाद् गान्धारी च पृथा द्विच ॥ १ ॥

विदुरस्त्वग्निना दग्धो वनजेन दिवङ्गतः।
एवं विष्णुर्भुवो भारमहरद्दानवादिकम् ॥ २ ॥

धर्म्मायाधर्म्मनाशाय निमित्तीकृत्य पाण्डवान्।
स विप्रशापव्याजेन मुषलेनाहरत् कुलम् ॥ ३ ॥

यादवानां भारकरं वज्रं राज्येभ्यषेचयत्।
देवादेशात् प्रभासे स देहं त्यक्त्वा स्वयं हरिः ॥ ४ ॥

इन्द्रलोके ब्रह्मलोके पूज्यते स्वर्गवासिभिः।
बलभद्रोनन्तमूर्त्तिः पातालस्वर्गमीयिवान् ॥ ५ ॥

अविनाशी हरिर्देवो ध्यानिभिद्धर्येय एव सः।
विना तं द्वारकास्थानं प्लावयामास सागरः ॥ ६ ॥

संस्कृत्य यादवान् पार्थो दत्तोदकधनादिकः।
स्त्रियोष्टावक्रशापेन भार्य्या विष्णोश्च याः स्थिताः ॥ ७ ॥

पुनस्तच्छापतो नीता गोपालैर्लगुडायुधैः।
अर्जुनं हि तिरस्कृत्य पार्थः शोकञ्चकार ह ॥ ८ ॥

व्यासेनाश्वासितो मेने बलं मे कृष्णासन्निधौ।
हस्तिनापुरमागत्य पार्थः सर्वं न्यवेदयत् ॥ ९ ॥

युधिष्ठिराय स भ्रात्रे पालकाय नृणान्तदा।
तद्धनुस्तानि चास्त्राणिस रथस्ते च वाजिनः ॥ १० ॥

विना कृष्णेन तन्नष्टं दानञ्चाश्रोत्रिये यथा।
तच्छ्रुत्वा धर्म्मराजस्तु राज्ये स्थाप्य परीक्षितम् ॥ ११ ॥

प्रस्थानं प्रस्थितो धीमान् द्रौपद्या भ्रातृभिः सह।
संसारनित्यतां ज्ञात्वा जपन्नष्टशतं हरेः ॥ १२ ॥

महापथे तु पतिता द्रौपदी सहदेवकः।
नकुलः फाल्गुनो भीमो राजा शोकपरायणः ॥ १३ ॥

इन्द्रानीतरयारूढः सानुजः स्वर्गमाप्तवान्।
दृष्ट्वा दुर्योधनादींश्च वासुदेवं च हर्षितः ॥
एतत्ते भारतं प्रोक्तं यः पठेत्स दिवं व्रजेत् ॥ १४ ॥