रामायण-गोविन्दराजः

अहोबिलमठशिष्यः

आचार्यं शठकोप-देशिकम् अथ प्राचार्य-पारम्परीम्

इत्य् आरभते। अतः षष्ठपराङ्कुशस्वामिनः (6th AS of Ahobila Mutt) शिष्य इत्य् अनुमान्ति।

एकनमस्कारत-परम्परा

रामायणव्याख्याता गोविन्दराजस् तॆङ्कलः, तदा द्विः प्रदक्षिणं कुर्वन्ति स्म तय् इति लिखति।

आमन्त्रयितुम् आरेभे
चरणाव् उपगृह्य च ।
ततः प्रदक्षिणं कृत्वा
भरद्वाजं पुनः पुनः [[vii]]

इत्य् अत्र

प्रदक्षिण-विशेषणेन
प्रणामस् तु सकृद् एव

इत्य् उक्तं भवतीत्य् आचार्याः

इति स्व-सम्प्रदायं प्रथमं प्रदर्शितवन्तः श्री-गोविन्द-राजार्याः …

इति तदीयम् आचार-सम्प्रदायं तॆङ्कलत्वेनाभिजानाति ति. ई. वीर-राघवाचार्यः सम्प्रदाय-प्रदीप-भूमिकायाम्।
तथा सत्य् अपि नाहोबिलमठशिष्यत्वे विरोधः -
करुणाकरार्यशिष्य-वेङ्कटेशवत् स्यात्।

व्याख्या-विशेषाः

प्रमाण-क्रमे निष्णातः।