उज्ज्वलोपायः

Source: TW

परिचयः

अथ स्वातन्त्र्ययत्नपरिचयः।

अद्य सर्वो जनो
वैश्विकम् औद्योगिकं तन्त्रम् आश्रितः।
वयं तथा न स्याम।
न चास्माकं सन्ततयः।
अस्य प्रयोजनम्
अस्माभिः स्वातन्त्र्य-महत्त्व-विचारे कथितम्।
स्वातन्त्र्योपाया अपि संगृह्यन्ते। विषयेऽस्मिन् संवादाय सन्देशधारा च कृता।

इति स्वातन्त्र्ययत्नपरिचयः।

महत्त्वम्।

वैश्विक उद्योग-तन्त्रे ऽनाश्रयस्य
द्विविधं महत्त्वम्।
तत्र प्रथमं यद् अनाश्रितानां बुद्धिस्
तेन तन्त्रेण यद्-ऋच्छया न नियन्त्र्यते।
य आश्रितास् त्व् अन्नं मनो-विनोदं चान्यच् च सर्वं
तन्त्राद् एव लभन्ते
तेषां मनो बुद्धिश् च
तस्य मायया विक्रियते।
कृत्रिमं स्वाद्व् अप्य् अहितम् अन्नम् अत्तुं
वित्तोपार्जनाय तन्त्रस्यैव भृत्यत्वं स्वीकुर्वन्ति।
अन्यथाऽपि बहुधा परिचाल्यन्ते
ऽहितकर्मसु योज्यन्ते च।
तद् अन्यत्र कथयिष्यामः।

द्वितीयं यत् कालेन क्षीयमाणेनोद्योगेन सह
वयम् अस्माकं सन्ततयश् च
न म्रियेयुर् इत्य् एतद्-अर्थम्
अनाश्रय आवश्यकः।
यस् तु नागरो जनः सर्वथाश्रितः
स तन्त्रस्य साहाय्यं विना
मासम् अपि न जीवितुं शक्नोति। तन्त्रेणोपायैर् बह्व्-अन्नम् उत्पाद्यते।
तेषु भ्रष्टेषु पृथिवीयं
जनस्य दशमम् अपि भागं न बिभर्तुं शक्नोति।
केचिद् एव जीविष्यन्ति।
तेषु जीवत्स्व्
अस्माकं सन्ततयः स्युर् अनाश्रितास् तन्त्रे।

इति स्वातन्त्र्य-महत्त्वं संक्षेपेण।

उपायसंग्रहः।

इह स्वातन्त्र्योपायाः संगृह्यन्ते। कालक्रमेणायं संग्रहो वर्धिष्यते।

अथोपायाः।

स्थाननिश्चयविचारः

तद्धितं यद्वयं यत्र कुत्रापि जीवितुं शक्ताः स्म। तथापि प्रारम्भे सन्निवेशायान्योऽन्यमवद्भिः समनोभिर्जनैः सह प्राकृतजीवनवृत्तिं शिक्षितुं चैकं स्थानं निश्चेतव्यमेव। तत्कीदृशं स्यादित्यत्र बहु चिन्तनीयम्। अत्रास्माकं मतं प्रकटयामः।

तत्र जलं सुलभं स्यात्। जनसम्मर्दो न स्याद्यादृश उत्तरप्रदेशादिषु राज्येषु दृश्यते। नगराणि विरलानि स्युः। यतो हि तन्त्रे क्षीयमाणे बहुजने प्रदेशे चौरकर्माण्यतितरां वर्धिष्यन्ते। अथ वनानि स्युः समीपतः समिदाहरणाय पशुभ्यस्तृणादिसम्पादनाय च।

परिवेशी जनः सरलः स्यात्।

अस्मभ्यं नर्मदाप्रदेशोऽततिरां रोचते सर्वथा।
तत्रत्या वनवासिनोऽपि सरलाः सन्ति।

अन्येऽप्यत्र विचाराः सन्ति यान्कालक्रमेण कथयिष्यामः।

इति स्थाननिश्चयविचारः।

विश्वास-टिप्पनी

अत्र विचार्यताम् - आदरप्राप्त्यर्थम् अपि म्लेच्छाक्रान्तदेशं गच्छेम। तत्राजपालनं वा यत्किञ्चिद् अन्यद् अपि शक्यं सुखेन, न प्रलयक्षोभभयं तावत्। किम् बहुना, प्राप्तावकाशास् तत्र राज्यम् अपि स्थापयेम, यथा पूर्वं चक्रुर् अत्रास्मत्पूर्वजाः। विश्वम् आर्यी क्रियतां नाम। नर्मदातीराद् अप्य् अतिरिच्यतय् एषु विषयेषु।

अजपालनमहत्त्वम्

अजानामन्नसंपादने विशिष्टं स्थानम्। ते गोभ्योऽधिकवैविध्यतरं वनस्पतिमदति। अनावृष्टेः कारणादल्पशाद्वलत्वं सोढुं शक्ताः। अद्य प्राकृतिकशाद्वलान्यल्पान्येव। सर्वत्र कृषिः प्रवर्तिता। वनानि च प्रशासनस्य नियन्त्रणे सन्ति। एवं सति गोभ्यः तृणं कृषकेभ्य एव लब्धुं शक्यते। तत्कृमिहत्यायै विषेण सिच्यते। अतस्तदविचार्य न ग्राह्यम्। अजास्तु वृक्षाणां पर्णैरपि पुष्यन्ति।

वेदेऽप्यजानां महत्त्वम्। देवं पूषणं वहन्ति ते।

आ॑ ते र॑थस्य पूष– न्नजा॑ धु॑रं ववृत्युः।

इत्यजपालनमहत्त्वम्।

तन्त्रसादनविचारः।

स्वातन्त्र्यायौद्योगिकतन्त्रस्य त्वरिततर-सादनम् उद्दिश्यापि
समुद्यमः कर्तुं शक्यते।
एतद्-विषये महता गणितज्ञेन (काग्ज़िन्स्किनाम्ना) केनचित् प्रेरिता जनाः।
स लेखम् एकं चकार -
औद्योगिक-समाजस्तस्य भविष्यच् चेति नाम।

इदं तन्त्रं
दिने दिने सुशक्ततरं जायते।
जनान् आत्मवशे करोति।
पृथिवीं नाशयति च।
अतस्तस्य शीघ्रं सादनं श्रेयः।

विश्वास-टिप्पनी

औद्योगिकजीवनस्याधार ऊर्जा।
तैलरूपायास् तस्या नाशेन साकं क्षीणा क्षीणा हि जायिष्यते।

इति तन्त्रसादनविचारः।

आदरोपायाः

परेषाम् अनुकलत्वम् अवाप्तुं
तेषाम् अस्मास्व् आदरः स्यात्,
अस्माकं स्त्री-बाल-विस्रम्भणाय च।
स यथा प्राप्तव्यस्
तद्-उपायाः कथ्यन्ते।

उन्नते स्थाने गृहाणि कार्याणि।
भित्तयः सुधामयाः स्युः।
गृहच्छदिः प्रस्तरैर् इष्टकाभिर् वा कृता स्यान्
न तु तृणादिकैः केवलम्।

औद्योगिक-तन्त्राद्
यत् किम् अपि गृह्यते
न तु नूतनान्य् आविष्कृतानि द्रव्याणि ग्राह्याणि।
विशेषतो यानि पृथिव्यां गभीरं छिद्रं कृत्वा लब्धेन सर्पिषा क्रियन्ते।

विस्तारः (द्रष्टुं नोद्यम्)

इदम् अप्य् असत्। यतो ऽस्माभिर् अ-गृहीतं तैलं
प्रकृतिनाशायैव प्रयोक्ष्यते दस्युभिः। वरं तद्ग्रहणेन स्वसन्तति-जय-साधनम्।

तैलस्य तन्निर्मितद्रव्यस्य चाहरणमात्रेण
न खलु वयं पृथिवीं रक्षितुं क्षमाः।
अस्माकं किञ्चित् साहाय्यं करिष्यति जीवने - तत् सत्यम्।
किन्तु कालेन द्वयोर् एका गतिर् निश्चिता।
तेषु द्रव्येषु क्षीयमाणेषु
कष्टं वा भविष्यत्य् अनभ्यासात् तद्विना जीवितुम्।
अथ वा पुनस् तद्-ग्रहणायास्माभिः प्रसारित-हस्तैस् तन्त्रस्याग्रे याच्ञा करिष्यते।

तन्त्रस्य सादने तु सर्वं प्रयोक्तव्यं तेन कृतम् अपि।
तत्र न दोषः।
सोऽपि माया॑भिर् मायि॑नं सक्षद् इ॑न्द्रः।

पुनस् तैलनाशे समुत्पन्ने तद्-विनैव जीवनम् अन्तरा को नाम विकल्पः …

ये वदन्ति
वयं प्रकृतिजीविन इति
तेषां समीपे चित्रवर्णानां नव्यद्रव्यानां दर्शनेन
यादृश आदर-भङ्गो भवति
स नान्यथा भवितुं शक्नोति।

अथास्माकं वस्त्राणि शुचीनि स्युः।
मुखे संस्कृता वाणी स्यात्।
यानि व्रतानि धृतानि
तानि सम्यक्पालनीयानि।(5)

अन्येऽपि बहव उपायाश् चिन्तयितुं शक्याः।
पुनश्च यद्य् आदरो न जन्यते परेषु
तर्हि (तेषु) भयं स्यान् नान्यो भावः श्रेयान्।

इत्यादरोपायाः।