वैशम्पायन उवाच 001
ततो युधिष्ठिरो राजा देवैः सर्षिमरुद्गणैः 001a
पूज्यमानो ययौ तत्र यत्र ते कुरुपुङ्गवाः 001c
ददर्श तत्र गोविन्दं ब्राह्मेण वपुषाऽन्वितम् 002a
तेनैव दृष्टपूर्वेण सादृश्येनोपसूचितम् 002c
दीप्यमानं स्ववपुषा दिव्यैरस्त्रैरुपस्थितम् 003a
चक्रप्रभृतिभिर्घोरैर्दिव्यैः पुरुषविग्रहैः 003c
उपास्यमानं वीरेण फल्गुनेन सुवर्चसा 003e
अपरस्मिन्नथोद्देशे कर्णं शस्त्रभृतां वरम् 004a
द्वादशादित्यसहितं ददर्श कुरुनन्दनः 004c
अथापरस्मिन्नुद्देशे मरुद्गणवृतं प्रभुम् 005a
भीमसेनमथापश्यत्तेनैव वपुषाऽन्वितम् 005c
अश्विनोस्तु तथा स्थाने दीप्यमानौ स्वतेजसा 006a
नकुलं सहदेवं च ददर्श कुरुनन्दनः 006c
तथा ददर्श पाञ्चालीं कमलोत्पलमालिनीम् 007a
वपुषा स्वर्गमाक्रम्य तिष्ठन्तीमर्कवर्चसम् 007c
अथैनां सहसा राजा प्रष्टुमैच्छद्युधिष्ठिरः 008a
ततोऽस्य भगवानिन्द्रः कथयामास देवराट् 008c
श्रीरेषा द्रौपदीरूपा त्वदर्थे मानुषं गता 009a
अयोनिजा लोककान्ता पुण्यगन्धा युधिष्ठिर 009c
द्रुपदस्य कुले जाता भवद्भिश्चोपजीविता 010a
रत्यर्थं भवतां ह्येषा निर्मिता शूलपाणिना 010c
एते पञ्च महाभागा गन्धर्वाः पावकप्रभाः 011a
द्रौपद्यास्तनया राजन्युष्माकममितौजसः 011c
पश्य गन्धर्वराजानं धृतराष्ट्रं मनीषिणम् 012a
एनं च त्वं विजानीहि भ्रातरं पूर्वजं पितुः 012c
अयं ते पूर्वजो भ्राता कौन्तेयः पावकद्युतिः 013a
सूर्यपुत्रोऽग्रजः श्रेष्ठो राधेय इति विश्रुतः 013c
आदित्यसहितो याति पश्यैनं पुरुषर्षभ 013e
साध्यानामथ देवानां वसूनां मरुतामपि 014a
गणेषु पश्य राजेन्द्र वृष्ण्यन्धकमहारथान् 014c
सात्यकिप्रमुखान्वीरान्भोजांश्चैव महारथान् 014e
सोमेन सहितं पश्य सौभद्रमपराजितम् 015a
अभिमन्युं महेष्वासं निशाकरसमद्युतिम् 015c
एष पाण्डुर्महेष्वासः कुन्त्या माद्र्या च सङ्गतः 016a
विमानेन सदाऽभ्येति पिता तव ममान्तिकम् 016c
वसुभिः सहितं पश्य भीष्मं शान्तनवं नृपम् 017a
द्रोणं बृहस्पतेः पार्श्वे गुरुमेनं निशामय 017c
एते चान्ये महीपाला योधास्तव च पाण्डव 018a
गन्धर्वैः सहिता यान्ति यक्षैः पुण्यजनैस्तथा 018c
गुह्यकानां गतिं चापि केचित्प्राप्ता नृसत्तमाः 019a
त्यक्त्वा देहं जितस्वर्गाः पुण्यवाग्बुद्धिकर्मभिः 019c