वैशम्पायन उवाच 001
ततः सन्नादयञ्शक्रो दिवं भूमिं च सर्वशः 001a
रथेनोपययौ पार्थमारोहेत्यब्रवीच्च तम् 001c
स भ्रातॄन्पतितान्दृष्ट्वा धर्मराजो युधिष्ठिरः 002a
अब्रवीच्छोकसन्तप्तः सहस्राक्षमिदं वचः 002c
भ्रातरः पतिता मेऽत्र आगच्छेयुर्मया सह 003a
न विना भ्रातृभिः स्वर्गमिच्छे गन्तुं सुरेश्वर 003c
सुकुमारी सुखार्हा च राजपुत्री पुरन्दर 004a
साऽस्माभिः सह गच्छेत तद्भवाननुमन्यताम् 004c
इन्द्र उवाच 005
भ्रातॄन्द्रक्ष्यसि पुत्रांस्त्वमग्रतस्त्रिदिवं गतान् 005a
कृष्णया सहितान्सर्वान्मा शुचो भरतर्षभ 005c
निक्षिप्य मानुषं देहं गतास्ते भरतर्षभ 006a
अनेन त्वं शरीरेण स्वर्गं गन्ता न संशयः 006c
युधिष्ठिर उवाच 007
अयं श्वा भूतभव्येश भक्तो मां नित्यमेव ह 007a
स गच्छेत मया सार्धमानृशंस्या हि मे मतिः 007c
इन्द्र उवाच 008
अमर्त्यत्वं मत्समत्वं च राजञ्श्रियं कृत्स्नां महतीं चैव कीर्तिम् 008a
सम्प्राप्तोऽद्य स्वर्गसुखानि च त्वं त्यज श्वानं नात्र नृशंसमस्ति 008c
युधिष्ठिर उवाच 009
अनार्यमार्येण सहस्रनेत्र शक्यं कर्तुं दुष्करमेतदार्य 009a
मा मे श्रिया सङ्गमनं तयास्तु यस्याः कृते भक्तजनं त्यजेयम् 009c
इन्द्र उवाच 010
स्वर्गे लोके श्ववतां नास्ति धिष्ण्यमिष्टापूर्तं क्रोधवशा हरन्ति 010a
ततो विचार्य क्रियतां धर्मराज त्यज श्वानं नात्र नृशंसमस्ति 010c
युधिष्ठिर उवाच 011
भक्तत्यागं प्राहुरत्यन्तपापं तुल्यं लोके ब्रह्मवध्याकृतेन 011a
तस्मान्नाहं जातु कथञ्चनाद्य त्यक्ष्याम्येनं स्वसुखार्थी महेन्द्र 011c
इन्द्र उवाच 012
शुना दृष्टं क्रोधवशा हरन्ति यद्दत्तमिष्टं विवृतमथो हुतं च 012a
तस्माच्छुनस्त्यागमिमं कुरुष्व शुनस्त्यागात्प्राप्स्यसे देवलोकम् 012c
त्यक्त्वा भ्रातॄन्दयितां चापि कृष्णां प्राप्तो लोकः कर्मणा स्वेन वीर 013a
श्वानं चैनं न त्यजसे कथं नु त्यागं कृत्स्नं चास्थितो मुह्यसेऽद्य 013c
युधिष्ठिर उवाच 014
न विद्यते सन्धिरथापि विग्रहो मृतैर्मर्त्यैरिति लोकेषु निष्ठा 014a
न ते मया जीवयितुं हि शक्या तस्मात्त्यागस्तेषु कृतो न जीवताम् 014c
प्रतिप्रदानं शरणागतस्य स्त्रिया वधो ब्राह्मणस्वापहारः 015a
मित्रद्रोहस्तानि चत्वारि शक्र भक्तत्यागश्चैव समो मतो मे 015c
वैशम्पायन उवाच 016
तद्धर्मराजस्य वचो निशम्य धर्मस्वरूपी भगवानुवाच 016a
युधिष्ठिरं प्रीतियुक्तो नरेन्द्रं श्लक्ष्णैर्वाक्यैः संस्तवसम्प्रयुक्तैः 016c
अभिजातोऽसि राजेन्द्र पितुर्वृत्तेन मेधया 017a
अनुक्रोशेन चानेन सर्वभूतेषु भारत 017c
पुरा द्वैतवने चासि मया पुत्र परीक्षितः 018a
पानीयार्थे पराक्रान्ता यत्र ते भ्रातरो हताः 018c
भीमार्जुनौ परित्यज्य यत्र त्वं भ्रातरावुभौ 019a
मात्रोः साम्यमभीप्सन्वै नकुलं जीवमिच्छसि 019c
अयं श्वा भक्त इत्येव त्यक्तो देवरथस्त्वया 020a
तस्मात्स्वर्गे न ते तुल्यः कश्चिदस्ति नराधिप 020c
अतस्तवाक्षया लोकाः स्वशरीरेण भारत 021a
प्राप्तोऽसि भरतश्रेष्ठ दिव्यां गतिमनुत्तमाम् 021c
ततो धर्मश्च शक्रश्च मरुतश्चाश्विनावपि 022a
देवा देवर्षयश्चैव रथमारोप्य पाण्डवम् 022c
प्रययुः स्वैर्विमानैस्ते सिद्धाः कामविहारिणः 023a
सर्वे विरजसः पुण्याः पुण्यवाग्बुद्धिकर्मिणः 023c
स तं रथं समास्थाय राजा कुरुकुलोद्वहः 024a
ऊर्ध्वमाचक्रमे शीघ्रं तेजसाऽऽवृत्य रोदसी 024c
ततो देवनिकायस्थो नारदः सर्वलोकवित् 025a
उवाचोच्चैस्तदा वाक्यं बृहद्वादी बृहत्तपाः 025c
येऽपि राजर्षयः सर्वे ते चापि समुपस्थिताः 026a
कीर्तिं प्रच्छाद्य तेषां वै कुरुराजोऽधितिष्ठति 026c
लोकानावृत्य यशसा तेजसा वृत्तसम्पदा 027a
स्वशरीरेण सम्प्राप्तं नान्यं शुश्रुम पाण्डवात् 027c
नारदस्य वचः श्रुत्वा राजा वचनमब्रवीत् 028a
देवानामन्त्र्य धर्मात्मा स्वपक्षांश्चैव पार्थिवान् 028c
शुभं वा यदि वा पापं भ्रातॄणां स्थानमद्य मे 029a
तदेव प्राप्तुमिच्छामि लोकानन्यान्न कामये 029c
राज्ञस्तु वचनं श्रुत्वा देवराजः पुरन्दरः 030a
आनृशंस्यसमायुक्तं प्रत्युवाच युधिष्ठिरम् 030c
स्थानेऽस्मिन्वस राजेन्द्र कर्मभिर्निर्जिते शुभैः 031a
किं त्वं मानुष्यकं स्नेहमद्यापि परिकर्षसि 031c
सिद्धिं प्राप्तोऽसि परमां यथा नान्यः पुमान्क्वचित् 032a
नैव ते भ्रातरः स्थानं सम्प्राप्ताः कुरुनन्दन 032c
अद्यापि मानुषो भावः स्पृशते त्वां नराधिप 033a
स्वर्गोऽयं पश्य देवर्षीन्सिद्धांश्च त्रिदिवालयान् 033c
युधिष्ठिरस्तु देवेन्द्रमेवंवादिनमीश्वरम् 034a
पुनरेवाब्रवीद्धीमानिदं वचनमर्थवत् 034c
तैर्विना नोत्सहे वस्तुमिह दैत्यनिबर्हण 035a
गन्तुमिच्छामि तत्राहं यत्र मे भ्रातरो गताः 035c
यत्र सा बृहती श्यामा बुद्धिसत्त्वगुणान्विता 036a
द्रौपदी योषितां श्रेष्ठा यत्र चैव प्रिया मम 036c