Pyramid layers
There is a pyramid structure here. At the base, people get mass-propaganda. Of those, some are interested in serious dedication (at the level of practice). Of those go for rigorous studies. Of those, some get to shAstrArtha / authorship capacity.
VRI-type initiatives address the top layers- but the bottom portion/ foundation, which feeds the higher layers, is shaky.
वैदुष्य-रक्षा
यत्र विदुषाम् अधिकं गमनागमनं भवति,
यत्र च ग्रन्थास् सुलभास् (“कोशवान् पण्डितः”),
तत्र स्थिरतरा दृश्यते वैदुष्य-परम्परा -
यथा कर्णाटेषु यदुगिरौ, शृङ्गगिरौ, महिष-पुरे; द्राविडेषु काञ्चीपुरे, श्रीरङ्गे च।
यदि कस्यचन वंशस्य कुग्रामे वासः,
यदि विद्वत्-केन्द्रं प्रति विद्याद्य्-अर्था यात्रा सुकरा,
तर्हि रक्ष्येत विद्वत्ता,
न चेन् न (विश्वास-कुले कडबादि-ग्रामस्थे यथा)।
ज्ञान-नाशय् आचार-नाशो मा चिरम् अनुसरति।
माध्वेषु
उत्तरादिमठे पेजावरमठे राघवेन्द्रस्वामिमठे च न्यायसुधा-परीक्षां यय् उत्तरन्ति, तेभ्यः ~४ लक्षान् ददति (२०२५)। (तथापि प्रायेण न विप्रा दरिद्रा इति कारणेन, कीर्तिः प्रेरयतितराम्। )
एषु परस्पर-स्मर्धा भवति - “अस्माभिर् अधिकास् सुधापण्डितास् सृज्यन्त” इति, येन पोषकास् स्वपुत्रान् एकत्रान्यत्र वा प्रेषयितुं प्रभाविताः।
किञ्चानया स्पर्धया कदाचित् परीक्षायां शैथिल्यम् भवति । छात्रेष्व् अपि छलम् भवति - साधरणतो ये भागास् सर्वत्र पृच्छ्यन्ते, तान् एवाधीत्योत्तरन्तीति।
तद् वारयितुम् अद्यत्वे पेजावरमठेन “प्रतिपृष्ठम् परीक्षामहय्” इति सांवत्सरिकं दीर्घं परीक्ष्यते (न्यायसुधायां ४००० पृष्ठानि भवन्ति)।
एवं न्यायामृतस्यापि (न्यायसुधापेक्ष्या लघुतरस्य) परीक्षा भवति।
ये बहु योग्याः, तेषां शिक्षणार्थं मठाधिपतिस् स्ववेतनभृत्यान् (३०००० मासिकं २०२५ वर्षे) विदुषो नियुङ्क्ते,
ये दूरवाण्या छात्र-प्रस्तुतिं श्रुत्वा यथापेक्षं परिष्कुर्वन्ति, यत्रक्वचित् पौरोहित्यादि कुर्वन्तो ऽपि।
शाङ्करेषु
तॆनाली-परीक्षायां १४ शास्त्र-ग्रन्थाः शिक्ष्यन्ते परीक्ष्यन्ते च।
तत्-पृष्ठतः शृङ्गेरी-शारदा-मठो वर्तते, तद्-धनिक-भक्ताश् च।
परीक्षा-पारङ्गतेभ्यः प्रतिमासम् इयद् इति वेतनम् अपि ददति कानिचिद् वर्षाणि यावत्।
श्रीवैष्णवेषु
प्राचीना स्थितिः
ग्रन्थ-चतुष्टयाभ्यासस् सद्-विप्रेषु साधु प्रोत्साहितः।
बालाभ्यः, अन्यत्र च द्विय-प्रबन्ध–देशिक-स्तोत्राद्य्-अभ्यासः।
पुं-शिक्षा-क्रमः
शैशवे स्तोत्र-कोशादि-पाठः।
ततो वेदाध्ययनम्, दिव्य-प्रबन्ध–देशिक-प्रबन्ध-कण्ठस्थीकरणम्, काव्य-पाठः।
ततः सामान्य-शास्त्राणि (न्यायः, व्याकरणम्, मीमांसा) - विशिष्यैकतमे परिश्रमः, काव्य-शिरोमणि-पदवी वा; तत्-समाना-व्युत्पत्तिर् वा।
ततो युगपद् वा रहस्य-त्रय-सारः, भगवद्-विषयाख्य-प्रबन्ध-व्याख्यानम्।
ततो वेदान्तः - श्रीभाष्यम्, गीता-भाष्यम्।
भाष्य-विषयकेषु वाक्यार्थ-सदस्सु संस्कृतेनैव व्यवहारः।
कुग्रामादिवासतस् संस्कृत-व्यवहारे सत्य् एव द्राविडी तत्र।
तादृशानां सङ्ख्या ऽत्यल्पैव।
१९८०-तः सा सङ्ख्या वृद्ध्वा वृद्ध्वा २०२५ वर्षे भूयिष्ठैव जाता।
२०२५-वर्षे स्थितिः
- श्रीवैष्णवेषु ५-७ वैव पण्डितास् सन्ति । बहूनां ग्रन्थानाम् अध्ययनपरम्परा नष्टा। वादिनो नोपलभ्यन्त इत्य् उपहसन्ति परे।
- अहोबिल-मठेन मालोल-विद्वत्-सभा प्रतिवर्षम् आयोज्यते, २०२४ वर्षात् प्रतिमासम् अपि चॆन्नै-समीपे सॆळयूर्-नगरे आयोजितम्। किञ्च, मठाधिपतिभिश् शिक्षणे परीक्षायां चान्यतुल्य-प्रयासो न कृतः।
Mass propaganda
shrIvaiShNavas
- https://pracharam.in/ - An admirable tenkalai campaign.
(Properly, this should be the job of pravachana-kAra-s and maTha-consolidation events.)
2025 shAnkara surge
There’s been a recent big upsurge in shAnkara consolidation / education outreach (especially exacerbated by inter-maTha competition among them, involving young yatis). This is worthy of emulation by other mata-s.
Some examples -
- 22nd & 23rd March at Sringeri: An opportunity to learn the concise yet profound text Shatashloki, which covers the fundamental principles of Vedanta from some of the most learned scholars. Registration Link: https://tinyurl.com/sringeri
- 5th & 6th April at Sringeri: Parallel programs for adults and kids. “Give your children a foundation in Dharma and nurture their spiritual growth through Samskara Sudha. Registration Link: https://tinyurl.com/SringeriVS"
- TW इत्य् आधुनिक-शाङ्कराणां कश्चन प्रयासः। नित्यं १०० राम-शिवयोर् नामनी लिखित्वा समर्पणीयानीति। (मायावादो न तावज्जनमनोग्राहक इति हरिहराभेदं तस्मिन्न् आरोप्य प्रचरन्त्य् अर्वाचीनास् तेषु।)
- बालेभ्यः, बालिकाभ्यश् च विशिष्य शाङ्कर-श्लोकाभ्यास “दीक्षा”।
- बालिकाभ्य उपनयनवन् मन्त्रोपदेश-दीक्षा-प्रस्तावः।
- Dress up children as Shankaracharya on Shankara Jayanthi, make them recite stotras attributed to shankara and participate in the celebrations at Sringeri for shankara-jayantI.
Updation
माध्वेषु
Around 2023, the mAdhva-s conducted a seminar - speakers being Physics & CS professors (some also educated in shAstra - including advaita vedAnta) - to dismiss the notion that “Quantum theory implies advaita” which was going around at that time eg YT. Quite good too (in content, Q&A, attendence)! Can’t even imagine SV-s doing that (and that too at short notice.)
That said, some mAdhva-s (even IISc prof types) are flat-earthers/ finding it very hard to accept basic astronomical facts in the face of “shAstra”. (Of course, this gets a relatively simple solution “अप्राप्ते तु शास्त्रम् अर्थवत्” per rAmAnuja and even generic mImAMsa - still because of their extreme deification of vyAsa they get bigger cognitive dissonance)