मुख्योल्लेखाः
अयम् एव क्रमो विस्तरेणोक्तस्
तद्-गुरुभिर् वङ्गिवंशेश्वरैः ।
… भाष्यकाराव्यवहित-शिष्यैर् वङ्गि-वंशेश्वरैः
श्री-रङ्ग-नारायणाचार्यैर् ब्राह्म-मुहूर्त-प्रभृति-दिनचर्यां
प्रपञ्चयद्भिर्
इति पाञ्चरात्र-रक्षायाम्।
श्रीसूक्त-भाष्यत्तिले पॆरिय-जीयरुम्
अपेक्षितार्थङ्गळ् ऎल्लाम् उपपादित्तार्। … पॆरिय जीयरुम् ‘‘श्रीपराशरभट्टार्यचरणौ संश्रयेमही’’(पॆरिय-जीयर्-नित्य-ग्रन्थः) त्यादियाले संप्रदायविशेषज्ञापनार्थमाग गुरु-नमस्कारादिगळैप् पण्णि ‘‘भगवच्चरणाम्भोज परिचर्याविधिक्रमम् । एकान्तिभिरनुष्ठेयं नित्यं समभिदध्महे’’(पॆरिय-जीयर्-नित्य-ग्रन्थः) ऎऩ्ऱु तुडङ्गि ‘‘आपो हीत्यादिभिर्मन्त्रैर्वाचकैः परमात्मनः । संप्रोक्ष्य मन्त्राचमनम्मन्त्रैस्तत्प्रतिपादकैः ॥ आदित्यान्तस्स्थितस्यार्घ्यं वितीर्य परमात्मनः । प्रतिपादिकया विष्णोस्सावित्र्या तं जपेद्धरिम् ॥ ध्यायन् जप्त्वोपतिष्ठेत तमेव पुरुषोत्तमम् । नारायणात्मकान् देवानृषीन् सन्तर्पयेत्पितॄन्’’ ऎऩ्ऱरुळिच्चॆय्दार्।
इति रहस्यत्रयसारे।
एवम् अयं द्वयोर् अपि शिष्यो भाति।
न नञ्जीयर्
अन्यत्र पॆरिय-जीयर् इत्य् उक्त्वा, एकत्रैव रहस्यत्रयसारे -
उडैयवररुळिच् चॆय्द वार्त्तैयै आच्चाऩ्बक्कलिले केट्टु नञ्जीयर् संग्रहित्तार्।
इति वचनेन तयोर् भेदो ज्ञायते। अपि त्व् अयं तत्-सतीर्थः।
नामन्तरम्
‘श्रीरङ्गनाथमुनिविरचितम्’ इति अन्ते दृश्यमानवाक्ये
‘रङ्गनाथमुनिः ’ इति श्रूयमाणं नामधेयम् अप्य् अदसीयमेव संभाव्यते ;
तेषां गुरुपरम्परा-वैभवादिषु नामान्तराप्रसिद्धेः ।
यद्यपि श्रीपाञ्चरात्ररक्षादिपरामर्शे प्रकृतानामाचार्याणां नारायणमुनय इति नाम प्रतिभाति,
तथापि भट्ट-पाद-चरणारविन्द-संश्रयणात् पूर्वम् एव
संन्यास-दशायां तत् स्वयमेव स्वीकृतं,
संन्यासाश्रम-दातृभिर् दत्तं वा नाम स्यात् ।+++(5)+++
आचार्यसमाश्रयणदशायां नाम-संस्कारे भट्टपादैर् इदं दत्तं स्यात् ।