०१३

नग्निरुवाच
भारतं सम्प्रवक्षयामि कृष्णमाहात्म्यलक्षणम्।
भूभारमहरद्विष्णुनिमित्तीकृत्य पाण्डवान् ॥ १ ॥

विष्णुनाभ्यब्जजो ब्रह्मा ब्रह्मापुत्रोऽत्रिरत्रितः।
सोमः सोमाद् बुधस्तस्मादैल आसीत् पुरूरवाः ॥ २ ॥

तस्मादायुस्ततो राजा नहुषोऽतो ययातिकः।
ततः पुरुस्तस्य वंशे भरतोऽथ नृपः कुरुः ॥ ३ ॥

तद्वंशे शान्तनुस्तस्माद्भीष्मो गङ्गासुतोऽनुजौ।
चित्राङ्गदौ विचित्रश्च सत्यवत्याञ्च शान्तनोः ॥ ४ ॥

स्वर्गं गते शान्तनौ च भीष्मो भार्य्याविवर्ज्जितः।
अपालयत् भ्रातृराज्यं बालश्चि त्राङ्गदो हतः ॥ ५ ॥

चित्राङ्गदेन द्वे कन्ये काशिराजस्य चाम्बिका।
अम्बालिका च भीष्मेण आनीते विजितारिणा ॥ ६ ॥

भार्ये विचित्रवीर्यस्य यक्ष्मणा स दिवङ्गतः।
सत्यवत्या ह्यनुमतादम्बिकायां नृपोभवत् ॥ ७ ॥

धृतराष्ट्रोऽम्बालिकायां पाण्डुश्च व्यासतः सुतः।
गान्धार्य्यां धृतराष्ट्राच्च दुर्योन्धनमुखं शतम् ॥ ८ ॥

शतश्रृङ्गाश्रमपदे भार्यायोगाद् यतो मृतिः।
ऋषिशापात्ततो धर्म्मात् कुन्त्यां पाण्डोर्युधिष्ठिरः ॥ ९ ॥

वाताद्भीमोऽर्जुनः शक्रान्माद्र्यामश्विकुमारतः।
नकुलः सहदेवश्च पाण्डुर्म्माद्रीयुतो मृतः ॥ १० ॥

कर्णः कुन्त्यां हि कन्यायां जातो दुर्योधनाश्रितः।
कुरुपाण्डवयोर्वैरन्दैवयोगाद् बभूव ह ॥ ११ ॥

दुर्योधनौ जतुगृहे पाण्डवानदहत् कुधीः।
दग्धागाराद्विनिष्क्रान्ता मातृषष्ठास्तु पाण्डवाः ॥ १२ ॥

ततस्तु एकचक्रायां ब्राह्मणस्य निवेशने।
मुनिवेषाः स्थिताः सर्वे निहत्य वकराक्षसम् ॥ १३ ॥

ययुः पाञ्चालविषयं द्रौपद्यास्ते स्वयम्वरे।
सम्प्राप्ता बाहुवेधेन द्रौपदी पञ्चपाण्डवैः ॥ १४ ॥

अर्द्धराज्यं ततः प्राप्ता ज्ञाता दुर्योधनादिभिः।
गाण्डीवञ्च धनुर्दिव्यं पावकाद्रथमुत्तमम् ॥ १५ ॥

सारथिञ्चार्जुनः सङ्खये कृष्णमक्षय्यशायकान्।
ब्रह्मास्त्रार्दिस्तथा द्रोणात्सर्वे शस्त्रविशारदाः ॥ १६ ॥

कृष्णेन सोऽर्जुनो वह्निं खाण्डवे समतर्पयत्।
इन्द्रवृष्टिं वारयंश्च शरवर्षेण पाण्डवः ॥ १७ ॥

जिता दिशः पाण्डवैश्च राज्यञ्चक्रे युधिष्ठिरः।
बहुस्वर्णं राजसूयं च सेहै तं सुयोधनः ॥ १८ ॥

भ्रात्रा दुः शासनेनोक्तः कर्णेन प्राप्तभूतिना।
द्युतकार्ये शकुनिना द्यूतेन स युधिष्ठिरम् ॥ १९ ॥

अजयत्तस्य राज्यञ्च सभास्थो माययाहसत्।
अष्टाशीतिसहस्त्राणि भोजयन् पूर्ववद् द्विजान् ॥ २० ॥

वने द्वादशवर्षाणि प्रतिज्ञातानि सोऽनयत्।
अष्टाशीतिसहस्त्राणि भोजयन् पूर्ववद् द्विजान् ॥ २१ ॥

सधौम्यो द्रौपदीषष्ठस्ततः प्रायाद्विराटकम्।
कङ्को द्विजो ह्यविज्ञातो राजा भीमोथ सूपकृत् ॥ २२ ॥

बृहन्नलार्जुनो भार्या सैरिन्ध्री यमजौ तथा।
अन्यनाम्ना भीमसेनः कीचकञ्चाबधीन्निशि ॥ २३ ॥

द्रौपदीं हर्त्तुकामं तमर्जुनश्चाजयत् कुरून्।
कुर्वतो गोग्रहादींश्च तैर्ज्ञाताः पाण्डवा अथ ॥ २४ ॥

सुभद्रा कृष्णभगिनी अर्जुनात्समजीजनत्।
अभिमन्युन्ददौ तस्मै विराटश्चोत्तरां सुताम् ॥ २५ ॥

सप्ताक्षौहिणीश आसीद्धर्म्मराजो रणाय सः।
कृष्णो दूतोब्रवीद् गत्वा दुर्योधनममर्षणम् ॥ २६ ॥

एकादशक्षौहिणीशं नृपं दुर्योधनं तदा।
युधिष्ठिरायार्द्धराज्यं देहि ग्रामांश्च पञ्च वा ॥ २७ ॥

युध्यस्व वा वचः श्रुत्वा कृष्णमाह सुयोधनः।
भूसूच्यग्रं न दास्यामि योत्स्ये सङ्‌ग्रहणोद्यतः ॥ २८ ॥

विश्वरूपन्दर्शयित्वा अधृष्यं विदुरार्च्चितः ।
प्रागाद्युधिष्ठिरं प्राह योधयैनं सुयोधनम् ॥ २९ ॥

इत्यादिमहापुराणे आग्नेये आदिपर्वादिवर्णनं नाम त्रयोदशोऽध्यायः ॥