नारद उवाच
भरतेऽथ गते रामः पित्रादीनभ्यपूजयत्।
राजा दशरथो राममुवाच श्रृणु राघव ॥ १ ॥
गुणानुरागाद्राज्ये त्वं प्रजाभिरभिषेचितः।
मनसाऽहं प्रभाते ते यौवराज्यं ददामि च ॥ २ ॥
रात्रौ त्वं सीतया सार्धं संयतः सुव्रतो भव।
राज्ञश्च मन्त्रिणश्चाष्टौ सवसिष्ठास्तथाब्रुवन् ॥ ३ ॥
सृप्टिर्जयन्तो विजयः सिद्धार्थो राष्ट्रवर्धनः ।
अशोको धर्मपालश्च सुमन्त्रः सवसिष्ठकः ॥ ४ ॥
पित्रादिवचनं श्रुत्वा तथेत्युक्त्वा स राघवः।
स्थितो देवार्चनं कृत्वा कौशल्यायै निवेद्य तत् ॥ ५ ॥
राजोवाच वसिष्ठादीन् रामराज्याभिषेचने।
सम्भारान् सम्भवन्तु स्म इत्युक्त्वा कैकयीङ्गतः ॥ ६ ॥
अयोध्यालङ्कृति दृष्ट्वा ज्ञात्वा रामाभिषेचनम्।
भविष्यतीत्याचचक्षे कैकेयीं मन्थरा सखी ॥ ७ ॥
पादौ गृहीत्वा रामेण कर्षिता सापरधतः।
तेन वैरेण सा …… काङ्क्षती ॥ ८ ॥
कैकयि त्वं समुत्तिष्ठ रामराज्याभिषेचनम्।
मरणं तव पुत्रस्य मम ते नात्र संशयः॥९॥
कुव्जयोक्तञ्च तच्छ्रुत्वा एकमाभरणं ददौ।
उवाच मे यथा रामस्तथा मे भरतः सुतः॥१०॥
उपायन्तु न पश्यामि भरतो येन राज्यभाक्।
कैकेयीमब्रवीत् क्रुद्धा हारं त्यक्त्वाऽथ मन्थरा ॥ ११ ॥
बालिशे रक्ष भरतमात्मानं माञ्च राघवात्।
देवासुरे पुरा युद्धे शम्बरेण हताः सुराः ॥ १२ ॥
राजवंशस्तु कैकेयि भरतात् परिहास्यते।
देवासुरे पुरा युद्दे राम्बरेण हताः सुरा ॥ १३ ॥
रात्रौ भर्त्ता गतस्तत्र रक्षितो विद्यया त्वया।
वरद्वयन्तदा प्रादाद्याचेदानीं नृपञ्च तत् ॥ १४ ॥
रामस्य च वनेवासं नव वर्षाणि पञ्च च।
यौवराज्यञ्च भरते तदिदानीं प्रदास्यति ॥१५॥
प्रोत्साहिता कुव्जया सा अनर्थे चार्थदर्शिनी।
उवाच सदुपायं मे कच्चितं कारयिष्यति ॥ १६ ॥
क्रोधागारं प्रविष्टाऽय पतिता भुवि मूर्च्छिता।
द्विजादीनर्च्चयित्वाऽथ राजा दशरथस्तदा ॥ १७ ॥
ददर्श केकयीं रुष्टामुवाच कथमीदृशी।
रोगार्त्ता किं भयोद्विग्ना किमिच्छसि करोमि तत् ॥ १८ ॥
येन रामेण हि विना न जीवामि मुहूर्त्तकम्।
शपामि तेन कुर्यां वै वाञ्छितं तव सुन्दरि ॥ १९ ॥
सत्यं व्रूहीति सोवाच नृपं मह्यं ददासि चेत्।
वरद्वयं पूर्वदत्तं सत्यात् त्वं देहि मे नृप ॥ २० ॥
चतुर्द्दशसमा रामो वने वसतु संयतः।
सम्भारैरेभिरद्यैव भरतोत्राभिषेच्यताम् ॥२१॥
विषं पीत्वा मरिप्यामि दास्यसि त्वं न चेन्नृप।
तच्छ्रुत्वा मूर्च्छितो भूमौ वज्राहत इवापतत् ॥ २२ ॥
मुहूर्त्ताच्चेतनां प्राप्य कैकेयीमिदमब्रवीत्।
किं कृतं तव रामेण मय वा पापनिश्चये ॥ २३ ॥
यन्मामेवं ब्रवीषि त्वं सर्वलोकाप्रियङ्करि।
केवलं त्वत्प्रियं कृत्वा भविष्यामि सुनिन्दितः ॥ २४ ॥
या त्वं भार्या कालरात्री भरतो नेदृशः सुतः।
प्रशाधि विधवा राज्यं मृते मयि गतो सुते ॥ २५ ॥
सत्यपाशनिबद्धस्तु राममाहूय चाब्रवीत्।
कैकय्या वञ्चितो राम राज्यं कुरु निगृह्य माम् ॥ २६ ॥
त्वया वने तु वस्तव्यं कैकेयीभरतो नृपः।
पितरञ्चैव कैकेयीं नमस्कृत्य प्रदक्षिणम् ॥ २७ ॥
कृत्वा नत्वा च कौशल्यां समाश्वास्य सलक्ष्मणः।
सीतया भार्यया सार्द्ध सरथः ससुमन्त्रकः ॥ २८ ॥
दत्त्वा दानानि विप्रेभ्यो दीनानाथेभ्य एव सः।
मातृभिश्चैव विप्राद्यैः शोकार्त्तौनिर्गतः पुरात् ॥ २९ ॥
उषित्वा तमसातीरे रात्रौ पौरान् विहाय च।
प्रभाते तमपश्यन्तोऽयोध्यां ते पुनरागताः ॥ ३० ॥
रुदन् राजापि कौशल्यागृहमागात् सुदुः खितः।
पौरा जना स्त्रियः सर्वा रुरुदू राजयोपितः ॥ ३१ ॥
रामो रथस्थश्चीराढ्यः श्रृङ्गवेरपुरं ययौ।
गुहेन पूजितस्तत्र इङ्गुदीमूलमाश्रितः ॥ ३२ ॥
लक्ष्मणः स गुहो रात्रौ, चक्रतुर्ज्जागरं हि तौ।
सुमन्त्रं सरथं त्यक्त्वा प्रातर्न्नवाथ जाह्नवीम् ॥ ३३ ॥
रामलक्ष्मणसीताश्च तीर्णा आपुः प्रयागकम्।
भरद्वाजन्नमस्कृत्य चित्रकूटं गिरिं ययुः ॥ ३४ ॥
वास्तुपूजान्ततः कृत्वा स्थिता मन्दाकिनीतटे।
सीतायै दर्शयामास चित्रकूटञ्च राघवः ॥ ३५ ॥
नखैर्विदारयन्तन्तां काकन्तच्छक्षुराक्षिपत्।
ऐषिकास्त्रेण शरणं प्राप्तो देवान् विहाय सः ॥ ३६ ॥
रामे वनं गते राजा षष्ठेऽह्नि निशि चाब्रवीत्।
कौशल्यां सकथा पौर्वां यदज्ञानाद्दतः पुरा ॥ ३७ ॥
कौमारे सरयूतीरे यज्ञदत्तकुमारकः।
शब्दभेदाच्च कुम्भेन शब्दं कुर्वंश्च तत्पिता ॥ ३८ ॥
शशाप विलपन्मात्रा शोकं कृत्वा रुदन्मुहुः।
पुत्रं विना मरिष्यावस्त्वं च शोकान्मरिष्यसि ॥ ३९ ॥
पुत्रं विना स्मरन् शोकात् कौशल्ये मरणं मम ।
कथामुक्त्वाऽथ हा राममुक्त्वा राजा दिवङ्गतः ॥ ४० ॥
सुप्तं मत्वाऽथ कौशल्या सुप्ता शोकार्त्तमेव सा।
सुप्रभाते गायनाश्च सूतमागधवन्दिनः ॥ ४१ ॥
प्रबोधका बोधयन्ति न च बुध्यत्यसौ मृतः ।
कौशल्या तं मृतं ज्ञात्वा हा हतास्मीति चाब्रवीत् ॥ ४२ ॥
नरा नार्योऽथ रुरुदुरानीतो भरतस्तदा।
वशिष्ठद्यैः सशत्रुघ्नः शीघ्नं राजगृहात्पुरीम् ॥ ४३ ॥
दृष्ट्वा सशोकां कैकेयीं निन्दयामास दुः खितः।
अकीर्त्तिः पातिता मूर्ध्नि कौसल्यां स प्रशस्य च ॥ ४४ ॥
पितरन्तैलद्रोणिस्थं संस्कृत्य सरयूतटे।
वशिष्ठाद्यैर्ज्जनैरुक्तोराज्यं कुर्विति सोऽब्रवीत् ॥ ४५ ॥
व्रजामि राममानेतुं रामो राजा मतो बली
श्रृङ्गवेरं प्रयागञ्च भरद्वाजेन भोजितः ॥ ४६ ॥
नमस्कृत्य भरद्वाजं रामं लक्ष्मणमागतः।
पिता स्वर्गं गतो राम अयोध्यायां नृपो भव ॥ ४७ ॥
अहं वनं प्रयास्यामि त्वदादेशप्रतीक्षकः।
रामः श्रुत्वा जलं दत्त्वा गृहीत्वा पादुके व्रज ॥ ४८ ॥
राज्यायाहं न यास्यामि सत्याच्चीरजटाधरः।
रामोक्तो भरतश्चायान्नन्दिग्रामे स्थितो बली
त्यक्त्वाऽयोध्यां पादुके ते पूज्य राज्यमपालयत् ॥ ४९ ॥
इत्यादिमहापुराणे आग्नेये रामायणेऽयोध्याकाण्डवर्णनं नाम षष्ठोऽध्यायः ॥