युधिष्ठिर उवाच 001
नेह पश्यामि विबुधा राधेयममितौजसम् 001a
भ्रातरौ च महात्मानौ युधामन्यूत्तमौजसौ 001c
जुहुवुर्ये शरीराणि रणवह्नौ महारथाः 002a
राजानो राजपुत्राश्च ये मदर्थे हता रणे 002c
क्व ते महारथाः सर्वे शार्दूलसमविक्रमाः 003a
तैरप्ययं जितो लोकः कच्चित्पुरुषसत्तमैः 003c
यदि लोकानिमान्प्राप्तास्ते च सर्वे महारथाः 004a
स्थितं वित्त हि मां देवाः सहितं तैर्महात्मभिः 004c
कच्चिन्न तैरवाप्तोऽयं नृपैर्लोकोऽक्षयः शुभः 005a
न तैरहं विना वत्स्ये ज्ञातिभिर्भ्रातृभिस्तथा 005c
मातुर्हि वचनं श्रुत्वा तदा सलिलकर्मणि 006a
कर्णस्य क्रियतां तोयमिति तप्यामि तेन वै 006c
इदं च परितप्यामि पुनः पुनरहं सुराः 007a
यन्मातुः सदृशौ पादौ तस्याहममितौजसः 007c
दृष्ट्वैव तं नानुगतः कर्णं परबलार्दनम् 008a
न ह्यस्मान्कर्णसहिताञ्जयेच्छक्रोऽपि संयुगे 008c
तमहं यत्रतत्रस्थं द्रष्टुमिच्छामि सूर्यजम् 009a
अविज्ञातो मया योऽसौ घातितः सव्यसाचिना 009c
भीमं च भीमविक्रान्तं प्राणेभ्योऽपि प्रियं मम 010a
अर्जुनं चेन्द्रसङ्काशं यमौ तौ च यमोपमौ 010c
द्रष्टुमिच्छामि तां चाहं पाञ्चालीं धर्मचारिणीम् 011a
न चेह स्थातुमिच्छामि सत्यमेतद्ब्रवीमि वः 011c
किं मे भ्रातृविहीनस्य स्वर्गेण सुरसत्तमाः 012a
यत्र ते स मम स्वर्गो नायं स्वर्गो मतो मम 012c
देवा ऊचुः 013
यदि वै तत्र ते श्रद्धा गम्यतां पुत्र माचिरम् 013a
प्रिये हि तव वर्तामो देवराजस्य शासनात् 013c
वैशम्पायन उवाच 014
इत्युक्त्वा तं ततो देवा देवदूतमुपादिशन् 014a
युधिष्ठिरस्य सुहृदो दर्शयेति परन्तप 014c
ततः कुन्तीसुतो राजा देवदूतश्च जग्मतुः 015a
सहितौ राजशार्दूल यत्र ते पुरुषर्षभाः 015c
अग्रतो देवदूतस्तु ययौ राजा च पृष्ठतः 016a
पन्थानमशुभं दुर्गं सेवितं पापकर्मभिः 016c
तमसा संवृतं घोरं केशशैवलशाद्वलम् 017a
युक्तं पापकृतां गन्धैर्मांसशोणितकर्दमम् 017c
दंशोत्थानं सझिल्लीकं मक्षिकामशकावृतम् 018a
इतश्चेतश्च कुणपैः समन्तात्परिवारितम् 018c
अस्थिकेशसमाकीर्णं कृमिकीटसमाकुलम् 019a
ज्वलनेन प्रदीप्तेन समन्तात्परिवेष्टितम् 019c
अयोमुखैश्च काकोलैर्गृध्रैश्च समभिद्रुतम् 020a
सूचीमुखैस्तथा प्रेतैर्विन्ध्यशैलोपमैर्वृतम् 020c
मेदोरुधिरयुक्तैश्च छिन्नबाहूरुपाणिभिः 021a
निकृत्तोदरपादैश्च तत्र तत्र प्रवेरितैः 021c
स तत्कुणपदुर्गन्धमशिवं रोमहर्षणम् 022a
जगाम राजा धर्मात्मा मध्ये बहु विचिन्तयन् 022c
ददर्शोष्णोदकैः पूर्णां नदीं चापि सुदुर्गमाम् 023a
असिपत्रवनं चैव निशितक्षुरसंवृतम् 023c
करम्भवालुकास्तप्ता आयसीश्च शिलाः पृथक् 024a
लोहकुम्भीश्च तैलस्य क्वाथ्यमानाः समन्ततः 024c
कूटशाल्मलिकं चापि दुस्पर्शं तीक्ष्णकण्टकम् 025a
ददर्श चापि कौन्तेयो यातनाः पापकर्मिणाम् 025c
स तं दुर्गन्धमालक्ष्य देवदूतमुवाच ह 026a
कियदध्वानमस्माभिर्गन्तव्यमिदमीदृशम् 026c
क्व च ते भ्रातरो मह्यं तन्ममाख्यातुमर्हसि 027a
देशोऽयं कश्च देवानामेतदिच्छामि वेदितुम् 027c
स सन्निववृते श्रुत्वा धर्मराजस्य भाषितम् 028a
देवदूतोऽब्रवीच्चैनमेतावद्गमनं तव 028c
निवर्तितव्यं हि मया तथाऽस्म्युक्तो दिवौकसैः 029a
यदि श्रान्तोऽसि राजेन्द्र त्वमथागन्तुमर्हसि 029c
युधिष्ठिरस्तु निर्विण्णस्तेन गन्धेन मूर्छितः 030a
निवर्तने धृतमनाः पर्यावर्तत भारत 030c
स सन्निवृत्तो धर्मात्मा दुःखशोकसमन्वितः 031a
शुश्राव तत्र वदतां दीना वाचः समन्ततः 031c
भो भो धर्मज राजर्षे पुण्याभिजन पाण्डव 032a
अनुग्रहार्थमस्माकं तिष्ठ तावन्मुहूर्तकम् 032c
आयाति त्वयि दुर्धर्षे वाति पुण्यः समीरणः 033a
तव गन्धानुगस्तात येनास्मान्सुखमागमत् 033c
ते वयं पार्थ दीर्घस्य कालस्य पुरुषर्षभ 034a
सुखमासादयिष्यामस्त्वां दृष्ट्वा राजसत्तम 034c
सन्तिष्ठस्व महाबाहो मुहूर्तमपि भारत 035a
त्वयि तिष्ठति कौरव्य यातनास्मान्न बाधते 035c
एवं बहुविधा वाचः कृपणा वेदनावताम् 036a
तस्मिन्देशे स शुश्राव समन्ताद्वदतां नृप 036c
तेषां तद्वचनं श्रुत्वा दयावान्दीनभाषिणाम् 037a
अहो कृच्छ्रमिति प्राह तस्थौ स च युधिष्ठिरः 037c
स ता गिरः पुरस्ताद्वै श्रुतपूर्वाः पुनः पुनः 038a
ग्लानानां दुःखितानां च नाभ्यजानत पाण्डवः 038c
अबुध्यमानस्ता वाचो धर्मपुत्रो युधिष्ठिरः 039a
उवाच के भवन्तो वै किमर्थमिह तिष्ठथ 039c
इत्युक्तास्ते ततः सर्वे समन्तादवभाषिरे 040a
कर्णोऽहं भीमसेनोऽहमर्जुनोऽहमिति प्रभो 040c
नकुलः सहदेवोऽहं धृष्टद्युम्नोऽहमित्युत 041a
द्रौपदी द्रौपदेयाश्च इत्येवं ते विचुक्रुशुः 041c
ता वाचः स तदा श्रुत्वा तद्देशसदृशीर्नृप 042a
ततो विममृशे राजा किं न्विदं दैवकारितम् 042c
किं नु तत्कलुषं कर्म कृतमेभिर्महात्मभिः 043a
कर्णेन द्रौपदेयैर्वा पाञ्चाल्या वा सुमध्यया 043c
य इमे पापगन्धेऽस्मिन्देशे सन्ति सुदारुणे 044a
न हि जानामि सर्वेषां दुष्कृतं पुण्यकर्मणाम् 044c
किं कृत्वा धृतराष्ट्रस्य पुत्रो राजा सुयोधनः 045a
तथा श्रिया युतः पापः सह सर्वैः पदानुगैः 045c
महेन्द्र इव लक्ष्मीवानास्ते परमपूजितः 046a
कस्येदानीं विकारोऽयं यदिमे नरकं गताः 046c
सर्वधर्मविदः शूराः सत्यागमपरायणाः 047a
क्षात्रधर्मपराः प्राज्ञा यज्वानो भूरिदक्षिणाः 047c
किं नु सुप्तोऽस्मि जागर्मि चेतयानो न चेतये 048a
अहो चित्तविकारोऽयं स्याद्वा मे चित्तविभ्रमः 048c
एवं बहुविधं राजा विममर्श युधिष्ठिरः 049a
दुःखशोकसमाविष्टश्चिन्ताव्याकुलितेन्द्रियः 049c
क्रोधमाहारयच्चैव तीव्रं धर्मसुतो नृपः 050a
देवांश्च गर्हयामास धर्मं चैव युधिष्ठिरः 050c
स तीव्रगन्धसन्तप्तो देवदूतमुवाच ह 051a
गम्यतां भद्र येषां त्वं दूतस्तेषामुपान्तिकम् 051c
न ह्यहं तत्र यास्यामि स्थितोऽस्मीति निवेद्यताम् 052a
मत्संश्रयादिमे दूत सुखिनो भ्रातरो हि मे 052c
इत्युक्तः स तदा दूतः पाण्डुपुत्रेण धीमता 053a
जगाम तत्र यत्राऽऽस्ते देवराजः शतक्रतुः 053c
निवेदयामास च तद्धर्मराजचिकीर्षितम् 054a
यथोक्तं धर्मपुत्रेण सर्वमेव जनाधिप 054c