जनमेजय उवाच 001
भीष्मद्रोणौ महात्मानौ धृतराष्ट्रश्च पार्थिवः 001a
विराटद्रुपदौ चोभौ शङ्खश्चैवोत्तरस्तथा 001c
धृष्टकेतुर्जयत्सेनो राजा चैव स सत्यजित् 002a
दुर्योधनसुताश्चैव शकुनिश्चैव सौबलः 002c
कर्णपुत्राश्च विक्रान्ता राजा चैव जयद्रथः 003a
घटोत्कचादयश्चैव ये चान्ये नानुकीर्तिताः 003c
ये चान्ये कीर्तितास्तत्र राजानो दीप्तमूर्तयः 004a
स्वर्गे कालं कियन्तं ते तस्थुस्तदपि शंस मे 004c
आहो स्विच्छाश्वतं स्थानं तेषां तत्र द्विजोत्तम 005a
अन्ते वा कर्मणः कां ते गतिं प्राप्ता नरर्षभाः 005c
एतदिच्छाम्यहं श्रोतुं प्रोच्यमानं त्वया द्विज 005e
सूत उवाच 006
इत्युक्तः स तु विप्रर्षिरनुज्ञातो महात्मना 006a
व्यासेन तस्य नृपतेराख्यातुमुपचक्रमे 006c
वैशम्पायन उवाच 007
गन्तव्यं कर्मणामन्ते सर्वेण मनुजाधिप 007a
शृणु गुह्यमिदं राजन्देवानां भरतर्षभ 007c
यदुवाच महातेजा दिव्यचक्षुः प्रतापवान् 007e
मुनिः पुराणः कौरव्य पाराशर्यो महाव्रतः 008a
अगाधबुद्धिः सर्वज्ञो गतिज्ञः सर्वकर्मणाम् 008c
वसूनेव महातेजा भीष्मः प्राप महाद्युतिः 009a
अष्टावेव हि दृश्यन्ते वसवो भरतर्षभ 009c
बृहस्पतिं विवेशाथ द्रोणो ह्यङ्गिरसां वरम् 010a
कृतवर्मा तु हार्दिक्यः प्रविवेश मरुद्गणम् 010c
सनत्कुमारं प्रद्युम्नः प्रविवेश यथागतम् 011a
धृतराष्ट्रो धनेशस्य लोकान्प्राप दुरासदान् 011c
धृतराष्ट्रेण सहिता गान्धारी च यशस्विनी 012a
पत्नीभ्यां सहितः पाण्डुर्महेन्द्रसदनं ययौ 012c
विराटद्रुपदौ चोभौ धृष्टकेतुश्च पार्थिवः 013a
निशठाक्रूरसाम्बाश्च भानुः कम्पो विडूरथः 013c
भूरिश्रवाः शलश्चैव भूरिश्च पृथिवीपतिः 014a
उग्रसेनस्तथा कंसो वसुदेवश्च वीर्यवान् 014c
उत्तरश्च सह भ्रात्रा शङ्खेन नरपुङ्गवः 015a
विश्वेषां देवतानां ते विविशुर्नरसत्तमाः 015c
वर्चा नाम महातेजाः सोमपुत्रः प्रतापवान् 016a
सोऽभिमन्युर्नृसिंहस्य फल्गुनस्य सुतोऽभवत् 016c
स युद्ध्वा क्षत्रधर्मेण यथा नान्यः पुमान्क्वचित् 017a
विवेश सोमं धर्मात्मा कर्मणोऽन्ते महारथः 017c
आविवेश रविं कर्णः पितरं पुरुषर्षभ 018a
द्वापरं शकुनिः प्राप धृष्टद्युम्नस्तु पावकम् 018c
धृतराष्ट्रात्मजाः सर्वे यातुधाना बलोत्कटाः 019a
ऋद्धिमन्तो महात्मानः शस्त्रपूता दिवं गताः 019c
धर्ममेवाविशत्क्षत्ता राजा चैव युधिष्ठिरः 019e
अनन्तो भगवान्देवः प्रविवेश रसातलम् 020a
पितामहनियोगाद्धि यो योगाद्गामधारयत् 020c
षोडशस्त्रीसहस्राणि वासुदेवपरिग्रहः 021a
न्यमज्जन्त सरस्वत्यां कालेन जनमेजय 021c
ताश्चाप्यप्सरसो भूत्वा वासुदेवमुपागमन् 021e
हतास्तस्मिन्महायुद्धे ये वीरास्तु महारथाः 022a
घटोत्कचादयः सर्वे देवान्यक्षांश्च भेजिरे 022c
दुर्योधनसहायाश्च राक्षसाः परिकीर्तिताः 023a
प्राप्तास्ते क्रमशो राजन्सर्वलोकाननुत्तमान् 023c
भवनं च महेन्द्रस्य कुबेरस्य च धीमतः 024a
वरुणस्य तथा लोकान्विविशुः पुरुषर्षभाः 024c
एतत्ते सर्वमाख्यातं विस्तरेण महाद्युते 025a
कुरूणां चरितं कृत्स्नं पाण्डवानां च भारत 025c
सूत उवाच 026
एतच्छ्रुत्वा द्विजश्रेष्ठात्स राजा जनमेजयः 026a
विस्मितोऽभवदत्यर्थं यज्ञकर्मान्तरेष्वथ 026c
ततः समापयामासुः कर्म तत्तस्य याजकाः 027a
आस्तीकश्चाभवत्प्रीतः परिमोक्ष्य भुजङ्गमान् 027c
ततो द्विजातीन्सर्वांस्तान्दक्षिणाभिरतोषयत् 028a
पूजिताश्चापि ते राज्ञा ततो जग्मुर्यथागतम् 028c
विसर्जयित्वा विप्रांस्तान्राजाऽपि जनमेजयः 029a
ततस्तक्षशिलायाः स पुनरायाद्गजाह्वयम् 029c
एतत्ते सर्वमाख्यातं वैशम्पायनकीर्तितम् 030a
व्यासाज्ञया समाख्यातं सर्पसत्रे नृपस्य ह 030c
पुण्योऽयमितिहासाख्यः पवित्रं चेदमुत्तमम् 031a
कृष्णेन मुनिना विप्र नियतं सत्यवादिना 031c
सर्वज्ञेन विधिज्ञेन धर्मज्ञानवता सता 032a
अतीन्द्रियेण शुचिना तपसा भावितात्मना 032c
ऐश्वर्ये वर्तता चैव साङ्ख्ययोगविदा तथा 033a
नैकतन्त्रविबुद्धेन दृष्ट्वा दिव्येन चक्षुषा 033c
कीर्तिं प्रथयता लोके पाण्डवानां महात्मनाम् 034a
अन्येषां क्षत्रियाणां च भूरिद्रविणतेजसाम् 034c
य इदं श्रावयेद्विद्वान्सदा पर्वणि पर्वणि 035a
धूतपाप्मा जितस्वर्गो ब्रह्मभूयाय गच्छति 035c
यश्चेदं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः 036a
अक्षय्यमन्नपानं वै पितॄंस्तस्योपतिष्ठते 036c
अह्ना यदेनः कुरुते इन्द्रियैर्मनसाऽपि वा 037a
महाभारतमाख्याय पश्चात्सन्ध्यां प्रमुच्यते 037c
धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ 038a
यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् 038c
जयो नामेतिहासोऽयं श्रोतव्यो भूतिमिच्छता 039a
राज्ञा राजसुतैश्चापि गर्भिण्या चैव योषिता 039c
स्वर्गकामो लभेत्स्वर्गं जयकामो लभेज्जयम् 040a
गर्भिणी लभते पुत्रं कन्यां वा बहुभागिनीम् 040c
अनागतं त्रिभिर्वर्षैः कृष्णद्वैपायनः प्रभुः 041a
सन्दर्भं भारतस्यास्य कृतवान्धर्मकाम्यया 041c
नारदोऽश्रावयद्देवानसितो देवलः पितॄन् 042a
रक्षो यक्षाञ्शुको मर्त्यान्वैशम्पायन एव तु 042c
इतिहासमिमं पुण्यं महार्थं वेदसम्मितम् 043a
श्रावयेद्यस्तु वर्णांस्त्रीन्कृत्वा ब्राह्मणमग्रतः 043c
स नरः पापनिर्मुक्तः कीर्तिं प्राप्येह शौनक 044a
गच्छेत्परमिकां सिद्धिमत्र मे नास्ति संशयः 044c
भारताध्ययनात्पुण्यादपि पादमधीयतः 045a
श्रद्दधानस्य पूयन्ते सर्वपापान्यशेषतः 045c
महर्षिर्भगवान्व्यासः कृत्वेमां संहितां पुरा 046a
श्लोकैश्चतुर्भिर्भगवान्पुत्रमध्यापयच्छुकम् 046c
मातापितृसहस्राणि पुत्रदारशतानि च 047a
संसारेष्वनुभूतानि यान्ति यास्यन्ति चापरे 047c
हर्षस्थानसहस्राणि भयस्थानशतानि च 048a
दिवसे दिवसे मूढमाविशन्ति न पण्डितम् 048c
ऊर्ध्वबाहुर्विरौम्येष न च कश्चिच्छृणोति मे 049a
धर्मादर्थश्च कामश्च स किमर्थं न सेव्यते 049c
न जातु कामान्न भयान्न लोभाद्धर्मं त्यजेज्जीवितस्यापि हेतोः 050a
नित्यो धर्मः सुखदुःखे त्वनित्ये जीवो नित्यो हेतुरस्य त्वनित्यः 050c
इमां भारतसावित्रीं प्रातरुत्थाय यः पठेत् 051a
स भारतफलं प्राप्य परं ब्रह्माधिगच्छति 051c
यथा समुद्रो भगवान्यथा च हिमवान्गिरिः 052a
ख्यातावुभौ रत्ननिधी तथा भारतमुच्यते 052c
महाभारतमाख्यानं यः पठेत्सुसमाहितः 053a
स गच्छेत्परमां सिद्धिमिति मे नास्ति संशयः 053c
द्वैपायनोष्ठपुटनिःसृतमप्रमेयं पुण्यं पवित्रमथ पापहरं शिवं च 054a
यो भारतं समधिगच्छति वाच्यमानं किं तस्य पुष्करजलैरभिषेचनेन 054c