+वेङ्कटनाथ-वेदान्त-देशिकः

वेदान्तदेशिकः, निगमान्त-महादेशिकः Known as कवितार्किकसिंह, this lion of poetry & logic was one of the greatest post-रामानुज आचार्य of the विशिष्टाद्वैतवेदान्त-श्रीवैष्णव-सम्प्रदाय; his genius manifesting in both संस्कृत & tamizh.

देशिकप्रबन्धाः

देशिक-प्रबन्धा नाम वेङ्कटनाथार्य-रचिताः केचित् प्रबन्धाः।
ते ३२ इति केचित्, ३० इत्य् अन्ये।

रहस्य-त्रय-सारे वर्तमाना द्राविडश्लोका अप्य् अत्र अधिकार-सङ्ग्रह इति नाम्ना सङ्गृहीताः।
एवं लघुरहस्य-ग्रन्थयोः अमृतास्वादिनी–अमृत-रञ्जन्योः समान-नामभ्यां सङ्ग्रहो वर्ततय् अत्र।
एवं हि हस्ति-गिरि-माहात्म्यस्य, परमत-भङ्गस्यापि।

अपवादाः

स्वामिदेशिकावतारस्थलस्य नाम तूप्पुल् इति । केचन तदप्रामाणिकमिति।
तूप्पुल् तोन्रुम् वेदान्तगुरु इति पद्यमस्तीति प्रदर्श्यते चेत्
सः प्रबन्धः प्रक्षिप्त इति।
“देशिकः द्राविडभाषाविमुखः। तेन द्राविडपद्यं न रचितम्” इति।
सप्ततिरत्नमालिका,वैभवप्रकाशिका, प्रबन्धसारगाथा … प्रक्षेपा इति।
“अत एव तदनुयायिनः वडकलाजना द्राविडपद्यविमुखा वडकलेति प्रथिताः” इति।
एवं कन्थाशतग्रन्थिलवादाः।

तावत्-प्रामाण्य-वैमुख्यं तथा-कथित-भाष्य-काराभिमानिषु न शोभते।
स्ववचनविरोधं न जानन्ति ते।यतिराजोपि वडकलायामन्तर्भूतः स्यात्-
तस्य द्राविडे पद्यरचनावैमुख्यात् (यद्य् अपि तनियन्-पद्यानि कानिचिद् रचितानीति श्रूयते)।