जनमेजय उवाच 001
स्वर्गं त्रिविष्टपं प्राप्य मम पूर्वपितामहाः 001a
पाण्डवा धार्तराष्ट्राश्च कानि स्थानानि भेजिरे 001c
एतदिच्छाम्यहं श्रोतुं सर्वविच्चासि मे मतः 002a
महर्षिणाभ्यनुज्ञातो व्यासेनाद्भुतकर्मणा 002c
वैशम्पायन उवाच 003
स्वर्गं त्रिविष्टपं प्राप्य तव पूर्वपितामहाः 003a
युधिष्ठिरप्रभृतयो यदकुर्वत तच्छृणु 003c
स्वर्गं त्रिविष्टपं प्राप्य धर्मराजो युधिष्ठिरः 004a
दुर्योधनं श्रिया जुष्टं ददर्शाऽऽसीनमासने 004c
भ्राजमानमिवादित्यं वीरलक्ष्म्याभिसंवृतम् 005a
देवैर्भ्राजिष्णुभिः साध्यैः सहितं पुण्यकर्मभिः 005c
ततो युधिष्ठिरो दृष्ट्वा दुर्योधनममर्षितः 006a
सहसा सन्निवृत्तोऽभूच्छ्रियं दृष्ट्वा सुयोधने 006c
ब्रुवन्नुच्चैर्वचस्तान्वै नाहं दुर्योधनेन वै 007a
सहितः कामये लोकाल्ँलुब्धेनादीर्घदर्शिना 007c
यत्कृते पृथिवी सर्वा सुहृदो बान्धवास्तथा 008a
हतास्माभिः प्रसह्याजौ क्लिष्टैः पूर्वं महावने 008c
द्रौपदी च सभामध्ये पाञ्चाली धर्मचारिणी 009a
परिक्लिष्टानवद्याङ्गी पत्नी नो गुरुसन्निधौ 009c
स्वस्ति देवा न मे कामः सुयोधनमुदीक्षितुम् 010a
तत्राहं गन्तुमिच्छामि यत्र ते भ्रातरो मम 010c
मैवमित्यब्रवीत्तं तु नारदः प्रहसन्निव 011a
स्वर्गे निवासो राजेन्द्र विरुद्धं चापि नश्यति 011c
युधिष्ठिर महाबाहो मैवं वोचः कथञ्चन 012a
दुर्योधनं प्रति नृपं शृणु चेदं वचो मम 012c
एष दुर्योधनो राजा पूज्यते त्रिदशैः सह 013a
सद्भिश्च राजप्रवरैर्य इमे स्वर्गवासिनः 013c
वीरलोकगतिं प्राप्तो युद्धे हुत्वाऽऽत्मनस्तनुम् 014a
यूयं सर्वे सुरसमा येन युद्धे समासिताः 014c
स एष क्षत्रधर्मेण स्थानमेतदवाप्तवान् 015a
भये महति योऽभीतो बभूव पृथिवीपतिः 015c
न तन्मनसि कर्तव्यं पुत्र यद्द्यूतकारितम् 016a
द्रौपद्याश्च परिक्लेशं न चिन्तयितुमर्हसि 016c
ये चान्येऽपि परिक्लेशा युष्माकं द्यूतकारिताः 017a
सङ्ग्रामेष्वथ वान्यत्र न तान्संस्मर्तुमर्हसि 017c
समागच्छ यथान्यायं राज्ञा दुर्योधनेन वै 018a
स्वर्गोऽयं नेह वैराणि भवन्ति मनुजाधिप 018c
नारदेनैवमुक्तस्तु कुरुराजो युधिष्ठिरः 019a
भ्रातॄन्पप्रच्छ मेधावी वाक्यमेतदुवाच ह 019c
यदि दुर्योधनस्यैते वीरलोकाः सनातनाः 020a
अधर्मज्ञस्य पापस्य पृथिवीसुहृदद्रुहः 020c
यत्कृते पृथिवी नष्टा सहया सरथद्विपा 021a
वयं च मन्युना दग्धा वैरं प्रतिचिकीर्षवः 021c
ये ते वीरा महात्मानो भ्रातरो मे महाव्रताः 022a
सत्यप्रतिज्ञा लोकस्य शूरा वै सत्यवादिनः 022c
तेषामिदानीं के लोका द्रष्टुमिच्छामि तानहम् 023a
कर्णं चैव महात्मानं कौन्तेयं सत्यसङ्गरम् 023c
धृष्टद्युम्नं सात्यकिं च धृष्टद्युम्नस्य चात्मजान् 024a
ये च शस्त्रैर्वधं प्राप्ताः क्षत्रधर्मेण पार्थिवाः 024c
क्व नु ते पार्थिवा ब्रह्मन्नैतान्पश्यामि नारद 025a
विराटद्रुपदौ चैव धृष्टकेतुमुखांश्च तान् 025c
शिखण्डिनं च पाञ्चाल्यं द्रौपदेयांश्च सर्वशः 026a
अभिमन्युं च दुर्धर्षं द्रष्टुमिच्छामि नारद 026c