पारशवदेशे इदानीं जरथुष्ट्राणां तादृश एव व्यवहारः। समानवंशगतश्रद्धा महामदेषु। कथञ्चित् आवयोः धर्मः अपि मिश्रितः इति ऊहापोहः।
हाफ़िज़
तत्र प्रत्येकस्मिन् अग्न्यागारे हाफ़िज़ इत्यस्य सङ्कलनं रक्ष्यते 😄।
शंसुद्दीन मुहम्मद नामा “हाफ़िज़” इति कथ्यते यतः सः क़ुरानं कण्ठस्थीचकार। स्वकाव्ये एकत्र स वदति यद् अग्निं पुरातनं स वक्षसि धरतीति। तस्माद् एषां जरथुष्ट्राणां मनो मोदते, रोमाणि हृष्यन्ति, भ्रातृभावः कल्लोलायते, बुद्धिश्च नश्यति।
हिन्दुक-द्वेषः
‘agar ‘ān Tork-e Šīrāzī * be dast ārad del-ē mā-rā
be khāl-ē Hendu-yaš baxšam * Samarqand ō Boxārā-rāIf that Shirazi Turk accepts my heart in their hand,
for their Indian mole I will give Samarkand and Bukhara.
मध्यकालीनपारस्यां हिन्दू/हिन्दीति निगर-शब्दवत् उपयुज्यते स्म। तत्र अर्थान्तर आसीत् कृष्णवर्णीयः। पारसीकाः श्वेतान् मरून्मत्ताँस् तुरुष्कान् राज्ञः श्यामाँश्च देवपरान् (दीवाना इति) हिन्दून् दासान् युगलत्वेन परशंसयन्ति, निन्दन्ति च स्म। अत्र तुरुष्कबालस्य धवलकपोले कृष्णतिलं प्रशंसयति सः।