नारद उवाच
रामः पस्पासरो गत्वा शोचन् स शर्वरीं ततः।
हनूमता स सूग्नीवं मित्रञ्चकार ह ॥ १ ॥
सप्त तालन् विनिर्भिद्य शरेणैकेन पश्यतः।
पादेन दुन्दुभेः कायञ्चिक्षेप दशयोजनम् ॥ २ ॥
तद्रिपुं बालिनं हत्वा भ्रातरं वैरसारिणम्।
किष्किन्धां कपिरज्यञ्च रुमान्तारां समर्पयत् ॥ ३ ॥
ऋष्यमूकेहरीशायकिष्किन्धेशोऽब्रवीत्सच ।
सीतां त्वं प्राश्यसेयद्वत् तथा राम करोमिते ॥ ४ ॥
तछ्रुत्वा माल्यवत्पृष्ठे चातुर्मास्यं चकारसः।
किष्किन्धायाञ्च सुग्रीवो यदा नायाति दर्शनम् ॥ ५ ॥
तदाऽब्रवीत्तं रामोक्तं लक्षमणो व्रज राघवम्।
न स सङ्कुचितः पन्था येन बाली हतो गतः ॥ ६ ॥
समये तिष्ठ सुग्रीव मा बालिपथमन्वगः।
सुग्रीव आह संसक्तो गतं कालं न बुद्धवान् ॥ ७ ॥
इत्युक्त्वा स गतो रामं नत्वोवाच हरीश्वरः।
आनीता वानराः सर्वे सीतायाश्च गवेषणे ॥ ८ ॥
त्वन्मतात् प्रेषयिष्यामि विचिन्वन्तु च जानकीम् ।
पूर्वादौ मासमायान्तु मासादूर्ध्वं निहन्मि तान् ॥ ९ ॥
इत्युक्ता वानराः पूर्वपश्चमोत्तरमार्गगाः।
जग्मू रामं ससुग्रीवमपशयन्तस्तु जानकीम् ॥ १० ॥
रामाङ्गुलीयं सङ्गृह्य हनूमान् वानरैः सह।
दक्षिणे मागयामास सुप्रभाया गुहान्तिके ॥ ११ ॥
मासादूर्ध्वञ्च विन्यस्ता अपश्यन्तस्तु जानकीम्।
ऊचुर्वृथामरिष्यामो जटायुर्द्धन्य एव सः ॥ १२ ॥
सीतार्थे योऽत्यजत् प्राणान्रावणेन हतो रणे।
तच्छ्रु त्वा प्राह सम्पातिर्विहाय कपिभक्षणम् ॥ १३ ॥
भ्राताऽसौ मे जटायुर्वै मयोड्डीनोऽर्कमण्डलम्।
अर्क तापाद्रक्षितोऽगाद् दग्धपक्षोऽहमभ्रगः ॥ १४ ॥
रामवार्त्ताश्रवात् पक्षौ जातौ भूयोऽथ जानकीम्।
पश्याम्यशोकवनिकागतां लङ्कागतां किल ॥ १५ ॥
शतयोजनचविश्तीर्णे लवणाब्धौ त्रिकूटके।
ज्ञात्वा रामं ससुग्रीवं वानराः कथयन्तु वै ॥ १६ ॥
इत्यादिमहापुराणे आग्नेये रामायणे किष्किन्धाकाण्डर्णनं नाम अष्टमोऽध्यायः ॥