जन्मवृत्तान्तः
प्रकृतग्रन्थकर्तुः नाम भवति श्रीकृष्णताताचार्याः इति ।
सकल-कला-निवास-भासुरे श्रीकाञ्चीदिव्यक्षेत्रे श्रीहस्तिशिखरावास-रसिकस्य
परम-पुरुषस्य श्रीमन्-नारायणस्य देवाधिराजाभिख्यस्य चरणनलिने
श्रीमन्-नाथ-यामुन–श्री-शैल-पूर्ण–कुरुकेश्वर–पञ्च-मत-भञ्जन-ताताचार्य–
लक्ष्मी-कुमार-तात-देशिक–प्रमुख-प्रसिद्ध-वेदान्त-स्थापक-परमाचार्याणां अवतार-प्रभावात्
अत एव हेतोः निखिल-सद्-वंशावतंस-भूते श्री-शैल-वंशे
स-कल–साधु-जन-सौभाग्य-परिपाकेन संपादिता या द्विपाद्रि-नाथस्य कृपा
तद्-विपाकेन कलि-युगे ४९२५ स्व-भानु-वर्षे (A.D. 1823) तुला-मासे आश्लेषा-नक्षत्र-युक्त-धनुर्-लग्ने
कोटि-कन्यका-दान-श्री-लक्ष्मी-कुमार-तात-देशिकस्य तृतीय-पुत्रस्य श्री-निवास-ताताचार्यस्य सन्ततौ उत्पन्नानां
श्री-देशिक-ताताचार्यापर-नाम्नां श्री-वेंकट-ताताचार्याणां सीमन्त-पुत्रत्वेन अवतीर्णाः इमे आचार्याः ।
[[29]]
[[40]]
एतेषां वंशवृक्षः अध्यायान्ते प्रदर्शयिष्यते ।
विद्याभ्यासवृत्तान्तः
शास्त्रविहितकाले पित्रा उपनीताः इमे आचार्याः स्वज्येष्ठपितृसन्निधौ पञ्चसंस्कारेण संस्कृताः अभवन् । ततः परं व्रतविशेषनियमैः सह पितृनिकटे वेदाध्ययनं प्रारेभिरे । द्वादशवयोऽभ्यन्तरे एव क्रमान्तवेदाध्ययनं पूर्णत्वं अगात् । वेदाध्ययनकाले एव नाटककाव्यादीनामपि अध्ययनं अभूत् । अवधानेऽपि अत्यन्तनिपुणत्वं प्राप्य त्रयोदशे वयसि शास्त्राभ्यासार्थं काश्यां नवद्वीपभट्टाचार्याणां सन्निधौ तर्कशास्त्राध्ययनं कृतवन्तः । ततः परं प्रसिद्धवावदूकानां काञ्चीनिवासिनां यथोक्तकारिस्वामिसन्निधिवीथिनिवासिनां श्रीमतां उभयवेदान्ताचार्याणां दिवाप्रदीपं वेंकटाचार्याणां सन्निधौ पञ्चवर्षकालं तर्कशास्त्रम् अयास्थन्। ततः परं तिरुक्कुडन्दै गोपालदेशिकस्वामिनां सम्प्रदायपरम्परायां समागतानां श्रीनिवाससंयमि- सार्वभौमानां निकटे संवत्सरत्रयम् उषित्वा व्रतविशेषनियमैः गुरुपरिचर्यापुरस्सरं श्रीभाष्यादिवेदान्तग्रन्थान् अध्यगुः । स्वशिष्यप्रतिभया सन्तुष्टाः श्रीश्रीनिवाससंयमि-सार्वभौमाः स्वशिष्यं श्रीकृष्णताताचार्यं “विद्वन्मणिः” इति बिरुदेन समलमकार्षुः । ततः परं व्याकरणशास्त्रं कन्दाडै श्रीरङ्गाचार्याणां सविधे अगृह्णन् । एवं द्रमिडवेदाध्ययनं ओरत्ति वरदाचार्याणां सन्निधौ अभूत् । एवं च विंशतिवयोऽभ्यन्तरे एव सकलविद्यावेदिनः संजाताः इमे आचार्याः । सर्वापि विद्या स्वप्रीतिकरं पात्रं लब्धं इति मत्वा तत्पात्रं श्रीकृष्णताताचार्यं अत्यन्तं प्रीत्या पोषितवती । एते आचार्याः पठनसमये एव गुरोः प्रीतिभाजः सञ्जाताः । तद्वशादेव तेषां अनुग्रहमुपलक्ष्य
[[30]]
[[41]]
सहपाठिनां चिन्तनं कनिष्ठच्छात्राणां पाठनं च अकुर्वन् । एतेषां पाठनशैलीं कठिनतरपङ्क्तीनां नव्यन्यायशैल्या कृतान् अतिरमणीयतरान् परिष्कारान् च दृष्ट्वा सर्वेऽपि आचार्याः आश्चर्यचकिताः अभूवन् । योग्यपात्रे एव स्वीयविद्या सञ्जाता इति कृतकृत्याश्च अभूवन् ।
एतेषां आचार्याणां नामानि -
- i) ब्रह्मोपदेशः - श्रीवेङ्कटताताचार्याः (पिता)
- ii) वेदाध्ययनम् - श्रीवेङ्कटताताचार्याः (पिता)
- iii) पञ्चसंस्कारः - श्रीगोपालताताचार्याः (ज्येष्ठपिता)
- iv) काव्यम् - श्रीवेङ्कटताताचार्याः (पिता)
- v) न्यायशास्त्रम् - नवद्वीपभट्टाचार्याः
- vi) न्यायशास्त्रोद्ग्रन्थाः - दिवाप्रदीपं वेङ्कटाचार्याः
- vii) श्रीभाष्यादिग्रन्थचतुष्टयम् - श्रीश्रीनिवाससंयमिनः
- viii) द्रमिडभाषाव्याकरणम् - ओरत्ति वरदाचार्याः
- ix) मीमांसाशास्त्रम् - नल्लान् चक्रवर्ति शिरोमणिस्वामिनः
- x) व्याकरणशास्त्रम् - कन्दाडै. श्रीरङ्गाचार्यः
भगवत्कैकंर्यम्
एवं विंशतिवर्षाभ्यन्तरे सकलशास्त्रनिष्णातत्वेऽपि स्वकुलप्रसादलब्धभगवतः श्रीदेवाधिराजस्य कैकंर्येऽपि अत्यन्तं रुचिः आसीत् एतेषाम् । अतः स्वामिनां उत्सवसमये वेदपारायणकैकंर्यम् । एवं कुलक्रमागतः यः श्रीदेवाधिराजस्वामिसन्निधिश्रीकार्यनिर्वाहः तमपि सम्यक् ऊढ्वा आत्मत्वेन परिगण्यमानानां सर्वतन्त्रस्वतन्त्रोभयवेदान्ताचार्याणां कवितार्किकसिंहानां
[[31]]
[[42]]
श्रीवेदान्तदेशिकानां अवतारक्षेत्रे तूप्पुल् दिव्यक्षेत्रे विरुद्धसाम्प्रदायिकानां दुष्टाचारनिग्रहपुरस्सरं तत्सन्निधिपुनर्निर्माणं च अकुर्वन् । एवं तत्र स्थगितानाम् आचार्याराधनोत्सवादीनां च पुनरारम्भव्यवस्थां चक्रुः । एवं वृद्धवयसि काञ्च्यामेव श्रीरङ्गराजवीथ्याम् आचार्यसार्वभौमानां श्रीवेदान्तदेशिकानाम् एकं मन्दिरं निर्माय तत्र स्ववासार्थं आश्रमञ्च निर्मितवन्तः । ग्रन्थनिर्माणम् - पाठप्रवचनवेलायामेव ग्रन्थनिर्माणमपि आरब्धम् । एते षष्ट्यधिकग्रन्थान् निर्मितवन्तः। अत एव एतेषां षष्टिप्रबन्धनिर्माता इति नामापि लोके श्रूयते । तत्र न्यायशास्त्रे एव अधिकग्रन्थाः सन्ति । इदानीं एभिः कृताः ग्रन्थाः निरूप्यन्ते क्रमेण ।
ग्रन्थाः
न्यायशास्त्रप्रबन्धाः
-
i) प्रतिबन्धकत्वविचारः - मुद्रितः
-
ii) प्रमात्वचिह्नविवृतिः - अमुद्रितः
-
iii) कुवलयोल्लासः - अमुद्रितः
-
iv) “अथ हेत्वाभासाः” इतिवाक्यविचारः - अमुद्रितः
-
v) सर्वांशे प्रमात्वविचारः - अमुद्रितः
-
vi) यद्रूपविचारः - अमुद्रितः
-
vii) अवच्छेदकतासरः - मुद्रितः
-
viii) वादकल्पकः - मुद्रितः
-
ix) विशिष्टद्वयाघटितत्वपत्रम् - अमुद्रितम्
-
x) न च विचारः - अमुद्रितः
-
[[43]]
-
xi) एतेनेत्यादिकल्पद्वयविचारः - अमुद्रितः
-
xii) विशेषणत्रयवैयर्थ्यविचारः - अमुद्रितः
-
xiii) अत्र वदन्ति कल्पविचारः - अमुद्रितः
-
xiv) स्वलक्षणद्वयविचारः - अमुद्रितः
-
xv) सिद्धान्तलक्षणोपाधिविचारः - अमुद्रितः
-
xvi) संशयपक्षता - अमुद्रिता
-
xvii) पञ्चमविषयताविचारः - अमुद्रितः
-
xviii) पञ्चभूतार्थविचारः - अमुद्रितः
-
xix) नित्यानित्यदोषसाधारणहेत्वाभासलक्षणविचारः - अमुद्रितः
-
xx) शतकोटिखण्डनम् - मुद्रितम्
-
xxi) शतकोटिमण्डनमुण्डनम् - अमुद्रितम्
-
xxii) वावदूककुतूहलम् - प्रकृतग्रन्थः
-
xxiii) सत्प्रतिपक्षविचारः - मुद्रितः
-
xxiv) बाधविचारः - अमुद्रितः
-
xxv) राजपुरुषवादः - अमुद्रितः
-
xxvi) जातिशक्तिवादः - अमुद्रितः
-
xxvii) यत्संशयव्यतिरेकनिश्चयौ इति अनुमानविचारः - अमुद्रितः
-
xxviii) अन्वयव्यभिचारपत्रम् - मुद्रितम्
-
xxix) विशेषवादार्थः - मुद्रितः
-
xxx) अनुपलब्धिवादः - अमुद्रितः
-
xxxi) अनुगमावली - अमुद्रिता
-
xxxii) सजातीयविशिष्टान्तराघटितत्वकल्पविचारः - अमुद्रितः
-
xxxiii) अव्यापकविषयिताशून्यत्वपत्रम् - अमुद्रितः
-
[[44]]
व्याकरणग्रन्थाः -
- i) णत्वचन्द्रिका - मुद्रिता
- ii) परमुखचपेटिका - मुद्रिता
मीमांसाग्रन्थाः
- i) भाट्टदीपिकाटिप्पणम् - अमुद्रितम्
- ii) भाट्टसारः - मुद्रितः
वेदान्तग्रन्थाः
- i) न्यायपरिशुद्धिव्याख्या सन्न्यायदीपिका - मुद्रिता
- ii) न्यायसिद्धाञ्जनव्याख्या रत्नपेटिका - मुद्रिता
- iii) अखिलशब्दार्थविचारः - अमुद्रितः
- iv) ब्रह्मशब्दार्थविचारः - मुद्रितः
- v) विद्वज्जनविनोदिनी - मुद्रिता
- vi) प्रत्यक्त्वादिस्वयंप्रकाशत्वविचारः - मुद्रितः
- vii) अरुणाधिकरणविचारः - अमुद्रितः
- viii) आप्रयाणादुपासनानुवृत्तिविचारः - अमुद्रितः
- ix) “अनेन जीवेन” इति श्रुत्यर्थविचारः - अमुद्रितः
- x) प्रतीताप्रतीतावितिपङ्क्तिव्याख्यानम् - अमुद्रितः
- xi) अपर्यवसानवृत्तिविचारः - अमुद्रितः
- xii) अनुवर्तमानत्वानुमानोपाधिविचारः - अमुद्रितः
- xiii) सत्यत्वादिस्वरूपनिरूपकत्वविचारः - अमुद्रितः
- xiv) श्रुतप्रकाशिकापङ्क्तिव्याख्यानानि - अमुद्रितः
सम्प्रदायग्रन्थाः
- i) दुरर्थदूरीकरणम् - मुद्रितम्
- ii) चरमश्लोकाधिकारविचारः - अमुद्रितः
- iii) आनुकूल्यसंकल्पादीनां सन्निपत्योपकारकत्वविचारः - अमुद्रितः
- iv) इयं केवलेत्यादिश्लोकव्याख्या - अमुद्रिता
- v) शरणशब्दार्थविचारः - अमुद्रितः
धर्मशास्त्रग्रन्थाः
- i) धर्मनिर्णयः - मुद्रितः
- ii) दुर्वृत्तधिक्कृतिः - मुद्रितः
- iii) वैष्णवत्वनिरूपणम् - मुद्रितम्
- iv) सन्मार्गकण्टकोद्धारः - मुद्रितः
- v) सन्मार्गकण्टकोद्धारसंग्रहः - मुद्रितः
- vi) सन्मार्गकण्टकोद्धारटिप्पणी - अमुद्रितः
- vii) दर्शश्राद्धसञ्चिका - अमुद्रिता
- viii) दर्शश्राद्धसमर्थनम् - अमुद्रितम्
- ix) पतिभातृस्वसृपुत्रकर्तृत्वपौर्यापर्यविचारः - अमुद्रितः
- x) एकदिनश्राद्धद्वयनिषेधविचारः - अमुद्रितः
- xi) प्रथमोपाकर्मदोषतारतम्यविचारः - अमुद्रितः
- xii) भगवदाराधनप्रयोगः - अमुद्रितः
- xiii) प्रपत्तिप्रयोगः - अमुद्रितः
तथा च -
- न्यायशास्त्रग्रन्थाः - ३३
- मीमांसाग्रन्थाः - २
- व्याकरणग्रन्थाः - २
- वेदान्तशास्त्रग्रन्थाः - १४
- सम्प्रदायग्रन्थाः - ५
- धर्मशास्त्रग्रन्थाः - १३
- आहत्य - ६९
एतेषां ग्रन्थानां संक्षेपेण परिचयः इदानीं क्रियते ।
अन्वयव्यभिचारविचारः
कारणसत्वे कार्यानुत्पत्तिः अन्वयव्यभिचारः इत्युच्यते । अयं च कारणताग्रह- प्रतिबन्धकः । अस्य निष्कृष्टं लक्षणं एवं अभिहितम् अस्मिन् ग्रन्थे - “स्वावच्छेदककाला- वच्छिन्नत्वस्वनिरूपकनिरूपितत्व एतदुभयसंबन्धेन स्वावच्छिन्नकारणतावच्छेदकत्वा-
[[36]]
[[47]]
भिमतसंबन्धावच्छिन्नप्रतियोगिताकाभावनिष्ठयत्किञ्चिद्देशानवच्छिन्नाधेयतानिष्ठस्वाव- च्छिन्नकारणतावच्छेदकसंबन्धावच्छिन्नाधेयताकाः यावन्तः तद्धर्मावच्छिन्नकार्यतानिरूपित- कारणतावच्छेदकधर्माः तत्तद्धर्मावच्छिन्नकारणतावच्छेदकसंबन्धावच्छिन्नतद्धर्मावच्छिन्नाधेयता- निरूपिताधिकरणतावन्निरूपितस्वावच्छिन्नकारणतावच्छेदकत्वाभिमतसंबन्धावच्छिन्नाधेयतायाः स्वनिरूपकनिरूपितत्वस्वाधिकरणक्षणाव्यवहितोत्तरक्षणावच्छिन्नत्वैतदुभयसंबन्धेन तद्विशिष्टाधेयतावदभावनिरूपितकार्यतावच्छेदकसंबन्धावच्छिन्नप्रतियोगितावच्छेदक- कार्यतावच्छेदककत्वं अन्वयव्यभिचारस्य लक्षणं फलितम् इति । अयं च विचारः चौखम्बासंस्कृतसंस्थानद्वारा प्रकाशिते तर्कसंग्रहनवव्याख्यानपुस्तके प्रकाशितः । प्रतिबन्धकत्वविचारः दिनकरीग्रन्थे शक्तिनिरूपणावसरे प्रतिबन्धकत्वं न कार्यानुकूलधर्मविघटकत्वम् । तथा सति बाधज्ञानस्य अनुमितिप्रतिबन्धकत्वानुपपत्तेः इत्याचख्यौ महादेवः । आत्ममनःसंयोगनिष्ठा- नुमित्यनुकूलशक्तिविघटकत्वेन प्रतिबन्धकत्वोपपत्तौ महादेवोक्तं असङ्गतम् इति दिनकरीकारपक्षः खण्डितः मञ्जूषाकृता । तत्समर्थनाय अयं ग्रन्थः आरब्धः । अत्र प्रतिबन्धकत्वपदार्थः एवं निरुक्तः - कार्यानुकूलधर्मविघटकत्वमात्रं न प्रतिबन्धकत्वपदार्थः तथा सति दण्डनाशकदण्डा- वयवसंयोगनाशेऽतिव्याप्तेः । तस्मात् महादेवोक्तं कारणीभूताभावप्रतियोगित्वमेव प्रतिबन्धकत्व- पदार्थः इति तत्पक्ष एव साधीयान् इति महादेवपक्षः समर्थितः । अयमपि ग्रन्थः मद्रपुर्यां बालमनोरमा प्रेस् द्वारा पञ्चव्याख्यायुतकारिकावलीग्रन्थे प्रकाशितः । प्रमात्वचिह्नविवृत्तिः - चिह्नशब्दस्य लक्षणं इत्यर्थः । तस्मात् प्रमालक्षणप्रतिपादनपरोऽयं ग्रन्थः । तद्वति तत्प्रकारकानुभवः यथार्थानुभवः इत्युक्तं तर्कसंग्रहे । एतद्व्याख्यानरूपत्वेन परिष्कारभूतः
[[37]]
[[48]]
अयं ग्रन्थः । अत्र प्रमालक्षणनिष्कर्षः एवं कृतः - “स्वव्यापकतावच्छेदकत्वस्वसमानाधिकरण- भेदप्रतियोगितावच्छेदकतावच्छेदकानवच्छिन्नत्वस्वनिरूपितत्व एतत्त्रितयसंबन्धेन विशेष्यता- विशिष्टप्रकारताशाल्यनुभवत्वं यथार्थत्वं” इति । अनुपलब्धिविचारः - अयं च ग्रन्थः अभावप्रत्यक्षे अनुपलब्धेः सहकारित्वप्रतिपादनपरः । एवं तत्स्वरूपं च प्रतिपादितम् । अभावप्रत्यक्षे विशेषणतासन्निकर्षस्य कारणत्वं महता प्रयासेन समर्थितम् ।
कुवलयोल्लासः
अयं च ग्रन्थः मुकुन्दभट्टकृततर्कसंग्रहव्याख्यानभूतायाः तर्कसंग्रहचन्द्रिकायाः व्याख्याभूतः ग्रन्थः । एषः ग्रन्थः पूर्णतया कुत्रापि नोपलभ्यते कर्गजमातृकायामपि पृथिवीनिरूपणभागपर्यन्तमेव उपलभ्यते । “अथ हेत्वाभासाः” इति वाक्यार्थविचारः - “अथ हेत्वाभासाः तत्त्वनिर्णयविजयप्रयोजकत्वान्निरूप्यन्ते” इति चिन्तामणिग्रन्थः । अस्य वाक्यस्य शाब्दबोधप्रतिपादनपरः अयं ग्रन्थः । शाब्दबोधः एवं वर्णितः - “व्याप्तिपक्षधर्म- त्वोभयवद्भेदविशिष्टः यः व्याप्तिपक्षधर्मत्वोभयवद्वृत्तितावच्छेदकीभूतव्याप्तिपक्षधर्मत्वो- भयप्रकारकज्ञानविषयतावान् धर्मः तदाश्रयः व्याप्तिपक्षधर्मत्वोभयप्रकारज्ञानविशेष्यः इति विग्रहवाक्यजन्यबोधः । अयं च हेत्वाभासः इति पदस्य शाब्दबोधः । एवं हेत्वाभासलक्षणमपि निष्कर्षितम्।
सर्वांशे प्रमात्वविचारः
स्वव्यधिकरणप्रकारावच्छिन्ना या या विशेष्यता तत्तदनिरूपकत्वं सर्वांशे प्रमात्वं हेत्वाभासप्रथमलक्षणनिरूपणावसरे भट्टाचार्यैः अभिहितम् । तत्परिष्काररूपः अयं ग्रन्थः । उक्तं ग्रन्थकृतैव मङ्गलश्लोके -
[[38]]
[[49]]
रघुवीरपदद्वन्द्वचिन्तासंतुष्टमानसः । श्रीकृष्णतातो निर्वक्ति सर्वांशेऽद्द यथार्थताम् ॥ इति । एवं सर्वांशे प्रमात्वम् एवं परिष्कृतम् - यन्निरूपितयत्सम्बन्धावच्छिन्नाधेयतानवच्छेदकं यदनुयोगिकयत्संबन्धावच्छिन्नप्रतियोगितावच्छेदकं वा यत् तन्निष्ठविशेष्यतानिरूपिततत्संबन्धा- वच्छिन्नतद्धर्मावच्छिन्नप्रकारतानिरूपकत्वशून्यत्वम् इति ।
यद्रूपविचारः
“यद्रूपावच्छिन्ननिरूपकताकविषयिता प्रकृतानुमितिप्रतिबन्धकतावच्छेदिका तद्रूपावच्छिन्नत्वं” इति द्वितीयहेत्वाभासलक्षणस्थयद्रूपपदविचारपरः अयं ग्रन्थः । यद्रूपपदेन किं ग्राह्यम् इति विचारितम् अत्र । एतावता नोपलब्धः अयं ग्रन्थः ।
अवच्छेदकतासरः
अयमपि ग्रन्थः हेत्वाभाससंबद्धः एव । द्वितीयलक्षणे निविष्टं यत् अवच्छेदकत्वं तत् अनतिरिक्तवृत्तित्वमेव ग्राह्यं इति दीधितिकृत् । परन्तु स्वरूपसंबन्धरूपावच्छेदकत्वघटनयापि लक्षणं निर्दुष्टं भवितुमर्हति इति एतेषां आशयः । प्रतिज्ञातं च मङ्गलश्लोके एव - “यां दोषचिह्नेऽनतिरिक्तवृत्तिरूपामवच्छेदकतामवोचन् । स्वरूपसंबन्धविशेषरूपां तामद्द सम्यक् प्रतिपादयामः ॥” एवं स्वरूपसंबन्धरूपावच्छेदकत्वकल्पे निष्कृष्टं लक्षणं तावत्- “ज्ञानवैशिष्ट्यानवच्छिन्न- प्रतिबन्धकतानवच्छेदकत्व, असाधारण्यविषयिताभिन्नत्व, सत्प्रतिपक्षविषयिताभिन्नत्व एतत्त्रितयाभावे यद्रूपावच्छिन्ननिरूपकताकविषयितात्वव्यापकत्वं विवक्षणीयम्” इति । अयं च ग्रन्थः गोडा सुब्रह्मण्यशास्त्रिभिः दाक्षिणात्यक्रोडपत्रसंग्रहे प्रकाशितः ।
[[39]]
[[50]]
वादकल्पकः
अयं च ग्रन्थः विशिष्टद्वयाघटितत्वसमर्थनपरः । पूर्वपक्षिणा विशिष्टद्वयाघटितत्वं गुरुभूतं इति मत्वा निश्चये अवच्छेदकतासंबन्धेन प्रतिबन्धकताविशिष्टान्यत्वमेव निवेशनीयम् इत्युक्तम्। तन्निरसनपरोऽयं ग्रन्थः । अत्र विशिष्टद्वयाघटितत्वं सुष्ठु समर्थितम् । अयं ग्रन्थः श्रीगोडासुब्रह्मण्यशास्त्रिवर्यैः दाक्षिणात्यक्रोडपत्रग्रन्थे प्रकाशितः ।
विशिष्टद्वयाघटितत्वपत्रम् -
अयमपि ग्रन्थः विशिष्टद्वयाघटितत्वसमर्थनपर एव । परन्तु अत्र पूर्वपक्षः भिन्नः विशिष्टद्वयाघटितत्वशरीरे यादृशविशिष्टविषयकनिश्चयविशिष्टयादृशविशिष्टविषयकनिश्चयत्वे प्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्तित्वनिवेशापेक्षया लाघवात् तत्र प्रकृतानुमित्यवृत्तित्वमेव निवेश्यताम् इति । विशिष्टद्वयाघटितत्वशरीरे प्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्तित्वं समर्थितम्।
न च विचारः
हेत्वाभासद्वितीयलक्षणे मेयत्वविशिष्टव्यभिचारादौ अतिव्याप्तिवारणाय विशिष्टान्तराघटितत्वं निवेशितम् । एवमपि व्यभिचारघटितबाधे आगता अव्याप्तिः तद्वारणाय न च चतुष्टयकल्पः भट्टाचार्येण दर्शितः । तदुपरि विचारपरः अयं ग्रन्थः ।
सजातीयविशिष्टान्तराघटितत्वविचारः -
व्यभिचारघटितबाधे अव्याप्तिवारणायैव भट्टाचार्यैः सजातीयविशिष्टान्तराघटितत्वकल्पः दर्शितः । तद्विचारपरः अयं ग्रन्थः ।
[[40]]
[[51]]
एतेनेत्यादिकल्पद्वयविचारः
उक्तदोषवारणायैव “एतेन” इत्यादिना जगदीशतर्कालङ्कारोक्तपक्षः एवं मथुरानाथ- तर्कवागीशोक्तपक्षः च अनूद्द खण्डितः भट्टाचार्येण । तादृशकल्पद्वयपरिष्काररूपः अयं ग्रन्थः।
विशेषणत्रयवैयर्थ्यविचारः
द्वितीयहेत्वाभाससामान्यलक्षणे जातित्वेन ह्रदत्वावगाहि“जातिमान् वह्न्यभाववान्” इत्याकारकज्ञानमादाय असंभववारणाय अव्यापकविषयिताशून्यत्वं निवेशितम् , मेयत्वविशिष्ट- व्यभिचारे अतिव्याप्तिवारणाय विशिष्टान्तराघटितत्वं निवेशितम्, वह्न्यभाववज्जलवद्वृत्ति- जलवद्ध्रदे अतिव्याप्तिवारणाय विशिष्टद्वयाघटितत्वं निवेशनीयम् । परन्तु प्रतिबन्धकतान- वच्छेदकविषयिताशून्यत्वनिवेशे उक्तदोषाणां वारणात् इदं विशेषणत्रयं व्यर्थम् इति शङ्कावारणाय अयं ग्रन्थः विशेषणत्रयसमर्थनपरः । अत्र वदन्तिकल्पविचारः - प्रतिबन्धकताघटितहेत्वाभासलक्षणस्य “निर्वह्निः पर्वतः वह्निमान्” इत्यत्र आश्रयासिद्धौ अव्याप्तिवारणाय “अत्र वदन्ति” कल्पः दीधितिकारेण उक्तः । तल्लक्षणपरिष्काररूपः अयं ग्रन्थः।
अव्यापकविषयिताशून्यत्वपत्रम्
हेत्वाभासलक्षणे जातित्वेन ह्रदत्वावगाहि“जातिमान् वह्न्यभाववान्” इत्याकारक- ज्ञानमादाय असम्भववारणाय लक्षणघटकनिश्चये अव्यापकविषयिताशून्यत्वं निवेशनीयम् इत्युक्तं भट्टाचार्यैः । तादृशाव्यापकविषयित्वशून्यत्वस्य परिष्कारभूतं पत्रम् ।
[[41]]
[[52]]
स्वलक्षणद्वयविचारः
व्यधिकरणधर्मावच्छिन्नाभावस्वीकारपक्षे व्याप्तिलक्षणं कथं भवति इति ज्ञापनाय दीधितिकारः लक्षणद्वयं प्रणिनाय । तत्र प्रथमं लक्षणं तावत् - “यत्समानाधिकरणाः साध्यतावच्छेदकावच्छिन्नव्यापकतावच्छेदकप्रतियोगिताकाः यावन्तः अभावाः स्वविशिष्टयावद्धे- त्वधिकरणान्तर्भावेण प्रतियोगिसमानाधिकरणाः तत्वं” इति । द्वितीयलक्षणं तावत् - “यत्समानाधिकरणाः साध्यतावच्छेदकावच्छिन्नव्यापकता- वच्छेदकरूपावच्छिन्नप्रतियोगिताकाः यावन्तः अभावाः प्रतियोगितावच्छेदकसंबन्धेन प्रतियोगि- समानाधिकरणाः तत्वं” इति । अयं च ग्रन्थः लक्षणद्वयस्य परिष्कारपूर्वकविचारपरः ग्रन्थः । सिद्धान्तलक्षणोपाधिविचारः - सिद्धान्तलक्षणे संयोगसामान्याभावसाध्यकस्थलीय “यः यदीययावद्विशेषाभाववान् सः तत्सामान्याभाववान्” इति सामान्यमुखीव्याप्तौ एकावच्छेदकावच्छेदेन यावद्विशेषाभाव- वत्वस्य उपाधित्वं प्रोक्तं दीधितिकृता । तदुपरि गदाधरभट्टाचार्यैः “अथ” इत्यादिना पूर्वपक्षं कृत्वा “अत्र केचित्” इत्यादिना एकं समाधानं अभिधाय वस्तुतस्तु इत्यादिना समाधानान्तरं अभिहितम्। तादृशग्रन्थस्य व्याख्यानरूपः अयं ग्रन्थः । संशयपक्षता - साध्यवत्तानिश्चयत्वावच्छिन्नप्रतिबन्धकतानिरूपितप्रतिबध्यताशाली संशयः पक्षता इत्युक्तं भट्टाचार्यैः । तत्र अवच्छिन्नत्वं व्यापकत्वरूपं न तु स्वरूपसंबन्धरूपम् । तथा सति महानसीयवह्निसाध्यकस्थले “महानसीयवह्निमान् वह्निसामान्याभाववान् न वा” इति संशयस्य
[[42]]
[[53]]
पक्षतात्वानुपपत्तिः, एवं वह्निसाध्यकस्थले “महानसीयवह्निमान् न वा” इति संशयस्य पक्षतात्वापत्तिः इति दोषद्वयम् उक्तम् । अस्मिन् ग्रन्थे निश्चयत्वं अनुगतं एकं वक्तुं न शक्यते इत्याशंक्य गदाधरग्रन्थमपि असंगमयन् ।
पञ्चमविषयताविचारः
अवयवग्रन्थे प्रतिज्ञालक्षणविचारावसरे लिङ्गत्वाविषयकत्वं उदाहरणे अतिव्याप्तिवारणाय पञ्चमविषयताघटितं अभिहितं भट्टाचार्यैः । तथाहि- पक्षतावच्छेदकवच्छिन्न- विशेष्यतानिरूपितविषयतानिरूपितविषयतानिरूपितविषयतानिरूपितविषयतांशे (पञ्चमविषयतांशे) विशेषणविधया प्रकृतानुमितिजनकतावच्छेदकतावच्छेदकता- पर्याप्त्यधिकरणीभूतः यः धर्मः तद्धर्मावच्छिन्नविषयकत्वावच्छिन्नप्रतिबन्धकता- वच्छेदकविषयताशून्यत्वं एव लिङ्गत्वाविषयकत्वं इति । अस्मिन् ग्रन्थे उक्तपरिष्कारघटकं यत् तादृशधर्मावच्छिन्नविषयत्वावच्छिन्नत्वमिति तत् तादृशधर्मावच्छिन्नविषयतानिष्ठा- वच्छेदकताकत्वं वा उत तादृशधर्माश्रयविषयतानिष्ठावच्छेदकताकत्वं वा इति विकल्प्य पूर्वपक्षं कृत्वा समाधानं च अभिहितम् ।
पञ्चभूतार्थविचारः
अस्य ग्रन्थस्य प्रतिपाद्दविषयः नैव ज्ञायते । एतावता अयं ग्रन्थः लुप्तः । नित्यानित्यदोषसाधारणहेत्वाभासलक्षणविचारः - साधारणग्रन्थे मिश्रमतनिरूपणावसरे नित्यानित्यदोषसाधारणं हेत्वाभासलक्षणं भट्टाचार्यैः परिष्कृतं यादृशज्ञानान्तरविशिष्टत्वेन यादृशविशिष्टविषयकनिश्चयस्य प्रकृतानुमितिप्रतिबन्धकता तादृशज्ञानसहिततादृशविशिष्टज्ञानानधिकरणक्षणवृत्तित्वविशिष्टतादृशविशिष्टपर्याप्तविषयता-
[[43]]
[[54]]
विरहविशिष्टत्वे सति यादृशविशिष्टनिरूपितविषयतासामान्यं अनुमितिप्रतिबन्धकतावच्छेदकं तादृशविशिष्टत्वं दोषसामान्यलक्षणम् इति । एतादृशपरिष्कारोपरि विचारः कृतः अस्मिन् ग्रन्थे।
शतकोटिखण्डनम्
सत्प्रतिपक्षलक्षणे “ह्रदो वह्निमान्” इत्यत्र वह्न्यभाववह्न्यभावव्याप्यव्याप्योभयवद्ध्रदे अतिव्याप्तिमाशंक्य प्रतिबन्धकतायां विशिष्टान्तराघटितत्वं निवेशनीयम् इति निष्कर्षः कृतः शतकोटिकृता । शतकोटिखण्डनाय प्रवृत्तस्य श्रीयादवाद्रि अनन्ताचार्यस्य यः शतकोटि- खण्डनग्रन्थः सः उक्तनिष्कृष्टपक्षदूषकः नास्ति इति तं ग्रन्थं खण्डितं शतकोटिमण्डनकृता। अतः उक्तनिष्कृष्टलक्षणे दोषकथनाय शतकोटिखण्डनग्रन्थः श्रीकृष्णताताचार्यैः रचितः । तदुक्तं मङ्गलश्लोके - शतकोट्युदितो योऽसौ निष्कर्षोऽन्यैरदूषितो विबुधैः । तत्र दुरुद्धरदोषं ब्रूते श्रीकृष्णतातयाचार्यः ॥ इति । शतकोटिग्रन्थे प्रतिबन्धकतायामेव विशिष्टान्तराघटितत्वं निवेशनीयम् इत्युक्तम् । खण्डनग्रन्थेऽस्मिन् जनकतायामेव तद्देयमिति निष्कर्षः कृतः इति सारम् ।
शतकोटिमण्डनमुण्डनम्
शतकोटिखण्डनग्रन्थस्य खण्डनं कृत्वा शतकोटिग्रन्थसंरक्षणाय रामशास्त्रिणां शिष्यौ कुरुच्चि रङ्गाचार्य-शोहत्तूर् विजयराघवाचार्यौ प्रत्येकं शतकोटिमण्डननाम्ना ग्रन्थं लिखितवन्तौ। तद्ग्रन्थद्वयमपि एकनैव शतकोटिमण्डनमुण्डनग्रन्थद्वारा एभिः खण्डितम् ।
[[44]]
[[55]]
वावदूककुतूहलम्
प्रकृतग्रन्थः । प्रतिपाद्यांशः प्रागेव निरूपितः अस्मिन्नध्याये । सत्प्रतिपक्षविचारः - अयं ग्रन्थोऽपि सत्प्रतिपक्षलक्षणस्यैव विचाररूपः ग्रन्थः । सत्यन्तदले यत्किञ्चिद्धर्माव- च्छिन्नपक्षकत्वनिवेशे तादृशधर्मस्य असिद्धत्वमाक्षिप्य किञ्चिद्धर्मावच्छिन्नविशेष्यतेत्यनेन किञ्चिद्विशेष्यतावच्छेदकतापर्याप्त्यनुयोगितावच्छेदकधर्मावच्छिन्नानुयोगिताकपर्याप्तिकावच्छेद- कताकविशेष्यता एव निवेश्या इति समाधानम् अभिहितम् । एवं अन्ये अंशाः अपि अत्र सम्यक् परिशोधिताः वर्तन्ते ।
बाधविचारः
अनुमानगादाधरीस्थबाधविभाजकलक्षणस्य विचाररूपः ग्रन्थः अयम् । राजपुरुषवादः - व्युत्पत्तिवादे भेदान्वयबोधौपयिकाकांक्षानिरूपणावसरे राजपुरुष इति वाक्यार्थः निरूपितः। तत्र षष्ठ्यर्थः स्वत्वं प्रकारतया भासते उत संसर्गतया भासते इति विचारः । अत्रापि सः एव विचारः कृतः ।
जातिशक्तिवादः
पदानां शक्तिः जातौ वा व्यक्तौ वा इति निरूपणपरः ग्रन्थः । शक्तिवादस्थभाट्टमत- निरूपणपरः ग्रन्थः इति भाति । एतावता नोपलभ्यते अयं ग्रन्थः । “यत्संशयव्यतिरेकनिश्चयौ” इति अनुमानविचारः - प्रामाण्यवादे प्रामाण्यनिश्चयस्य प्रवृत्तिहेतुत्वसम्पादनाय “यस्य संशयव्यतिरेकनिश्चयौ
[[45]]
[[56]]
यत्प्रतिबन्धकौ तन्निश्चयः तद्धेतुः अनुमितौ व्याप्तेरिव” इति सामान्यमुखीव्याप्तिः दर्शिता दीधितिकृता। तादृशानुमानविचारपरः अयं ग्रन्थः । अयमपि ग्रन्थः एतावता नोपलब्धः ।
विशेषवादार्थः
दिनकरीये स्वतो व्यावृत्तत्वं स्वभिन्नलिङ्गकस्वविशेष्यकस्वसमानजातीयभेदानुमित्य- विषयत्वम् इत्युक्तम् । तादृशस्वतोव्यावृत्तत्वस्य परिष्काररूपः ग्रन्थः । तदुक्तं मङ्गलश्लोके - महादेवप्रोक्ते सहृदयबुधानां सुरुचिरे विशेषाणां लक्ष्मण्यभिदधुरसाङ्गत्यमिह ये वचो भङ्गीं तेषां दृढघटितदोषान् प्रकटयन् सुधीः कृष्णाभिख्यो रचयति मुदं सर्वविदुषाम् ॥ इति ।
अनुगमावलिः
सर्वेषां लक्षणानां अनुगमः अत्र प्रदर्शितः । एतावता न्यायशास्त्रीयग्रन्थाः निरूपिताः । इतःपरं व्याकरणग्रन्थाः निरूप्यन्ते ।
परमुखचपेटिखा
नारायणशब्दः शिवे यौगिकः अतः तच्छब्दः शिवप्रतिपादनपरः न तु भगवतः श्रीमन्नारायणस्य इति आक्षिप्तं रामशास्त्रिणा नवकोटिग्रन्थे । तत्र अनुमानमपि दर्शितं “नारायणशब्दः, शिवपरः, शिववृत्तिधर्मावच्छिन्नप्रतिपादकत्वात्, यथा शिवशब्दः” इति। एभिः शिवपरत्वं नाम किं इत्यादिना विकल्पं कृत्वा उक्तानुमाने साध्याप्रसिद्धिं संपाद्द स्वरूपासिद्धिं च अभिधीयते ।
[[46]]
[[57]]
एवं नारायणशब्दस्य योगरूढिः एव अस्मिन् ग्रन्थे साधिता । सा च शिवपरत्वे न सम्भवति । एवं रामनामा इत्यादौ णत्वापत्तिवारणाय मातृभोगीणः इत्यादौ णत्वानुपपत्तिवारणाय च “रषाभ्यां णो नः समानपदे” “अट्कुप्वाङ्नुम् व्यवायेऽपि” इति सूत्रयोः विशिष्टार्थं च अभिहितं वर्तते । तथाहि - “स्वोत्तराडादिभिन्नानुत्तरत्व, स्वोत्तरत्व, स्वावृत्तिपदत्वासमानाधिकरण- धर्मवत्व एतत्त्रितयसंबन्धेन रेफादिविशिष्टनस्य णत्वं स्यात् इति निष्कर्षः” इति । स्वोत्तराडादि- भिन्नानुत्तरत्वं च स्वोत्तराडादिभिन्नोत्तरत्वसंबन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिताक- भेदवत्वरूपम् । स्वावृत्तिपदत्वासमानाधिकरणधर्मवत्वं च स्वविशिष्टधर्मवत्वरूपम् । धर्मे स्ववैशिष्ट्यं च स्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्वसंबन्धेन । स्वनिष्ठावच्छेदकता च स्वविशिष्टपदत्वसमानाधिकरणत्वसंबन्धेन । पदत्वे स्ववैशिष्ट्यं च स्वनिष्ठावच्छेदकताक- प्रतियोगिताकभेदवत्वसम्बन्धेन । स्वनिष्ठावच्छेदकता च आधेयतासंबन्धेन” इति अनुगमोऽपि दर्शितः । ईदृशानुगमरीत्या व्याकरणसूत्राणां परिष्कारः अन्यत्र कुत्रापि नोपलभ्यते इति नैयायिकानामपि हृदयङ्गमः ग्रन्थः ।
णत्वचन्द्रिका
अयं च ग्रन्थः परमुखचपेटिकायां उक्तांशानां वावदूकानां कुतूहलनार्थं कोटिक्रमेण निरूपणपरः ग्रन्थः । उक्तं हि तत्रैव मङ्गलश्लोके - णत्वे परोक्तयुक्तीनां दूषणं सम्यगीरितम् । तुष्टये वावदूकानां कक्ष्या षष्टिं प्रदर्शये ॥ इति । अत्र षष्टिः कोटयः सन्ति । एतद्ग्रन्थद्वयमपि अस्मत्पितामहचरणैः प्रकाशितम् ।
[[47]]
[[58]]
मीमांसाग्रन्थानां परिचयः
भाट्टदीपिकाटिप्पणी
खण्डदेवाचार्यकृतस्य भाट्टदीपिकाख्यग्रन्थस्य लघुव्याख्यानरूपः ग्रन्थः । नव्यन्यायशैल्या क्वचित्परिष्कारगर्भितः ग्रन्थः । अयं ग्रन्थः नैव उपलभ्यते ।
भाट्टसारः
द्वादशाध्यायानां सङ्ग्रहरूपः ग्रन्थः । अनेन ग्रन्थेन समग्रमीमांसाशास्त्रज्ञानं प्राप्तुं शक्नुमः। अयं च प्रकरणग्रन्थत्वेनापि परिगणितुं शक्यते । वेदान्तशास्त्रग्रन्थानां परिचयः
न्यायपरिशुद्धिव्याख्या - सन्न्यायदीपिका
श्रीमद्वेदान्तदेशिकविरचितन्यायपरिशुद्धिग्रन्थस्य व्याख्यानभूतग्रन्थः अयम् । न्यायपरिशुद्धिग्रन्थः तावत् न्यायशास्त्रस्य वेदान्तशास्त्रानुगुणत्वसम्पादनपरः ग्रन्थः । स च न्यायसूत्रस्यैव व्याख्यानरूपः ग्रन्थः विशिष्टाद्वैतमतरीत्या प्रमाणशोधनग्रन्थः च । व्याख्यानग्रन्थस्तावत् अनुमानाध्यायभागपर्यन्त एव उपलभ्यते । तत्रापि केवलव्यतिरेकिनिरसनं, ख्यातिनिरूपणं इत्यादयः अनेके विचाराः बहुविचारगर्भिताः सन्ति । ख्यातिविचारे अख्यातिसंवलितयथार्थख्यातिरेव सिद्धान्तः इति महताप्रयासेन व्याख्याने निरूपितं वर्तते ।
न्यायसिद्धाञ्जनव्याख्या - रत्नपेटिका
अयं च ग्रन्थः प्रमेयशोधनपरः ग्रन्थः श्रीमद्वेदान्तदेशिकविरचित एव । तस्य व्याख्या नव्यन्यायशैल्या परिष्कारगर्भिता एव इयं रत्नपेटिका । अत्र विशिष्टाद्वैतशब्दार्थविचारः,
[[48]]
[[59]]
कैवल्यविचारः, श्रीविभुत्वसमर्थनं इत्यादयः अतिरमणीयविचाराः सन्ति । अयं च ग्रन्थः १८८९ वर्षे ग्रन्थकर्तृणां शिष्यैः श्रीश्रीनिवासताताचार्यैः ग्रन्थलिप्यां प्रकाशितः ।
अखिलशब्दार्थविचारः
“अखिलभुवनजन्मस्थेमभङ्गादिलीले”त्यादिश्रीभाष्यमङ्गलश्लोकस्थ अखिल- शब्दार्थविचारपरः अयं ग्रन्थः । सकल, निखिल इत्याद्दनुक्त्वा किमर्थं नञ्घटित अखिलशब्दप्रणयनं इति शङ्कां कृत्वा प्रायिकत्वशङ्कानिवृत्त्यर्थम् अखिलेत्युक्तं इति समर्थितम्। एवं सकलादिशब्दानां उद्देश्यतावच्छेदकाश्रयभूयोवृत्तिविधेयव्याप्यैकत्वान्यसंख्याबोधकत्वात् अखिलशब्दस्य तदभावात् अखिलशब्देन प्रायिकत्वशंकानिवृत्तिः भवति इति सूचितम् ।
ब्रह्मशब्दार्थविचारः
मैसूर् अनन्ताचार्यकृतस्य ब्रह्मपदशक्तिवादस्य खण्डनरूपः अयं ग्रन्थः । अनन्ताचार्यपक्षे ब्रह्मशब्दः केवलयौगिकः, योगार्थस्तु परममहत्परिमाणम् इति । परन्तु अयं पक्षः पूर्वाचार्याणां अनभिमतः इति मत्वा ब्रह्मशब्दः योगरूढं, योगार्थः तु बृहत्वं रूढिस्तु ब्रह्मणि इति अस्मिन् ग्रन्थे पूर्वाचार्यसम्मतब्रह्मशब्दार्थः नव्यनैयायिकशैल्या प्रदर्शितः ।
विद्वज्जनविनोदिनी
अनन्ताचार्यग्रन्थसमर्थनाय तच्छिष्येण श्रीपुरिसै श्रीरङ्गाचार्येण ब्रह्मपदशक्तिवाद- व्याख्यानरूपेण एकः ग्रन्थः निर्मितः । तत्र श्रीकृष्णताताचार्यकृतपक्षाणां दूषणं कृतम् । तन्निरसनाय अयं ग्रन्थः विद्वज्जनविनोदिनी नामकः तैरेव कृतः । अस्मिन् ग्रन्थे श्रीरङ्गाचार्याणां दुराग्रहः सम्यक् प्रपञ्चितः एतेषां ग्रन्थाध्ययनं विनापि तत्खण्डने प्रयत्नं कृतवन्तः इति विद्वांसः पश्यन्तु इति धिक्कारोऽपि अत्र कृतः । तदुक्तं मङ्गलश्लोके एव -
[[49]]
[[60]]
ब्रह्मपदशक्तिवादे परकीयेऽस्मत्प्रदर्शितान्दोषान् । परिहर्तुमनाः कश्चिद्विदुषां हास्यस्समीक्ष्यतां सर्वैः ॥ इति ।
प्रत्यक्त्वादिस्वयंप्रकाशत्वविचारः
विशिष्टाद्वैतवेदान्ते धर्मिभूतज्ञानस्य स्वप्रकाशत्वं स्वीकृतम् । तदितरस्य सर्वस्य ज्ञानभास्यत्त्वमेव स्वीकृतम् । इदानीं शङ्का उत्पन्ना यत् प्रत्यक्त्वस्य आत्मनिष्ठस्य स्वप्रकाशत्वं उत नेति । तत्र पक्षद्वयं वर्तते । तादृशपक्षद्वयेऽपि युक्तिप्रदर्शनपरः ग्रन्थः ।
अरुणाधिकरणविचारः
“अरुणया पिङ्गक्ष्या एकहान्या गवा सोमं क्रीणाति” इति वाक्ये आरुण्यस्य क्रयभावनाङ्गत्वं कथं इति विचारः पूर्वमीमांसाशास्त्रे विचारितम् । परन्तु आनन्दमयाधिकरणे भाष्यकारैः अन्यथा वेदान्तमतरीत्या सिद्धान्तः कृतः । तत्र आरुण्यविशिष्टाभिन्नैकहायनी एव करणतया क्रयभावनायामन्वेति न तु अमूर्तं आरुण्यं इति उक्तम् । एवं तद्वाक्यविचारः अत्र कृतः ।
आप्रयाणादुपासनानुवृत्तिविचारः
ब्रह्मविदां प्रारब्धवशात् जन्मान्तरं प्राप्तवां उपासनं आवर्तनीयं वा न वा इति विप्रतिपत्तिः। नावर्तनीयमिति पूर्वपक्षः । सिद्धान्तस्तु - “प्रयाणान्तमोंकारं अभिध्यायीत” इति श्रुत्या परमपदप्रयाणपर्यन्तावृत्तेः विधीयमानतया जन्मान्तरेऽपि आवर्तनीयमिति । तथा च ब्रह्मविदां उपासनानुवर्तनं कर्तव्यं वा न वा इति विचारपरः अयं ग्रन्थः ।
“अनेन जीवने” इति श्रुत्यर्थविचारः
श्रुतौ “आत्मना” इत्यत्र या तृतीया सा करणे वा उत कर्तरि वा इति विचारः । अनन्ताचार्याणां मते - कर्तृत्वार्थिका तृतीया । तत्खण्डनाय अयं ग्रन्थः । अत्र करणे तृतीया साधिता ।
[[50]]
[[61]]
प्रतीताप्रतीतावितिपङ्क्तिव्याख्यानम्
श्रुतप्रकाशिकास्थ “प्रतीताप्रतीतौ” इति पङ्क्तेः व्याख्यानभूतः लघुग्रन्थः ।
अपर्यवसानवृत्तिविचारः
सर्वेषां अपि शब्दानां अपर्यवसानवृत्या ब्रह्मपर्यन्तबोधकत्वं अस्ति इति सिद्धान्तः। तत्साधनपरः अयं ग्रन्थः ।
अनुवर्तमानत्वोपाधिविचारः
“सत्, परमार्थः, अनुवर्तमानत्वात्” इत्यनुमानेन अद्वैतिना सतः ब्रह्मणः परमार्थत्वं साधितम् । अस्मिन् अनुमाने उपाधिः दोषः उक्तः श्रीभाष्ये । तदुपरि विचारपरः ग्रन्थः ।
सत्यत्वादिस्वरूपनिरूपकत्वविचारः
सत्यत्वं, ज्ञानत्वं, अनन्तत्वं, आनन्दत्वं, अमलत्वं इति पञ्चस्वरूपनिरूपकधर्माणां लक्षणविचारः अत्र कृतः ।
श्रुतप्रकाशिकापङ्क्तिव्याख्यानानि
श्रुतप्रकाशिकापङ्क्तीनां अपेक्षितार्थकथनरूपं व्याख्यानम् । सम्प्रदायग्रन्थानां परिचयः
दुरर्थदूरीकरणम्
वचनभूषणमीमांसायाः खण्डनरूपः ग्रन्थः । सम्प्रदायविरोधिनां बाह्यानां श्रीवेदान्त- देशिकोपरि विद्दमान ईर्ष्यावशात् कृतानि तन्मतदूषणानि क्रमेण निरस्तानि अनेन ग्रन्थेन । अस्मिन् ४० अध्यायाः सन्ति । अत्र रामानुजसिद्धान्तस्य परिरक्षणं कृतम् इति विशेषः ।
[[51]]
[[62]]
चरमश्लोकाधिकारविचारः
गीतायां यः “सर्वधर्मान्” इति श्लोकः अस्ति स एव सिद्धान्ते चरमश्लोक इति नाम्ना व्यवह्रियते । तस्य व्याख्यानं श्रीमद्रहस्यत्रयसारे आचार्यैः विहितमेव । अथापि तदुपरि कृतान् आक्षेपान् निरसितुं अयं ग्रन्थः ।
आनुकूल्यसंकल्पादीनां सन्निपत्योपकारकत्वविचारः
प्रपत्यङ्गानां आनुकूल्यसंकल्पादीनां सन्निपत्योपकारकत्वं वा आरादुपकारकत्वं वा इति विचारं कृत्वा सन्निपत्यापकारकत्वं एव इति साधितम् ।
“इयं केवल” इति कारिकाव्याख्या
“इयं केवललक्ष्मीशोपायत्वप्रत्ययात्मिका” इति न्यायसिद्धाञ्जनकारिकायाः व्याख्यानरूपः ग्रन्थः । अत्र प्रपत्तेः हेतुत्वं नास्ति इति ये वदन्ति तन्निरासः कृतः इति ध्येयम्।
शरणशब्दार्थविचारः
द्वयस्थ शरणशब्दार्थविचारपरः ग्रन्थः । शरणशब्दः रक्षकपरः इति साधितम् । धर्मशास्त्रग्रन्थाः
धर्मनिर्णयः
ऊढायाः पुनरुद्वाहो धर्मी न वेति विप्रतिपत्तिः । तत्र धर्म एव इति केचन आक्षिपन्ति। तन्मतनिरसनाय अयं ग्रन्थः ।
दुर्वृत्तधिक्कृतिः
समुद्रयानं द्विजानां निषिद्धं इति प्रतिपादनपरो ग्रन्थः ।
[[52]]
[[63]]
वैष्णवत्वनिरूपणम्
वैष्णवलक्षणप्रतिपादनपरः ग्रन्थः । मन्त्रसालघट्टं वेदान्ताचार्यकृतसत्क्रियाकल्पग्रन्थस्य खण्डनरूपोऽयं ग्रन्थः ।
सन्मार्गकण्टकोद्धारः
मन्त्रसालघट्टं वेदान्ताचार्यैः प्रपन्नाः मृताः चेत् तेषां सपिण्डीकरणं नानुष्ठेयमित्युक्तम्। किन्तु नारायणबलिरेव अनुष्ठेया इति निर्णीतम् । तस्य खण्डनरूपः ग्रन्थः अयम् ।
सन्मार्गकण्टकोद्धारसंग्रहः
सन्मार्गकण्टकोद्धारग्रन्थेन कोपाविष्टः श्रीवेदान्ताचार्यः तस्य खण्डनं निरमात् । परन्तु तत्र मुख्यांशानां पूर्वग्रन्थस्थानामेव संग्रहः अस्य खण्डनाय अलं इति मत्वा ताताचार्यैः अयं ग्रन्थः रचितः ।
सन्मार्गकण्टकोद्धारटिप्पणी
कोण्डङ्गि श्रीनिवासतातनामा कश्चित् असूया प्रभावात् सन्मार्गकण्टकोद्धारस्य खण्डनं “मुनिभावप्रकाशिका” इति नाम्ना अकरोत् । परन्तु तस्मिन् ग्रन्थे असूया एव दृश्यते न तु स्वस्य खण्डनं इति मत्वा तं श्रीनिवासतातं प्रबोधयितुं सन्मार्गकण्टकोद्धारस्यैव टिप्पणी लिखिता।
दर्शश्राद्धसञ्चिका
अयं मन्त्रसालघट्टं वेदान्ताचार्यकृतेः खण्डनरूपः एव ग्रन्थः । तैस्तावत् प्रातःकाले आधारशक्त्यादि तर्पणसमये “ऋक्भूतवसुरुद्र आदित्यस्वरूप” इत्यनुक्त्वा अनिरुद्धसङ्कर्षण- वासुदेव इत्येव पितृतर्पणं अष्टाक्षरवत् उपवीतेनैव कर्तव्यं इति निष्कर्षः कृतः । तत्खण्डनाय अयं ग्रन्थः।
[[53]]
[[64]]
दर्शश्राद्धसञ्चिकासमर्थनम्
दर्शश्राद्धसञ्चिकोपरि कृतानां आक्षेपाणां समाधानाय अयं ग्रन्थः ।
पतिभ्रातृस्वसृपुत्रकर्तृत्वपौर्वापर्यविचारः
अयमपि ग्रन्थः नैव उपलभ्यते ।
एकदिनैकदेवताकश्राद्धद्वयनिषेधविचारः
एकस्मिन् दिने एकदेवताकश्राद्धद्वयं न कर्तव्यम् । परन्तु विभिन्नदेवताकश्राद्धद्वयं तु एकस्मिन् दिने कर्तुं शक्यते । यथा- अष्टका, अन्वष्टकाश्राद्धं (कदाचिदेव भवति) ।
प्रथमोपाकर्मदोषतारतम्यविचारः
आद्दोपाकृतेः कालनिर्णयार्थं अयं ग्रन्थः रचितः । अत्र ग्रहणशुक्रमूढादिदोषाणां तारतम्यमपि विचारितम् ।
भगवदाराधनप्रयोगः
अयं च ग्रन्थः भगवदाराधनप्रक्रियाबोधकग्रन्थः ।
प्रपत्तिप्रयोगः
प्रपत्यनुष्ठानकाले क्रियमाणायाः प्रक्रियायाः स्वरूपकथनपरः अयं ग्रन्थः । सर्वे ग्रन्थाः निरूपिताः इत्यलं विस्तरेण ।
शिष्याः
इदमस्ति वैशिष्ट्यं एतेषां यत् मतत्रयेऽपि शिष्यसन्ततिरेव । कश्चित् अध्यापकः विशिष्टाद्वैतमेव पाठयति कश्चिच्च अद्वैतं वा द्वैतं वा । परन्तु एते मतत्रयग्रन्थानपि तन्मतानुगुणमेव पाठयन्ति स्म इति विशेषः एतेषाम् ।
[[54]]
[[65]]
न्यायशास्त्रीयशिष्याः
- i) तिरुप्पुक्कुलि गोपालताताचार्याः (ग्रन्थकर्तुः पुत्रः)
- ii) एलत्तूर् मध्वाचार्यः
- iii) काञ्ची रामचन्द्राचार्यः
- iv) तुम्बवनं धर्मव्याधार् सुब्रम्हण्यशास्त्रिणः
- v) वेंकटरामशास्त्रिणः
- vi) परवस्तु वेंकटाचार्यः
- vii) कप्यामूर् एम्बार्जीयर्
- viii) काञ्ची ईच्चम्बाडि कुण्डलं नरसिंहाचार्यः
- ix) देसूर् वरदाचार्यः
- x) श्रीरङ्गं भीमाचार्यः इत्यादयः अनेके पण्डिताः ।
व्याकरणशास्त्रीयशिष्याः
- i) पिल्लैपाक्कम्. गोपालाचार्याः
- ii) कलत्तूर्. यज्ञदीक्षितः
- iii) मेल्पाक्कम्. वीरराघवताताचार्यः
- iv) अय्या. राजगोपालताताचार्यः
- v) मध्वकृष्णाचार्यः
- vi) श्रीमुष्णम्. भूवराहाचार्यः
- vii) धर्मव्याधार् सुब्रम्हण्यशास्त्रिणः इत्यादयः अनेके ।
[[66]]
मीमांसाशास्त्रीयशिष्याः
- i) नावल्पाक्कम्. रामानुजताताचार्यः
- ii) तिरुप्पुक्कुळि गोपालताताचार्यः
- iii) बुच्चि रङ्गनाथाचार्यः
- iv) पौण्डरीकपुरं आण्डवन् श्रीनिवासमहादेशिकन्
- v) विल्लियंपाक्कम् गोपालताताचार्यः इत्यादयः अनेके ।
वेदान्तशास्त्रीयशिष्याः
- i) विल्लियंपाक्कम्. गोपालताताचार्यः
- ii) तिरुप्पुक्कुळि. गोपालताताचार्यः
- iii) विल्लियंपाक्कम्. राघवताताचार्यः
- iv) तण्ड्री. श्रीनिवासताताचार्यः
- v) अय्या. रघुनाथताताचार्यः
- vi) चेल्लम्. ताताचार्यः
- vii) मन्त्रसालघट्टं. चक्रवर्ति यज्ञवराहाचार्यः
- viii) नडादूर्. नरसिंहाचार्यः
- ix) मण्डपम्. श्रीनिवासाचार्यः
- x) कोण्णङ्गि. वाधूलराजगोपालाचार्यः
- xi) अवलूर्. तिरुवेङ्कटाचार्यः
- xii) श्रीरङ्गं. वेदान्ताचार्यः
[[56]]
[[67]]
अद्वैतमतशिष्याः
(ग्रन्थाः - अद्वैतसिद्धिः, ब्रह्मानन्दीयम्, खण्डनम्)
- i) धर्मव्याधार्. सुब्रम्हण्यशास्त्रिणः
- ii) वेंकटरामशास्त्रिणः
द्वैतमतशिष्याः
(ग्रन्थाः - न्यायामृतम्, वनमालामिश्रीयम्)
- i) एलत्तूर्. मध्वाचार्यः
- ii) काञ्ची रामचन्द्राचार्यः
- iii) श्रीरङ्गं. भीमाचार्यः
एवं अनेके जनाः द्रविडभाषाध्ययनार्थं एतेषां चरणारविन्दं प्राप्तवन्तः इति अस्ति महती कीर्तिः श्रीकृष्णताताचार्याणाम् । एतेषां वादकुशलत्वमपि सुदूरं विचारितमेव प्राक्तनाचार्यैः इति न तत्र मम लेखनव्यापारः।