तीव्रता
ज्वरः प्राणान्तकृद् यश्च
शीघ्रमिन्द्रियनाशनः।
सप्ताहाद् वा दशाहाद् वा
द्वादशाहात् तथैव च॥
सप्रलाप-भ्रम-श्वासस्
तीक्ष्णो हन्याज् ज्वरो नरम्।
ज्वरः क्षीणस्य शूनस्य
गम्भीरो दैर्घरात्रिकः॥(चरकः)
चिकित्साक्रमः
तस्यां तस्याम् अवस्थायां
ज्वरितानां विचक्षणः।
ज्वर-क्रियाक्रमापेक्षी
कुर्यात् तत् तच् चिकित्सितम्।(चरकः)
आचारः
नवज्वरे दिवास्वप्न-
स्नानाऽभ्यङ्गाऽन्न-मैथुनम्।
क्रोध-प्रवात-व्यायामान्
कषायांश्च विवर्जयेत्।।(चरकः)
लङ्घनं स्वेदनं कालो
यवाग्वस् तिक्तको रसः।
पाचनान्य् अविपक्वानां
दोषाणां तरुणे ज्वरे।
तृष्यते सलिलं चोष्णं
दद्याद् वात-कफ-ज्वरे॥(चरकः)
लङ्घनेन क्षयं नीते
दोषे, सन्धुक्षिते ऽनले।
विज्वरत्वं लघुत्वं च
क्षुच् चैवास्योपजायते।
प्राणाविरोधिना चैनं
लङ्घनेनोपपादयेत्॥
औषधिः
निहन्ति तुलसीक्वाथः
पादांश-मरिचान्वितः।
शीत-ज्वरारि नामायम्
अखिलान् विषमज्वरान्।।(परमार्थयोगसंग्रहः)