०१४

अग्निरुवाच
यौधिष्ठिरी दौर्योधनी कुरुक्षेत्रं ययौ चमूः।
भीष्मद्रोणादिकान् हृष्ट्वा नायुध्यत गुरुनिति ॥ १ ॥

पार्थं ह्युवाच भगवान्नशोच्या भीष्ममुख्यकाः।
शरीराणि विनाशीनि न शरीरी विनश्यति ॥ २ ॥

अयमात्मा परं ब्रह्म अहं ब्रह्मास्मि विद्धि तम् ।
सिद्ध्यसिद्ध्योः समो योगी राजधर्म्मं प्रपालय ॥ ३ ॥

कृष्णोक्तोथार्जुनोऽयुध्यद्रथस्थो वाद्यशब्दवान्।
भीष्मः सेनापतिरभूदादौ दौर्योधने बले ॥ ४ ॥

पाण्डवानां शिखण्डी च तयोर्युद्धं बभूव ह।
धार्त्तराष्ट्राः पाण्डवांश्च जघ्नुर्युद्धे सभीष्मकाः ॥ ५ ॥

धार्त्तराष्ट्रान् शिखण्ड्याद्याः पाण्डवा जघ्नुराहेवे।
देवासुरसमं युद्धं कुरुपाण्डवसेनयोः ॥ ६ ॥

बभूव स्वः स्थदेवानां पश्यतां प्रीतिबर्द्धनम्।
भीष्मोस्त्रैः पाण्डवं सैन्यं दशाहोभिर्न्यपातयत् ॥ ७ ॥

दशमे ह्यर्जुनौ बाणैर्भिष्मं वीरं ववर्ष ह।
शिखण्डी द्रुपदोत्तोऽस्त्रैर्ववर्ष जलदो यथा ॥ ८ ॥

हस्त्यश्वरथपादातमन्योन्यास्त्रनिपातितम् ।
भीष्मः स्वच्छन्दमृत्युश्च युद्धमार्गं प्रदर्श्य च ॥ ९ ॥

वसूक्तो वसुलोकाय शरशय्यागतः स्थितः।
उत्तरायणमीक्षंश्च ध्यायन् विष्णुंस्तुवन् स्थितः ॥ १० ॥

दुर्योधने तु शोकार्त्ते द्रोणः सेनापतिस्त्वभूत्।
पाण्डवे हर्षिते सैन्ये धृष्टद्युम्नश्चमूपतिः ॥ ११ ॥

तयोर्युद्धं बभूवोग्रं यमराष्ट्रविवर्धनम्।
विराटद्रुपदाद्याश्च निमग्ना द्रोणसागरे ॥ १२ ॥

दौर्योधनी महासेना हस्त्यश्वरथपत्तिनी।
धृष्टद्युम्नाधिपतिता द्रोणः काल इवाबभौ ॥ १३ ॥

हतोश्वत्थामा चेत्युक्ते द्रोणः शस्त्राणि चात्यजत्।
धृष्टद्युम्नशराक्रान्तः पतितः स महीतले ॥ १४ ॥

पञ्चमेहनि दुर्द्धर्षः सर्वक्षत्रं प्रमथ्य च।
दुर्योधने तु शोकार्ते कर्णः सेनापतिस्त्वभूत् ॥ १५ ॥

अर्जुनः पाण्डवानाञ्च तयोर्युद्धं बभूव ह।
शस्त्रशस्त्रि महारौद्रं देवासुररणोपमम् ॥ १६ ॥

कर्णार्जुनाख्ये सङ्‌प्रामे कर्णोरीनवधीच्छरैः।
द्वितीयेहनि कर्णस्तु अर्जुनेन निपातितः ॥ १७ ॥

शल्यो दिनार्द्धं युयुधे ह्यबधीत्तं युधिष्ठिरः।
युयुधे भीमसेनेन हतसैन्यः सयोधनः ॥ १८ ॥

बहून् हत्वा नरादींश्च भीमसेनमथाब्रबीत्।
गदया प्रहरन्तं तु भीमस्तन्तु न्यपातयत् ॥ १९ ॥

गदयान्यानुजांस्तस्य तस्मिन्नष्टादशेहनि।
रात्रौ सषुप्तञ्च बलं पाण्डवानां न्यपातयत् ॥ २० ॥

अक्षौहिणीप्रमाणन्तु अश्वत्थामा महाबलः।
द्रौपदेयान् सापञ्चालान् धृष्टद्युन्नञ्च सोऽवधीत् ॥ २१ ॥

पुत्रहीनां द्रौपदीं तां रुदन्तीमर्जुनस्ततः।
शिरोमणिं तु जग्राह ऐषिकास्त्रेण तस्य च ॥ २२ ॥

अश्वत्थामास्त्रनिर्द्दग्धं जीवयामास वै हरिः।
उत्तरायास्ततो गर्भं स परीक्षिदभून्नृपः ॥ २३ ॥

कृतवर्म्मा कृपो द्रौणिस्त्रयो मुक्तास्ततो रणात् ।
पाण्डवाः सात्यकिः कृष्णः सप्त मुक्ता न चापरे ॥ २४ ॥

स्त्रियश्चार्त्ताः समाश्वास्य भीमाद्यैः स युधिष्ठिरः ।
संस्कृत्य प्रहतान् वीरान् दत्तोदकधनादिकः ॥ २५ ॥

भीष्माच्छान्तनवाच्छ्रुत्वा धर्म्मान् सर्वांश्च शान्तिदान् ।
राजधर्म्मान्मोक्षधर्न्मान्दानधर्म्मान् नृपोऽभवत् ॥ २६ ॥

अश्वमेधे ददौ दानं ब्राह्मणेभ्योरिमर्द्दनः।
श्रुत्वार्जुनान्मौषलेयं यादवानाञ्च सङ्‌क्षयम् ॥

राज्ये परीक्षितं स्थाप्य सानुजः स्वर्गमाप्तवान् ॥ २७ ॥

इत्यादिमहापुराणे आग्नेये महाभारतवर्णनं नाम चतुर्दशोऽध्यायः ।