०१२

अग्निरुवाच
हरिवंशम्प्रवक्षयामि विष्णुनाभ्यम्बुजादजः ।
ब्रह्मणोत्रिस्ततः सोमः सोमाज्जातः पुरूरवाः ॥ १ ॥

तस्मादायुरभूत्तस्मान्नहुषोऽतो ययातिकः।
यदुञ्च तुर्वसुन्तस्माद्देवयानी व्यजायत ॥ २ ॥

द्रुह्यञ्चानुञ्च पूरुञ्च शर्म्मिष्ठा वार्षपर्वणी।
यदोः कुले यादवाश्च वसुदेवस्तदुत्तमः ॥ ३ ॥

भूवो भारावतारार्थं देवक्यां वसुदेवतः।
हिरण्यकशिपोः पुत्राः षड्‌गर्भा योगनिद्रया ॥ ४ ॥

विष्णुप्रयुक्तया नीता देवकीजठरं पुरा ।
अभूच्च सप्तमो गर्भो देवक्या जठराद् बलः ॥ ५ ॥

सङ्‌क्रामितोऽभूद्रोहिण्यां रौहिणेयस्ततो इरिः ।
कृष्णाष्टम्याञ्च नभसि अर्द्धरात्रे चतुर्भुजः ॥ ६ ॥

देवक्या वसुदेवेन स्तुतो बालो द्विबाहुकः ।
वसुदेवः कंसभयाद्यसोदाशयनेऽनयत् ॥ ७ ॥

यशोदावालिकां गृह्य देवकीशयनेऽनयत् ।
कंसो बालध्वनिं श्रुत्वा ताञ्चिक्षएप शिलातले ॥ ८ ॥

वारीतोपि स देवक्या मृत्युर्गर्भोष्टमो मम।
श्रुत्वाऽशरीणीं वाचं मत्तो गर्भास्तु मारिताः ॥ ९ ॥

समर्पितास्तु देवक्या विवाहसमयेरिताः।
सा क्षिप्ता बालिका कंसमाकशस्थाब्रवीदिदम् ॥ १० ॥

किं मया क्षिप्ताया कंस जातो यस्त्वां वधिष्यति।
सर्वस्वभूतो देवानां भूभारहरणाय सः ॥ ११ ॥

इत्युक्त्वा सा च सुम्भादीन् हत्वेन्द्रेण च संस्तुता।
आर्या दुर्गा वेदगर्भा अम्बिका भद्रकाल्यपि ॥ १२ ॥

भद्रा क्षोम्या क्षेमकरी नैकबाहुर्नमामि ताम्।
त्रिसन्ध्यं यः पठेन्नाम सर्वान् कामानवाप्नुयात् ॥ १३ ॥

कंसोपि पूतनादींश्च प्रैषयद् बालनाशने।
यशोदापतिनन्दाय वसुदेवेन चार्पितौ ॥ १४ ॥

रक्षणाय च संसादेर्भीतेनैव हि गोकुले।
रामकृष्णौ चेरतुस्तौ गोभिर्गोपालकैः सह ॥ १५ ॥

सर्वस्य जगतः पालौ गोपालौ तौ बभूवतुः।
कृष्णश्चोलूखले बद्धो दाम्ना व्यग्रयशोदया ॥ १६ ॥

यमलार्जुनमध्येऽगाद् भग्नौ च यमलार्जुनौ।
परिवृत्तश्च शकटः पादक्षेपात् स्तनार्थिना ॥ १७ ॥

पूतना स्तनपानेन सा हता हन्तुमुद्यता।
वृन्दावनगतः कृष्णः कालियं यमुनाह्रदात् ॥ १८ ॥

जित्वा निः सार्य चाब्धिस्थञ्चकार बलसंस्तुतः।
क्षेमं तालवनं चक्रे हत्वा धेनुकगर्द्दभम् ॥ १९ ॥

अरिष्टवृषभं हत्वा केशिनं हयरूपिणम्।
शक्रोत्सवं परित्यज्य कारितो गोत्रयज्ञकः ॥ २० ॥

पर्वतं घारयित्वा च शक्राद् वृप्टिर्निवारिता।
नमस्कृतो महेन्द्रेण गोविन्दोऽथार्जुनोर्पितः ॥ २१ ॥

इन्द्रोत्सवस्तु तुष्टेन भूयः कृष्णेन कारितः।
रथस्थो मथुराञ्चागात् कंसोक्ताक्रूरसंस्तुतः ॥ २२ ॥

गोपीभिरनुरक्ताबिः क्रीडिताभिर्निरीक्षितः।
रजकं चाप्रयच्छन्तं इत्वा वस्त्राणि चाग्रहीत् ॥ २३ ॥

सह रामेण मालाभृन्मालाकारे वरन्ददौ।
दत्तानुलेपनां कुब्जामृजुं चक्रेऽहनद् गजम् ॥ २४ ॥

मत्तं कुवलयापीडं द्वारि रङ्गं प्रविश्य च।
कंसादीनां पश्यतां च मञ्चस्थानां नियुद्धकम् ॥ २५ ॥

चक्रे चारणूरमल्लेन मुष्टिकेन बलोऽकरोत्।
चाणूरमुष्टिकौ ताभ्यां हतौ मल्लौ तथापरे ॥ २६ ॥

जरासन्धस्य ते पुत्रयौ जरासन्धस्तदीरितः।
चक्रेस मथुरारोधं यादवैर्युयुधे च कंसगे ॥ २७ ॥

रामकृष्णौ च मथुरां त्यक्त्वा गोमन्तमागतौ।
जरासन्धं विजित्याजौ पौण्ड्रकं वासुदेवकम् ॥ २९ ॥

पुरीं च द्वारकां कृत्वा न्यवसद् यादवैर्वृतः।
भौमं तु नाकं हत्वा तेनानीताश्च कन्यकाः ॥ ३० ॥

देवगन्धर्वयक्षाणां ता उवाह जनार्द्दनः।
षोडशस्त्रीसहस्त्राणि रुक्मिण्याद्यास्तथाष्ट च ॥ ३१ ॥

सत्यभामासमायुक्तो गरुडे नरकार्दनः।
मणिशैलं सन्त्यश्च इन्द्रं जित्वा हरिर्दिवि ॥ ३२ ॥

पारिजातं समानीय सत्यभामागृहेऽकरोत्।
सान्दीपनेश्च शश्त्रास्त्रं ज्ञात्वा, तद्बालकं ददौ ॥ ३३ ॥

जित्वा पञ्चजनं दैत्यं यमेन च सुपूजितः।
अवधीत् कालयवनं मुचुकुन्देन पूजितः ॥ ३४ ॥

वसुदेवं देवकीञ्च भक्तविप्रांश्च सोर्च्चयत्।
रेवत्यां बलभद्राच्च यज्ञाते निशठोन्मुकौ ॥ ३५ ॥

कृष्णात् शाम्बो जाम्बवत्यामन्यास्वन्येऽभवन् सुताः ।
प्रद्युम्नोऽभूच्च रुक्मिण्यां षष्ठेऽह्नि स हृतो बलात् ॥ ३६ ॥

शम्बरेणाम्बुधौ क्षिप्तोमत्स्योजग्राह धीवरः।
तं मत्स्यं शम्बरायादान्मायावत्यैच शम्बरः ॥ ३७ ॥

मायावती मत्स्यमध्ये दृष्ट्वा स्वं पतिमादरात्।
पपोष सा तं चोवाच रतिस्तेऽहं पतिर्मम ॥ ३८ ॥

कामस्त्वं शम्भुनानङ्गः कृतोहं शम्बरेण च।
हृता न तस्य पत्नी त्वं मायाज्ञः शम्बरं जहि ॥ ३९ ॥

तच्छ्रुत्वा शम्बरं हत्वा प्रद्युम्नः सह भार्यया।
मा यावत्या ययौ कृष्णं कृष्णो हृष्टोऽथ रुक्मिणी ॥ ४० ॥

प्रद्युम्नादनिरुद्वोभूदुषापतिरुदारधीः।
बाणो बलिसुतस्तस्य सुतोषा शोणितं पुरम् ॥ ४१ ॥

तपसा शिवपुत्रोऽभूद् मायूरध्वजपातितः।
युद्धं प्राप्स्यसि बाण त्वं बाणं तुष्टः शिवोभ्यधात् ॥ ४२ ॥

शिवेन क्रीडतीं गौरीं दृष्ट्वोषा सस्पृहा पतौ।
तामाह गौरी भर्त्ता ते निशि सुप्तेति दर्शनात् ॥ ४३ ॥

वैशाखमासद्वादश्यां पुंसो भर्त्ता भविष्यति।
गौर्य्युक्त हर्षिता चोषा गृहे सुप्ता ददर्श तम् ॥ ४४ ॥

आत्मना सङ्गतं ज्ञात्वा तत्सख्या चित्रलेखया।
लिखिताद्वै चित्रपटादनिस्द्धं समानयत् ॥ ४५ ॥

कृष्णणौत्रं द्वारकातो दुहिता बाणमन्त्रिणः।
कुम्भाण्डस्यानिरुद्धोगाद्रराम ह्युषया सह ॥ ४६ ॥

बाणध्वजस्य सम्पातै रक्षिभिः स निवेदितः।
अनिरुद्धस्य बाणेन युद्धमासीत्सुदारुणम् ॥ ४७ ॥

श्रुत्वा तु नारदात् कृष्णः प्रद्युम्नबलभद्रवान्।
गरुडस्थोथ जित्वाग्नीञ्ज्वरं माहेश्वरन्तथा ॥ ४८ ॥

हरिशङ्करयोर्युद्धं बभूवाथ शराशरि।
नन्दिविनायकस्कन्दमुखास्ताक्षर्यादिभिर्जिताः ॥ ४९ ॥

जृम्भिते शङ्करे नष्टे जृम्भणास्त्रेण विष्णुना।
छिन्नं सहस्त्रं बाहूनां रुद्रेणाभयमर्थितम् ॥ ५० ॥

विष्णुना जीवितो बाणो द्विबाहुः प्राब्रवीच्छिवम्।
त्वया यदभयं दत्तं बाणस्यास्य मया च तत् ॥ ५१ ॥

आवयोर्नास्ति भेदो वै भेदी नरकमाप्नुयात्।
शिवाद्यैः पूजितो विष्णुः सोनिरुद्ध उषादियुक् ॥ ५२ ॥

द्वारकान्तु गतो रेमे उग्रसेनादियादवैः।
अनिरुद्धात्मजो वज्रो मार्कण्डेयात्तु सर्ववित् ॥ ५३ ॥

बलभद्रः प्रलम्बघ्नो यमुनाकर्षणोऽभवत्।
द्विविदस्य कपेर्भेत्ता कौरवोन्मादनाशनः ॥ ५४ ॥

हरी रेमेनेकमूर्त्ती रुक्मिण्यादिभिरीश्वरः।
पुत्रानुत्पादयामास त्वसङ्ख्यातान् स यादवान् ॥
हरिवंशं पठेद् यः स प्राप्तकामो हरिं व्रजेत् ॥ ५५ ॥

इत्यादिमहापुराणे आग्नेये हरिवंशवर्णनं नाम द्वादशोऽध्यायः ॥