वैशम्पायन उवाच 001
स्थिते मुहूर्तं पार्थे तु धर्मराजे युधिष्ठिरे 001a
आजग्मुस्तत्र कौरव्य देवाः शक्रपुरोगमाः 001c
स्वयं विग्रहवान्धर्मो राजानं प्रसमीक्षितुम् 002a
तत्राऽऽजगाम यत्रासौ कुरुराजो युधिष्ठिरः 002c
तेषु भास्वरदेहेषु पुण्याभिजनकर्मसु 003a
समागतेषु देवेषु व्यगमत्तत्तमो नृप 003c
नादृश्यन्त च तास्तत्र यातनाः पापकर्मिणाम् 004a
नदी वैतरणी चैव कूटशाल्मलिना सह 004c
लोहकुम्भ्यः शिलाश्चैव नादृश्यन्त भयानकाः 005a
विकृतानि शरीराणि यानि तत्र समन्ततः 005c
ददर्श राजा कौन्तेयस्तान्यदृश्यानि चाभवन् 005e
ततो वायुः सुखस्पर्शः पुण्यगन्धवहः शिवः 006a
ववौ देवसमीपस्थः शीतलोऽतीव भारत 006c
मरुतः सह शक्रेण वसवश्चाश्विनौ सह 007a
साध्या रुद्रास्तथादित्या ये चान्येऽपि दिवौकसः 007c
सर्वे तत्र समाजग्मुः सिद्धाश्च परमर्षयः 008a
यत्र राजा महातेजा धर्मपुत्रः स्थितोऽभवत् 008c
ततः शक्रः सुरपतिः श्रिया परमया युतः 009a
युधिष्ठिरमुवाचेदं सान्त्वपूर्वमिदं वचः 009c
युधिष्ठिर महाबाहो प्रीता देवगणास्तव 010a
एह्येहि पुरुषव्याघ्र कृतमेतावता विभो 010c
सिद्धिः प्राप्ता त्वया राजल्ँलोकाश्चाप्यक्षयास्तव 010e
न च मन्युस्त्वया कार्यः शृणु चेदं वचो मम 011a
अवश्यं नरकस्तात द्रष्टव्यः सर्वराजभिः 011c
शुभानामशुभानां च द्वौ राशी पुरुषर्षभ 012a
यः पूर्वं सुकृतं भुङ्क्ते पश्चान्निरयमेति सः 012c
पूर्वं नरकभाग्यस्तु पश्चात्स्वर्गमुपैति सः 012e
भूयिष्ठं पापकर्मा यः स पूर्वं स्वर्गमश्नुते 013a
तेन त्वमेवं गमितो मया श्रेयोर्थिना नृप 013c
व्याजेन हि त्वया द्रोण उपचीर्णः सुतं प्रति 014a
व्याजेनैव ततो राजन्दर्शितो नरकस्तव 014c
यथैव त्वं तथा भीमस्तथा पार्थो यमौ तथा 015a
द्रौपदी च तथा कृष्णा व्याजेन नरकं गताः 015c
आगच्छ नरशार्दूल मुक्तास्ते चैव किल्बिषात् 016a
स्वपक्षाश्चैव ये तुभ्यं पार्थिवा निहता रणे 016c
सर्वे स्वर्गमनुप्राप्तास्तान्पश्य पुरुषर्षभ 016e
कर्णश्चैव महेष्वासः सर्वशस्त्रभृतां वरः 017a
स गतः परमां सिद्धिं यदर्थं परितप्यसे 017c
तं पश्य पुरुषव्याघ्रमादित्यतनयं विभो 018a
स्वस्थानस्थं महाबाहो जहि शोकं नरर्षभ 018c
भ्रातॄंश्चान्यांस्तथा पश्य स्वपक्षांश्चैव पार्थिवान् 019a
स्वं स्वं स्थानमनुप्राप्तान्व्येतु ते मानसो ज्वरः 019c
अनुभूय पूर्वं त्वं कृच्छ्रमितः प्रभृति कौरव 020a
विहरस्व मया सार्धं गतशोको निरामयः 020c
कर्मणां तात पुण्यानां जितानां तपसा स्वयम् 021a
दानानां च महाबाहो फलं प्राप्नुहि पाण्डव 021c
अद्य त्वां देवगन्धर्वा दिव्याश्चाप्सरसो दिवि 022a
उपसेवन्तु कल्याणं विरजोऽम्बरवाससः 022c
राजसूयजिताल्ँलोकानश्वमेधाभिवर्धितान् 023a
प्राप्नुहि त्वं महाबाहो तपसश्च फलं महत् 023c
उपर्युपरि राज्ञां हि तव लोका युधिष्ठिर 024a
हरिश्चन्द्रसमाः पार्थ येषु त्वं विहरिष्यसि 024c
मान्धाता यत्र राजर्षिर्यत्र राजा भगीरथः 025a
दौःषन्तिर्यत्र भरतस्तत्र त्वं विहरिष्यसि 025c
एषा देवनदी पुण्या पार्थ त्रैलोक्यपावनी 026a
आकाशगङ्गा राजेन्द्र तत्राप्लुत्य गमिष्यसि 026c
अत्र स्नातस्य ते भावो मानुषो विगमिष्यति 027a
गतशोको निरायासो मुक्तवैरो भविष्यसि 027c
एवं ब्रुवति देवेन्द्रे कौरवेन्द्रं युधिष्ठिरम् 028a
धर्मो विग्रहवान्साक्षादुवाच सुतमात्मनः 028c
भो भो राजन्महाप्राज्ञ प्रीतोऽस्मि तव पुत्रक 029a
मद्भक्त्या सत्यवाक्येन क्षमया च दमेन च 029c
एषा तृतीया जिज्ञासा तव राजन्कृता मया 030a
न शक्यसे चालयितुं स्वभावात्पार्थ हेतुभिः 030c
पूर्वं परीक्षितो हि त्वमासीर्द्वैतवनं प्रति 031a
अरणीसहितस्यार्थे तच्च निस्तीर्णवानसि 031c
सोदर्येषु विनष्टेषु द्रौपद्यां तत्र भारत 032a
श्वरूपधारिणा पुत्र पुनस्त्वं मे परीक्षितः 032c
इदं तृतीयं भ्रातॄणामर्थे यत्स्थातुमिच्छसि 033a
विशुद्धोऽसि महाभाग सुखी विगतकल्मषः 033c
न च ते भ्रातरः पार्थ नरकस्था विशां पते 034a
मायैषा देवराजेन महेन्द्रेण प्रयोजिता 034c
अवश्यं नरकस्तात द्रष्टव्यः सर्वराजभिः 035a
ततस्त्वया प्राप्तमिदं मुहूर्तं दुःखमुत्तमम् 035c
न सव्यसाची भीमो वा यमौ वा पुरुषर्षभौ 036a
कर्णो वा सत्यवाक्शूरो नरकार्हाश्चिरं नृप 036c
न कृष्णा राजपुत्री च नरकार्हा युधिष्ठिर 037a
एह्येहि भरतश्रेष्ठ पश्य गङ्गां त्रिलोकगाम् 037c
एवमुक्तः स राजर्षिस्तव पूर्वपितामहः 038a
जगाम सह धर्मेण सर्वैश्च त्रिदशालयैः 038c
गङ्गां देवनदीं पुण्यां पावनीमृषिसंस्तुताम् 039a
अवगाह्य तु तां राजा तनुं तत्याज मानुषीम् 039c
ततो दिव्यवपुर्भूत्वा धर्मराजो युधिष्ठिरः 040a
निर्वैरो गतसन्तापो जले तस्मिन्समाप्लुतः 040c
ततो ययौ वृतो देवैः कुरुराजो युधिष्ठिरः 041a
धर्मेण सहितो धीमान्स्तूयमानो महर्षिभिः 041c