००१

श्रियंसरस्वतिं गौरीं गणेशं स्कन्दमीश्वरम् ।
ब्रह्माणं वह्निमिन्द्रादीन्वासुदेवं नमाम्यहम् ॥ १ ॥

नैमिषे हरिमीजाना ऋषयः शौनकादयः ।
तीर्थयात्राप्रसङ्गेन स्वागतं सूतमब्रुवन् ॥ २ ॥

ऋषय ऊचुः
सूत त्वं पूजितोऽस्माभिः सारात्सारं वदस्व नः ।
येन विज्ञानमात्रेणसर्व्वज्ञैत्वं प्रजायते ॥ ३ ॥

सूत उवाच
सा?रात्सारो हि भगवान् विष्णुः सर्गादिकृद्विभुः ।
ब्रह्माहमस्मि तं ज्ञात्वा सर्व्वज्ञात्वं प्रजायते ॥ ४ ॥

द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत्।
द्वे विद्येवेदितव्ये हि इति चाथर्वणी श्रुतिः ॥ ५ ॥

अहं शुक्रश्च पैलाद्या गत्वा वदरिकाश्रमम् ।
व्यासं नत्वा पृष्टवन्तः सोऽस्मान् सारमथाब्रवीत् ॥ ६ ॥

व्यास उवाच
शुकाद्यैः श्रृणु सूत त्वं वशिष्ठो मां यथाऽब्रवीत्।
ब्रह्मसारं हि पृच्छन्तं मुनिभिश्च परात्परम् ॥ ७ ॥

वसिष्ठ उवाच
द्वैविध्यं ब्रह्मा वक्ष्यामि श्रृणु व्यासाखिलानुगम्।
यथाऽग्निर्मां पुरा प्राह मुनिभिर्दैवतैः सह ॥ ८ ॥

पुराणं परमाग्नेयं ब्रह्मविद्याक्षरं परम् ।
ऋग्वेदाद्यपरं ब्रह्म सर्वदेवसुखावहम् ॥ ९ ॥

अग्निनोक्तं पुराणं यदाग्नेयं ब्रह्मसम्मितम्
भुक्तिमुक्तिप्रदं दिव्यं पठतां श्रृण्वतां नृणाम् ॥ ११॥

वसिष्ठ उवाच
संसारसागरोत्तारनावं ब्रह्मेश्वरं वेद।
विद्यासारं यद्विदित्वासर्वज्ञो जायतेनरः ॥ १२ ॥

अग्निरुवाच
विष्णुः कालाग्निरुद्रोऽहंविद्यासारं वदामि ते।
विद्यासारं पुराणंयत्सर्वं सर्वस्य कारणम् ॥ १३ ॥

सर्गस्य प्रतिसर्गस्य वंशमन्वन्तरस्य च।
वंशानुचरितादेश्च, मत्स्यकूर्म्मादिरूपधृक् ॥ १४ ॥

द्वे विद्ये भगवान् विष्णुः परा चैवापरा च ह।
ऋग्यजुः सामाथर्वाख्या वेदाङ्गानि च पड् द्विज॥ १५ ॥

शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिपाङ्गतिः।
छन्दोऽभिधानम्मीमांसा धर्म्मशास्त्रं पुराणकम् ॥ १६ ॥

न्यायवैद्यकगान्धर्वं धनुर्वेदोऽर्थशास्त्रकम्।
अपरेयं परा विद्या यया ब्रह्माभिगम्यते॥ १७ ॥

यत्तददृश्ययमग्राह्यमगोत्रचरणं ध्रुवम्।
विष्णुनोक्तं यथा मह्यं देवेभ्यो ब्रह्मणा पुरा ॥ १८ ॥

तथा ते कथयिष्यामि हेतुं मत्स्यादिरूपिणम् ॥ १९ ॥

इत्यदिमहापुराणे आग्नेये प्रश्नो नाम प्रथमोध्यायः ॥ २० ॥