शठारि-शिष्यः
आचार्यं शठकोप-देशिकम् अथ प्राचार्य-पारम्परीम् …
श्रावंश्रावं शठारेः शमदमवपुषः फुल्लवक्रारविन्दाद् … गोविन्दार्यः सुधीशः कुशिककुलमणिर्…
अस्माकं निधिर् अक्षयो विजयते श्रीमान् शठारिर् गुरुः …
वात्स्य-श्रीशठकोप-देशिक-वर-श्रीपादरेण्वञ्जनैः … आचार्यं शठकोपदेशिकवरं प्राचार्यपारंपरीम्…
अतः षष्ठपराङ्कुशस्वामिनः (6th AS of Ahobila Mutt) शिष्य इत्य् अनुमान्ति।
एकनमस्कारत-परम्परा
रामायणव्याख्याता गोविन्दराजस् तॆङ्कलः, तदा द्विः प्रदक्षिणं कुर्वन्ति स्म तय् इति लिखति।
आमन्त्रयितुम् आरेभे
चरणाव् उपगृह्य च ।
ततः प्रदक्षिणं कृत्वा
भरद्वाजं पुनः पुनः [[vii]]इत्य् अत्र
प्रदक्षिण-विशेषणेन
प्रणामस् तु सकृद् एवइत्य् उक्तं भवतीत्य् आचार्याः
इति स्व-सम्प्रदायं प्रथमं प्रदर्शितवन्तः श्री-गोविन्द-राजार्याः …
इति तदीयम् आचार-सम्प्रदायं तॆङ्कलत्वेनाभिजानाति ति. ई. वीर-राघवाचार्यः सम्प्रदाय-प्रदीप-भूमिकायाम्।
तथा सत्य् अपि नाहोबिलमठशिष्यत्वे विरोधः -
करुणाकरार्यशिष्य-वेङ्कटेशवत् स्यात्।
जातौ भ्रमः
लोकाचार्यानुगवद् वदति खलु गोविन्दराजः -
मैवम्, तस्यात्यन्तभक्तत्वेन जातेरपगमात् ।
“न शूद्रा भगवद्भक्ता
विप्रा भागवताः स्मृताः ।
सर्ववर्णेषु ते शूद्रा ये
ह्यभक्ता जनार्दने ॥”इत्युक्तेः।
न चेदं वचनम् “अपशवो वा अन्ये गोऽश्वेभ्यः” इतिवत् प्रशंसापरमिति वक्तुं शक्यम्, बाधकाभावात्।
ब्राह्मणत्वादिजातिर्हि शास्त्रैकसमधिगम्या न तु गोत्वादिवदाकृतिगम्या, येन तत्-तुल्यत्वम् आशङ्क्येत।
अत एव विश्वामित्रस्यापि क्षत्ित्रयत्वजातिरपनीता
उपनीता च ब्राह्मणत्वजातिर्
इत्युपपादितं बालकाण्डे। अयम् अर्थ उपपादयिष्यते च श्रमणीवृत्तान्ते।
इदं च द्रौपदीविवाहादिवद् ऐतिहासिक-विलक्षण-व्यक्ति-विशेषनियतम् इति च
नातिप्रसङ्गावकाशः ॥ 3.68.36 ॥
व्याख्या-विशेषाः
प्रमाण-क्रमे निष्णातः।